सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

३८४ बृहत्संहिता
अन्यद्वर्षज्ञानमाह—
नेच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरानपि ।
पशवः पशुवच्च कुक्कुरा यद्यम्भः पततीति निर्दिशेत् ॥९॥
यदि पशु घर से बाहर होने की इच्छा न करें और कान तथा पाँव हिलावें तो वृष्टि
कहनी चाहिये अथवा पशु की तरह कुत्ता चेष्टा करे तो भी वृष्टि कहनी चाहिये।।९।।
यदि पशवश्चतुष्पादा गवादयो गृहाद्वेश्मनो विनिर्गमं निष्क्रमणं नेच्छन्ति न वाञ्छन्ति,
तथा श्रवणान् कर्णान् पादानपि धुन्वन्ति कम्पयन्ति, तदाम्भो जलं निपततीति निर्दिशेद्वदेत्।
पशुवच्च कुक्कुराः। श्वानः पशुवत्। यथा पशवस्तथा कुक्कुरा अपि ज्ञेयाः। एतदुक्तं
भवति—नेच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरानपीति कुक्कुराणामपि ज्ञेयम्।।९।।
अन्यद्वर्षज्ञानमाह—
यदा स्थिता गृहपटलेषु कुक्कुरा
रुदन्ति वा यदि विततं वियन्मुखाः ।
दिवा तडिद्यदि च पिनाकिदिग्भवा
तदा क्षमा भवति समैव वारिणा ॥१०॥
जब घर के आच्छादन ( छतों पर ) पर स्थित होकर आकाश की तरफ देखता हुआ
कुत्ता भूंके तथा ईशान कोण में बिजली दिखाई दे तब जल से पृथ्वी समान हो जाती है
अर्थात् अधिक वृष्टि होती है।।१०।।
यदा यस्मिन् काले कुक्कुराः श्वानो गृहपटलेषु स्थिताः। गृहपटलं गृहाच्छादनं तत्र
स्थिता यदि वा विततं सततं कृत्वा वियन्मुखमाकाशं निरीक्षन्तो रुदन्ति शब्दं कुर्वन्ति।
यदि च दिवा दिवसे तडिद् विद्युत् पिनाकिदिग्भवा ईशानदिगुत्था भवति, तदा क्षमा
भूर्वारिणा जलेनैव समा निम्नोन्नता लक्ष्या न भवति। अतिवृष्टिर्भवतीत्यर्थः।।१०।।
अन्यद्वर्षज्ञानमाह—
शुककपोतविलोचनसन्निभो
मधुनिभश्च यदा हिमदीधितिः ।
प्रतिशशी च यदा दिवि राजते
पतति वारि तदा न चिरेण च ॥११॥
जिस समय तोता या कबूतर के नेत्र के समान या शहद की तरह चन्द्र हो या
आकाश में दूसरा चन्द्र दिखाई दे तो शीघ्र वृष्टि होती है।।११।।
हिमदीधितिश्चन्द्रो यदा यस्मिन् काले शुककपोतविलोचनसन्निभः। शुककपोतौ प्रसिद्धौ
पक्षिणौ तद्विलोचनसन्निभस्तन्नेत्रसदृशाभो लोहितकान्तिरित्यर्थः। मधुनिभश्च माक्षिक-सदृशवर्णो
वा पीताभ इत्यर्थः। तथा प्रतिशशी द्वितीयश्चन्द्रो यदा च दिवि नभसि राजते दृश्यते तदा
तस्मिन् काले न चिरेण शीघ्रमेव वारि पानीयं पतति वर्षतीत्यर्थः।।११।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सद्योवर्षणोध्यायः ३८५
अन्यद्वर्षज्ञानमाह—
स्तनितं निशि विद्युतो दिवा रुधिरनिभा यदि दण्डवत्स्थिताः ।
पवनः पुरतश्च शीतलो यदि सलिलस्य तदाऽऽगमो भवेत् ॥१२॥
यदि रात में मेघ का गर्जन हो, दिन में रुधिर के समान दण्डाकार बिजली दिखाई दे
तथा पूर्व दिशा की ठण्डी हवा चले तो वर्षा का आगम होता है ॥१२॥
यदि निशि रात्रौ स्तनितं मेघशब्दो भवति तथा विद्युतस्तडितो दिवा दिवसे। कीदृश्यो
विद्युत:। रुधिरनिभा अतिलोहितास्ताश्च दण्डवदूर्ध्वाधःस्थित्या स्थिताः। पवनो वायुः परतः
पूर्वस्यां दिशि शीतलो वहति तदा सलिलस्य जलस्यागमो वृष्टिपातो भवेत् स्यात् ॥१२॥
अन्यद्वर्षज्ञानमाह—
वल्लीनां गगनतलोन्मुखाः प्रवालाः
स्नायन्ते यदि जलपांशुभिर्विहङ्गाः ।
सेवन्ते यदि च सरीसृपास्तृणाग्रा-
ण्यासन्नो भवति तदा जलस्य पातः ॥१३॥
यदि लताओं के नये पत्ते ऊर्ध्वमुख के हों, जल या धूलि से पक्षी स्नान करें या
सरीसृप ( कृमिजाति = सांप आदि ) तृण के प्रान्त भाग पर स्थित हों तो शीघ्र वर्षा होती
है॥१३॥
वल्यः प्रसिद्धास्तासां प्रवाला अभिनवपत्राणि। गगनतलोन्मुखा ऊर्ध्वगामिनः।
यदि च विहङ्गाः पक्षिणो जलपांशुभिर्जलेनोदकेन वा पांशुना धूल्या स्नायन्ते स्नानं कुर्वन्ति।
सरीसृपाः कृमिजातयो यदि च तृणाग्राणि तृणप्रान्तानि सेवन्ते। तत्पृष्ठगता भवन्ति।
तदा जलस्य पानीयस्य पात आसन्नो निकटो भवति। शीघ्रमेव वर्षतीत्यर्थः ॥१३॥
अन्यद्वर्षज्ञानमाह—
मयूरशुकचाषचातकसमानवर्णा यदा
जपाकुसुमपङ्कजद्युतिमुषश्च सन्ध्याघनाः ।
जलोर्मिनगनक्रकच्छपवराहमीनोपमाः
प्रभूतपुटसञ्चया न तु चिरेण यच्छन्त्यपः ॥१४॥
मयूर, तोता, चाष ( नीलकण्ठ ), चातक, जपापुष्प या कमल के समान कान्ति वाले
तथा जल के आवर्त्त ( भँवर ), पर्वत, नक्र ( नाक ), कछुआ, सूअर या मछली के समान
आकृति वाले मेघ हों तो शीघ्र वृष्टि करते हैं ॥१४॥
एवंविधाः सन्ध्याकाले घना मेघा न तु चिरेण कालेन शीघ्रमेवापो जलं यच्छन्ति
ददति। कीदृशाः। मयूरशुकचाषचातकाः सर्व एव पक्षिविशेषाः। एतेषां समानवर्णास्तुल्यभाः,
अतिनीलकान्तय इत्यर्थः।
बृ० भ० प्र०-२५
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३८६ | बृहत्संहिता
तथा जपाकुसुमपङ्कजद्युतिमुषः, जपाकुसुमं पुष्पविशेषोऽतिलोहितः। पङ्कजं पद्मम्।
पङ्के कर्दमे जायत इति। अनयोर्द्युतिं कान्तिं ये मुष्णन्ति अपहरन्ति, अतिलोहितत्वात्तथा-
विधाः। तथा जलोर्मिरुदकावर्तः, नगः पर्वतः, नक्रो जलप्राणी, कच्छपः कूर्मः, वराहः
सूकरः, मीनो मत्स्यः, एषां सदृशाकृतयः। तथा प्रभूतपुटसञ्चयाः। प्रभूतो बहुप्रकारः पुट-
सञ्चयो येषाम्। उपर्युपरि स्थिता इत्यर्थः ॥१४॥
अथान्यद्वर्षज्ञानमाह—
पर्यन्तेषु सुधाशशाङ्कधवला मध्येऽञ्नालित्विषः
स्निग्धा नैकपुटाः क्षरज्जलकणाः सोपानविच्छेदिनः ।
माहेन्द्रीप्रभवाः प्रयान्त्यपरतः प्राग् वाम्बुपाशोद्भवा
ये ते वारिमुचस्त्यजन्ति न चिरादम्भः प्रभूतं भुवि ॥१५॥
यदि चारो तरफ चूना या चन्द्र के समान श्वेत, मध्य में कज्जल या भ्रमर के समान
कान्ति वाले, निर्मल, ऊपर-ऊपर स्थित, जलबिन्दु छोड़ते हुये और सीढ़ी की तरह स्थित
मेघ पूर्व दिशा में उत्पन्न होकर पश्चिम की तरफ या पश्चिम में उत्पन्न होकर पूर्व दिशा की
तरफ गमन करे तो पृथ्वी पर शीघ्र अधिक वृष्टि करता है॥१५॥
एवंविधा ये वारिमुचो मेघास्ते न चिराच्छीघ्रमेव भुवि भूमावम्भो जलं प्रभूतं सुबहु
त्यजन्ति विसृजन्ति। कीदृशाः। पर्यन्तेषु समन्ततः। सुधा मक्कोलः। शशाङ्कश्चन्द्रः।
तद्वद्धवलाः शुक्लाः। तथा मध्ये मध्यभागेऽञ्नालित्विषः। अञ्जनं कज्जलम्। अलिर्भ्रमरः।
तद्वत्त्विट् कान्तिर्येषां ते तथाभूताः। तथा स्निग्धा निर्मलाः। नैकपुटा बहुभिः पुटैरुपलक्षिताः।
उपर्युपरि स्थिता इत्यर्थः। क्षरज्जलकणाः, क्षरन्तस्त्यजन्तो जलकणा जलबिन्दवो येषां
ते। सोपानविच्छेदिनः। सोपानवद्विच्छेदो येषां ते। सोपानपदपङ्क्तिन्यायेन स्थिता इत्यर्थः।
माहेन्द्रीप्रभवाः पूर्वस्यां दिशि उत्पन्नाः। अपरतः पश्चिमायां दिशि प्रयान्ति गच्छन्ति। अम्बु-
पाशोद्भवाः। अम्बुपो वरुणस्तस्याशा वारुणी दिक् पश्चिमेत्यर्थः। तदुद्भवास्तत्सम्भूताः
प्राग्वा पूर्वा वा दिशं यान्ति॥१५॥
अन्यद्वर्षज्ञानमाह—
शक्रचापपरिघप्रतिसूर्या रोहितोऽथ तडितः परिवेषः ।
उद्गमास्तसमये यदि भानोरादिशेत् प्रचुरमम्बु तदाशु ॥१६॥
यदि सूर्य के उदय या अस्त समय में इन्द्रधनु, परिघ ( ४७ वें अध्याय के १९ वें
श्लोक में पठित ), दूसरा सूर्य, रोहित ( ४७ अ० २० श्लोक ) या सूर्य-चन्द्र का परिवेष
दिखाई दे तो शीघ्र अधिक वृष्टि होती है॥१६॥
भानोरादित्यस्योद्गमास्तसमये उदयकालेऽस्तमयकाले वा यद्येते दृश्यन्ते तदाशु शीघ्रमेव
प्रचुरं प्रभूतमम्बु जलमादिशेद्वदेत्। के ते? शक्रचापपरिघप्रतिसूर्याः, शक्रचापमिन्द्रधनुः।
परिघः सूर्योदयास्तमयसमये तिर्यक् स्थिता मेघरेखा, तस्य च लक्षणं वक्ष्यति—'परिघ
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सद्योवर्षणाध्यायः ३८७
इति मेघरेखा' । प्रतिसूर्यो द्वितीयोऽर्कः। रोहितस्तस्य च लक्षणं वक्ष्यति—'सुरचापखण्डमृजु
यद्रोहितम्' इति।
अथशब्दश्चार्थे। अथ तडितो विद्युत‌ः। परिवेषः सूर्यशशिनोः। तस्य लक्षणं वक्ष्यति—
'सम्मूर्च्छिता रवीन्द्वोः किरणाः' इति। एते सर्व एव।।१६।।
अन्यदृर्षज्ञानमाह—
यदि तित्तिरपत्रनिभं गगनं मुदिताः प्रवदन्ति च पक्षिगणाः ।
उदयास्तमये सवितुर्द्युर्निशं विसृजन्ति घना न चिरेण जलम् ।।१७।।
यदि उदय या अस्तसमय तित्तिर के पंख के समान आकाश हो और आनन्दित होकर
पक्षी गण शब्द करें तो क्रम से दिन और रात्रि में शीघ्र अति वृष्टि होती है। जैसे उदयकाल
में उक्त लक्षण हो तो दिन में और अस्तकाल में हो तो रात्रि में अति वृष्टि होती है।।१७।।
यदि गगनमाकाशं तित्तिरपत्रनिभम्, तित्तिरः पक्षी तस्य पत्रं पक्षस्तन्निभमिति तद्वत्।
आवृत्तत्वाद्विचित्रमित्यर्थः। अथ च पक्षिगणा विहङ्गसमूहा मुदिता हृष्टाः प्रवदन्ति शब्दं
कुर्वन्ति सवितुः सूर्यस्योदयकालेऽस्तमयकाले वा। ते च यथासङ्ख्यं द्युनिशम्। उदये
दिवसे अस्ते च रात्रौ घना मेघा न चिरेण शीघ्रमेव जलं विसृजन्त्युत्सृजन्ति। वर्षन्तीत्यर्थः।
उदयकाले दिवा वृष्टिरस्तमयकाले रात्राविति। अनार्षोऽयं श्लोकः।।१७।।
अन्यदृर्षज्ञानमाह—
यद्यमोघकिरणाः सहस्त्रगोरस्तभूधरकरा इवोच्छ्रिताः ।
भूसमं च रसते यदाम्बुदस्तन्महद्भवति वृष्टिलक्षणम् ।।१८।।
यदि हजार, अमोघ ( ३० अध्याय ११ वें श्लोक में पठित ), अस्ताचल पर्वत के
हाथ की तरह उन्नत सूर्य के किरण दिखाई दें और मेघ पृथ्‍वी के निकट आकर गर्जे तो
वर्षा होने का उत्तम योग होता है।।१८।।
सहस्रं गवां रश्मीनां यस्य स सहस्रगुप्तस्य सहस्रगोरादित्यस्य यद्यमोघकिरणाः।
अमोघाख्या रश्मयः। तेषां लक्षणं वक्ष्यति—'शुक्राः करा दिनकृतः' इति। एवंविधा
अमोघकिरणा अस्तभूधरकरा इवोच्छ्रिताः। अस्तभूधरस्यास्तमयपर्वतस्योच्छ्रिता उच्ची-
कृताः करा हस्ता इव लक्ष्यन्ते। उदयास्तमययोश्चैवंविधा दृश्यन्ते। वक्ष्यत्याचार्यः। उदये-
ऽस्ते वा भानोर्ये दीर्घा रश्मयस्त्वमोघास्ते। तथाम्बुदो मेघो भूसमं क्षितितुल्यं रसते श्लि-
ष्यते यदा तत्तस्मान्महद्वृष्टिलक्षणं भवति। अतिवृष्टिचिह्नं भवतीत्यर्थः। तथा च समास-
संहितायाम्—
पृच्छाकाले शान्ता वारुणदिक्स्था विहङ्गा वा।
दर्पणलोहकलङ्को लवणक्लेदोऽतितीक्ष्णकिरणोऽर्कः ।।
पोप्लूयन्ते मत्स्या दिश्यैशान्यां तडिच्च दिवा।
उत्कर्णपुच्छवदना गावस्तापोऽम्भसां पवननाशः ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३८८ बृहत्संहिता
अञ्जनपुञ्जश्यामा गिरयो वाष्पावृता यदि वा।
यदि जलपांशुस्नानं विहगानां मैथुनं द्विजिह्वानाम्।।
वृक्षारोहणमथवा पिपीलिकाण्डोपसङ्क्रान्तिः।
कृकवाकुशुककपोतकलविङ्कविलोचनोऽर्केन्द्रोः ।।
स्निग्धः परिवेषो वा वियदमलं बालकनिमित्तम्।
मधुसदृशः शीतांशुः प्रतिचन्द्रः शीतमारुतः पूर्वः।।
ऊर्ध्वाङ्कुराश्च वल्यः सद्योवर्षाय कीर्त्यन्ते।
स्निग्धाः समसितरेखा यथाभ्रवृन्द्वानि कल्पितान्येव।।
यच्छन्त्यपो मयूखा यदि चेन्दोर्वा खेर्दीप्ताः।। इति।
अत्र यानि सद्योवर्षचिह्नानि उक्तानि तेषु बलवत्सु महदृष्टिं मध्येषु मध्यममल्पेष्व-
त्यल्पां वदेत्। तथा च पराशरः—
बलवत्सु महद्वर्षमल्पेष्वल्पाम्बुशीकरम्।
मध्येषु मध्यमं ब्रूयान्निमित्तेषु निमित्तवत्।।
उल्कानिर्घातभूकम्पपांशुवर्षाणि केतवः।
अपसव्या ग्रहाश्चैव नित्यं वर्षासु वर्षदाः।। इति।।१८।।
अन्यद्वर्षलक्षणमाह—
प्रावृषि शीतकरो भृगुपुत्रात् सप्तमराशिगतः शुभदृष्टः।
सूर्यसुतान्नवपञ्चमगो वा सप्तमगश्च जलाऽऽगमनाय ।।१९।।
यदि वर्षाकाल में शुक्र से सप्तम राशि में स्थित होकर चन्द्रमा शुभग्रह से देखा जाता
हो अथवा शनैश्चर से नवम या पञ्चम में स्थित होकर शुभग्रह से देखा जाता हो तो जल
के आगमन के लिये होता है।।१९।।
प्रावृड्ग्रहणमन्यकालव्युदासार्थम्। प्रावृषि वर्षाकाले शीतकरश्चन्द्रो भृगुपुत्राच्छुक्रात्
सप्तमराशिगतः सप्तमराशौ व्यवस्थितः। तत्र च शुभदृष्टः सौम्यग्रहावलोकितस्तदा
जलाऽऽगमनाय वर्षाऽऽगमनाय भवतीति। अथवा सूर्यसुतात् सौरात् स एव चन्द्रो नवमगः
पञ्चमगो वा सप्तमगो वा यदि भवति स च शुभदृष्टस्तदा जलाऽऽगमनाय वर्षाऽऽगमनाय
भवतीति।।१९।।
अन्यद्वर्षलक्षणमाह—
प्रायो ग्रहाणामुदयास्तकाले समागमे मण्डलसंक्रमे च।
पक्षक्षये तीक्ष्णकरायनान्ते वृष्टिर्गतेऽर्के नियमेन चार्द्राम् ।।२०।।
ग्रहों के उदय या अस्तकाल में, चन्द्र के साथ समागम होने पर, मण्डल (शुक्रचारोक्त
छः मण्डल) में प्रवेश होने पर, पक्ष के अन्त में, सूर्य के दक्षिणायनान्त और उत्तरायणान्त
(कर्क और मकर संक्रान्ति) में तथा सूर्य के आर्द्रा नक्षत्र में स्थित होने पर निश्चय करके
वृष्टि होती है।।२०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

ग्रहाणामुदयकाले सूर्यमण्डलान्निर्गमे। तत्रैवास्तकालेऽस्तमये। एवमुदयास्तमयावत्र
अर्कविप्रकर्षसन्निकर्षजौ ज्ञेयौ। तथा समागमे, समागमश्चन्द्रेण सह ताराग्रहाणाम्। मण्डल-
सङ्क्रमे वा, मण्डलानि भरणीपूर्वमण्डलमित्यादि षण्मण्डलानि शुक्रचारोक्तानि तेषां संक्रमे
प्रवेशे च। पक्षक्षयोऽमावस्यापौर्णमास्यन्तस्तस्मिन्। तीक्ष्णकरस्यादित्यस्यायनान्ते दक्षिणो-
त्तरयोरयनयोः समाप्तौ। कर्कटकमकरसंक्रान्तावित्यर्थः। एतेषु सर्वेषु प्रायो बाहुल्येन वृष्टि-
र्भवति। तथाऽर्के सूर्ये आर्द्रां गते रौद्रं नक्षत्रं प्राप्ते नियमेन निश्चयेन वृष्टिर्भवति॥२०॥
अन्यदृर्षज्ञानमाह—
समागमे पतति जलं ज्ञशुक्रयोर्ज्ञजीवयोर्गुरुसितयोश्च सङ्गमे।
यमारयोः पवनहुताशजं भयं ह्यदृष्टयोरसहितयोश्च सद्ग्रहैः ॥२१॥
बुध-शुक्र, बुध-गुरु, गुरु-शुक्र और शनि-मंगल की युति हो तथा उस पर शुभग्रह
की दृष्टि या योग न हो तो वायु और अग्नि का भय होता है॥२१॥
ज्ञो बुधः। शुक्रो भार्गवः। तयोर्ज्ञशुक्रयोः समागमे संयोगे जलं पानीयं पतति वर्षती-
त्यर्थः। तथा ज्ञजीवयोर्बुधबृहस्पत्योः सङ्गमे संयोगे जलं पतति। गुरुसितयोर्जीवशुक्रयोः
सङ्गमे जलं पतति। यमारयोः सौराङ्गारकयोः सङ्गमे पवनहुताशजं भयं भवति। पवनो
वायुः। हुताशोऽग्निः। तज्जं भयं भवति। किं सर्वदा। न, इत्याह—अदृष्टयोरसहितयोश्च
सद्ग्रहैरिति। सद्ग्रहा बुधबृहस्पतिशुक्राः। एतेषामन्यतमेनादृष्टयोरनवलोकितयोरसहित-
योरसंयुक्तयोः पवनहुताशजं भयं भवति। युक्तदृष्टयोर्नेति॥२१॥
अन्यदृर्षज्ञानमाह—
अग्रतः पृष्ठतो वापि ग्रहाः सूर्यविलम्बिनः।
यदा तदा प्रकुर्वन्ति महीमेकार्णवामिव ॥२२॥
यदि सूर्य से मन्दगति ग्रह आगे और शीघ्रगति ग्रह पीछे हों तो पृथ्वी को जल से
समुद्र की तरह कर देते हैं॥२२॥
सूर्यावलम्बिनो ग्रहाः सूर्यावलम्बनशीलाः। अस्तमयाभिलाषिण इत्यर्थः। अग्रतः
पृष्ठतो वा भवन्ति। अग्रतः पुरस्तात्। पृष्ठतः पश्चात्। मन्दग्रहा अग्रतोऽस्तमयं यान्ति।
शीघ्रग्रहाः पृष्ठतः। सूर्यस्य प्राक्पश्चाद्वा यद्यस्तमयं कुर्वन्ति, यदा यस्मिन् काले, तदा
तस्मिन् काले महीं भूमिमेकार्णवां सर्वजलमयीं कुर्वन्तीत्यर्थः। बहुवचननिर्देशाद्यादयो
ग्रहा ज्ञेया इति॥२२॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ सद्यो-
वर्षलक्षणनामाष्टाविंशोऽध्यायः ॥२८॥
प्रविशति यदि खद्योतो जलदसमीपेषु रजनीषु।
केदारपूरमधिकं वर्षति देवस्तदा न चिरात् ॥२३॥

३९० बृहत्संहिता
वर्षत्यपि रटति यदा गोमायुश्च प्रदोषवेलायाम् ।
सप्ताहं दुर्द्दिनमपि तदा पयो नात्र सन्देहः१ ॥२४॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
सद्योवर्षणाध्यायोऽष्टाविंशः ॥२८॥
यदि रात्रि में जुगनू मेघ के समीप तक जाय तो शीघ्र मेघ धान्य के क्षेत्रों को पूर्ण
करने वाली वृष्टि करता है।
यदि प्रदोष समय में वर्षा हो या सियार भूंकें तो निश्चय करके सात दिन तक दुर्द्दिन
और वृष्टि होती है।।२३-२४।।
इति 'विमला'हिन्दीटीकायां सद्योवर्षणाध्यायोऽष्टाविंशः ॥२८॥
१. पद्यद्वयमिदमनार्षत्वात्केनचित्प्रक्षिप्तमिति प्रतिभाति।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

अथ कुसुमलताध्यायः
अथ कुसुमलताध्यायो व्याख्यायते। तत्रादावेव तत्प्रयोजनप्रदर्शनार्थमाह—
फलकुसुमप्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम्।
सुलभत्वं द्रव्याणां निष्पत्तिश्चापि सस्यानाम् ॥१॥
वृक्षों में फल और फूलों की वृद्धि देखकर द्रव्यों की सुलभता तथा धान्यों की
निष्पत्ति जाननी चाहिये॥१॥
वनस्पतीनां वृक्षाणां फलकुसुमप्रवृद्धिं फलानां कुसुमानां च पुष्पाणां सम्यक्
प्रवृद्धिं विलोक्य दृष्ट्वा द्रव्याणां सर्वेषां सुलभत्वं सामर्थ्यं विज्ञेयं विज्ञातव्यम्। तथा
सस्यानामपि निष्पत्तिः सम्पद् ज्ञेयेति॥१॥
अथ केन कस्य वृद्धिर्ज्ञेयेत्येतदाह—
शालेन कलमशाली रक्ताशोकेन रक्तशालिश्च।
पाण्डूकः क्षीरिकया नीलाशोकेन सूकरकः ॥२॥
शाल वृक्ष पर फल और फूलों की वृद्धि से कलम शाली ( जड़हन धान्य आदि ),
रक्त अशोक से रक्त धान्य, दूधी से पाण्डूक और नील अशोक पर फल, फूलों की वृद्धि
से सूकरक ( धान्यविशेष ) की वृद्धि जाननी चाहिये॥२॥
शालो वृक्षविशेषस्तस्य फलकुसुमप्रवृद्धिं दृष्ट्वा कलमशाल्यादीनां निष्पत्तिः
सुलभत्वं च ज्ञेयम्। एवं सर्वत्र। तस्माच्छालेन कलमशाली विज्ञातव्या। तथा रक्ताशोकेन
रक्तशालिः। पाण्डूकः शालिविशेषः, स च क्षीरिकया दुग्धिकया ज्ञेयः। सूकरकः शालि-
विशेषः, स च नीलाशोकेन विज्ञेयः॥२॥
अथान्यत्—
न्यग्रोधेन तु यवकस्तिन्दुकवृद्ध्या च षष्टिको भवति।
अश्वत्थेन ज्ञेया निष्पत्तिः सर्वसस्यानाम् ॥३॥
वटवृक्ष से गव, तिन्दुक ( तेंदुआ ) से साठी धान्य और पीपल से सब धान्यों की
वृद्धि देखनी चाहिये॥३॥
यवकः शालिविशेषः, स च न्यग्रोधेन विज्ञेयः। षष्टिकः शालिविशेषः, स च तिन्दुक-
वृद्ध्या भवति। अश्वत्थेन सर्वसस्यानां निष्पत्तिर्ज्ञेया ज्ञातव्या॥३॥
अथान्यत्—
जम्बूभिस्तिलमाषाः शिरीषवृद्ध्या च कङ्गुनिष्पत्तिः।
गोधूमाश्च मधूकैर्यववृद्धिः सप्तपर्णेन ॥४॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

३९२ बृहत्संहिता
जामुन से तिल, माष आदि, शिरीष ( शिरस ) से प्रियङ्गु ( ककुनी = कौनी ),
महुए से गेहूँ और सप्तवर्ण वृक्ष पर फल, फूल की वृद्धि से यव की वृद्धि जाननी चाहिये।
जम्बुवृक्षविशेषस्ताभिर्जम्बूभिस्तिलमाषा ज्ञातव्याः। शिरीषो वृक्षविशेषस्तद्वृद्ध्या
कङ्गुनिष्पत्तिः। कङ्गुः प्रियङ्गुः। मधूको वृक्षविशेषः। तैर्मधूकैर्गोधूमा ज्ञेयाः। सप्तपर्णो
वृक्षविशेषस्तेन यववृद्धिर्भवति।।४।।
अथान्यत्—
अतिमुक्तककुन्दाभ्यां कार्पासं सर्षपान् वदेदशनैः ।
बदरीभिश्च कुलत्थांश्चिरबिल्वेनादिशेन्मुद्गान् ॥५॥
वासन्ती लता और कुन्द पुष्पों में फल-पुष्पों की वृद्धि से कपास, असना से सरसों,
बेर से कुलथी और करञ्ज में फल-पुष्पों की वृद्धि से मूंग की वृद्धि जाननी चाहिये ।।५।।
अतिमुक्तको वृक्षविशेषः कुन्दश्च यत्र कुन्दपुष्पाणि भवन्ति। ताभ्यामतिमुक्तककुन्दाभ्यां
कार्पासं वदेत् ब्रूयात्। अशनो वृक्षविशेषस्तैः सर्षपान् वदेद् ब्रूयात्। बदरीभिश्च कुलत्थान्
वदेत्। चिरबिल्वेन करञ्जेन मुद्गानादिशेद् ब्रूयात् ।।५।।
अन्यदप्याह—
अतसी वेतसपुष्पैः पलाशकुसुमैश्च कोद्रवा ज्ञेयाः ।
तिलकेन शङ्खमौक्तिकरजतान्यथ चेङ्गुदेन शणाः ॥६॥
वेतस वृक्ष में फल-पुष्पों की वृद्धि से असली ( तीसी ), पलास से कोदों, तिलक
से शंख, मोती और चाँदी की तथा इङ्गुदी वृक्षों में फल-पुष्पों से सन की वृद्धि जाननी चाहिये।
वेतसो वृक्षविशेषस्तत्पुष्पैरतसी ज्ञेया ज्ञातव्या। पलाशकुसुमैः पलाशवृक्षपुष्पैः कोद्रवा
ज्ञेया ज्ञातव्याः। तिलको वृक्षविशेषस्तेन शङ्खमौक्तिकरजतानि शङ्खः प्रसिद्धः, मौक्तिकं
मुक्ताफलानि, रजतं रूप्यम्, एतानि विज्ञेयानि। अथानन्तरमिङ्गुदेन वृक्षविशेषेण शणा
विज्ञेयाः ।।६।।
अथान्यत्—
करिणश्च हस्तिकर्णैरादेश्या वाजिनोऽश्वकर्णेन ।
गावश्च पाटलाभिः कदलीभिरजाविकं भवति ॥७॥
हस्तिकर्ण वृक्ष पर फल-पुष्पों की वृद्धि से हाथी, अश्वकर्ण से घोड़ा, पाटला से गाय
और कदली वृक्ष पर फल-पुष्पों की वृद्धि से बकरी, भेड़ आदि की वृद्धि होती है ।।७।।
हस्तिकर्णैः करिणो गजा आदेश्या वक्तव्याः। वाजिनोऽश्वास्ते चाश्वकर्णेन एतौ द्वावपि
सुप्रसिद्धौ। पाटलां वृक्षजातिस्ताभिर्गावः। अजश्चच्छागोऽविर्मेषः। अजाविकं कदलीभी
रम्भाभिर्भवति ।।७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

कुसुमलताध्यायः ३९३
अथान्यदप्याह—
चम्पककुसुमैः कनकं विद्रुमसम्पच्च बन्धुजीवेन ।
कुरवकवृद्ध्या वज्रं वैडूर्यं नन्दिकावर्त्तः ॥८८॥
चम्पापुष्प की वृद्धि से सोना, बन्धुजीव से मूंगा, कुरवक से वज्र और नन्दिकावर्त
से वैदूर्य मणि की वृद्धि होती है॥८८॥
कनकं सुवर्णं चम्पकपुष्पैः। बन्धुजीवेन विद्रुमस्य सम्पत् सुलभत्वम्। वज्रं मणि-
विशेषस्तत्कुरववृद्ध्या। नन्दिकावर्त्तैर्वैडूर्यम्॥८८॥
अथान्यदप्याह—
विन्द्याच्च सिन्धुवारेण मौक्तिकं कारुकाः कुसुम्भेन ।
रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः ॥८९॥
सिन्धुवास से मोती, कुसुम्भ से केशर, रक्त कमल से राजा और नील कमल से
मन्त्री की वृद्धि देखनी चाहिये॥८९॥
सिन्धुवारो वृक्षविशेषस्तेन मौक्तिकं विन्द्याज्जानीयात्। कारुकाः शिल्पिनः कुसुम्भेन
महारजतेन। राजा नृपो रक्तोत्पलेनोक्तः। नीलोत्पलेन मन्त्री सचिवः॥८९॥
अन्यदप्याह—
श्रेष्ठी सुवर्णपुष्प्यात् पद्मैर्विप्राः पुरोहिताः कुमुदैः ।
सौगन्धिकेन बलपतिरर्केण हिरण्यपरिवृद्धिः ॥९०॥
सुवर्ण पुष्प से व्यापारी, कमल से ब्राह्मण, कुमुद से पुरोहित, सुगन्धित वस्तु से
सेनापति और आक से सोने की वृद्धि देखनी चाहिये॥९०॥
सुवर्णपुष्पात् श्रेष्ठी ज्ञेयः। पद्मैः कमलैर्विप्रा ब्राह्मणाः। कुमुदैः कैरवैः पुरोहिता नृपा-
चार्याः। बलपतिः सेनापतिः सौगन्धिकेन। हिरण्यस्य सुवर्णस्य परिवृद्धिरर्केण॥९०॥
अथान्यत्—
आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथारोग्यम् ।
खदिरशमीभ्यां दुर्भिक्षमर्जुनैः शोभना वृष्टिः ॥९१॥
आम की वृद्धि से मनुष्यों को कुशल, भल्लातक से भय, पीलु से आरोग्य, खैर तथा
शमी से दुर्भिक्ष और अर्जुन वृक्ष से सुन्दर वृष्टि कहनी चाहिये॥९१॥
आम्रैश्चूतैः क्षेमं विन्द्यात्। भल्लातकैर्भयं भीतिम्। पीलुभिस्तथा आरोग्यमरोगित्वम्।
खदिरशमीभ्यां प्रवृद्धाभ्यां दुर्भिक्षं भवति। अर्जुनैः शोभना वृष्टिः, सुवृष्टिर्भवतीत्यर्थः।
अन्यदप्याह—
पिचुमन्दनागकुसुमैः सुभिक्षमथ मारुतः कपित्थेन ।
निचुलैनावृष्टिभयं व्याधिभयं भवति कुटजेन ॥९२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

गर्भलक्षण, प्रवर्षण एवं रोहिणी-योग वर्षा-विज्ञान (अध्याय २१-२८)

३९४ बृहतसंहिता
निम्ब और नागकेसर पर पुष्पों की वृद्धि से सुभिक्ष, कपित्थ से वायु, निचुल से
अवृष्टि का भय और कुटज से व्याधिभय का ज्ञान करना चाहिये।।१२।।
पिचुमन्दो निम्बवृक्षः, नागो नागकेसर इति प्रसिद्धः, तयोः पुष्पैः सुभिक्षं ज्ञेयम्।
अथ कपित्थेन मारुतो वायुः। कपित्थो वृक्षविशेषः। निचुलेन वृक्षविशेषेण अवृष्टिभयं
भवति। निचलो जलवेतसवृक्षः। कुटजेन व्याधिभयं भवति।।१२।।
अन्यदप्याह—
दूर्वाकुशकुसुमाभ्यामैक्षुर्वह्निश्च कोविदारेण।
श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति ।।१३।।
दूब और कुश के पुष्पों की वृद्धि से ईख (गन्ना), कचनार से आग और श्याम
लता की वृद्धि से वेश्या, व्यभिचारिणी आदि स्त्री की वृद्धि होती है।।१३।।
दूर्वा शाद्वलम्। कुशो दर्भः। तत्कुसुमाभ्यां तत्पुष्पाभ्यामैक्षुर्भवति। कोविदारेण च वह्नि-
रग्निः। श्यामालता लतैव प्रसिद्धा। तदभिवृद्ध्या बन्धक्यो वेश्या वृद्धिमायान्ति प्राप्नुवन्ति।
अथैताभिर्वृष्टिलक्षणमाह—
यस्मिन् काले स्निग्धनिश्छिद्रपत्राः
सन्दृश्यन्ते वृक्षगुल्मा लताश्च।
तस्मिन् वृष्टिः शोभना सम्प्रदिष्टा
यक्षैश्छिद्रैरल्पमम्भः प्रदिष्टम् ।।१४।।
इति श्रीवराहमिहिरकृतौ बृहतसंहितायां कुसुमलतानामैकोनत्रिंशोऽध्यायः ।।२९।।
जिस समय वृक्षगुल्म (फैली लता) और लताओं के पत्ते चिकने तथा छिद्ररहित
दिखाई दें, उस समय सुन्दर वृष्टि होती है। यदि वे (पत्ते) रूक्ष और छिद्रयुक्त हों तो
थोड़ी वृष्टि होती है।।१४।।
इति 'विमला' हिन्दीटीकायां कुसुमलताध्याय एकोनत्रिंशः ।।२९।।
वृक्षास्तरवः, गुल्म एकमूलो विटपः, लताः प्रसिद्धाः, एते यस्मिन् काले स्निग्धा
निर्मला निश्छिद्रपत्राः, छिद्ररहितैः पत्रैः सन्दृश्यन्ते तस्मिन् काले शोभना वृष्टिः प्रदिष्टा उक्ता।
तैरेव रूक्षैरस्निग्धैश्छिद्रैश्चाल्पं परिमितमम्भः पानीयं प्रदिष्टमुक्तम्। तथा च पराशरः—
अच्छिद्रपत्राः सुस्निग्धाः फलपुष्पसमन्विताः।
निर्दिशन्ति शुभं वृक्षा विपरीतं विगर्हिताः।। इति ।।१४।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ कुसुमलता नामैकोनत्रिंशोऽध्यायः ।।२९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ सन्ध्यालक्षणाध्यायः
अथ सन्ध्यालक्षणं व्याख्यायते। तत्रादावेव तल्लक्षणमाह—
अर्द्धास्तमितानुदितात् सूर्यादस्पष्टभं नभो यावत्।
तावत् सन्ध्याकालश्चिह्नैरेतैः फलं चास्मिन् ॥१॥
अर्द्धास्त सूर्यविम्ब के बाद आकाश में नक्षत्रगण अच्छी तरह नहीं दिखाई देने तक
एक सन्ध्या ( सायं सन्ध्या ) और नक्षत्रों के स्वल्प कान्ति होने के बाद अर्द्धोदित सूर्य विम्ब
होने तक दूसरी ( सायं सन्ध्या ) होती है। लक्षणों के द्वारा इसका फल आगे कहते हैं।
सूर्याद् आदित्यादर्द्धास्तमितादारभ्य यावन्नभ आकाशमस्पष्टभम्। अस्पष्टान्यस्फुटानि
भानि नक्षत्राणि यत्र तत्। तावदेका सायंसन्ध्या। तथा स्पष्टभान्नभस आरभ्य प्रभातकाले
यस्मिन् समये भानां स्वल्पा कान्तिर्भवति ततः कालाद्यावत्सूर्य अर्द्धोदितस्तावद् द्वितीया
प्रातःसन्ध्या। एवमर्धास्तमितानुदितात् सूर्यादस्पष्टभं नभो यावत्तावत्सन्ध्याकालः। तथा
च गर्गः—
अहोरात्रस्य यः सन्धिः सा च सन्ध्या प्रकीर्तिता।
द्विनाडिका भवेत् साधुर्यावदाज्योर्तिदर्शनम्।। इति।
अस्मिन् सन्ध्याकाले एतैर्वक्ष्यमाणैश्चिह्नैर्लक्षणैः शुभाशुभं फलं वाच्यं वक्तव्यम् ।।१।।
इत्याह—
मृगशकुनिपवनपरिवेषपरिधिपरिघाभ्रवृक्षसुरचापैः ।
गन्धर्वनगररविकरदण्डरजः स्नेहवर्णैश्च ॥२॥
अरण्यवासी पशु, पक्षी, वायु, रवि-चन्द्र के परिवेष, प्रतिसूर्य, परिघ, मेघरेखा,
वृक्षाकार मेघ, इन्द्रधनु, गन्धर्वनगर, सूर्य की रश्मि, दण्ड ( रविकिरण, जल और वायु का
संघात ), धूली—इन सबों के सन्ध्याकालिक स्नेह और वर्णों से फल कहना चाहिये।।२।।
मृगा अरण्यप्राणिविशेषाः, शकुनिः पक्षी, पवनो वायुः, परिवेषोऽर्कचन्द्रमसोः, परिधिः
प्रतिसूर्यः, परिघो भास्करस्योदयेऽस्तमये वा तिर्यक्स्थिता मेघरेखा, अभ्रवृक्षो मेघ एव
वृक्षाकारः, सुरचापमिन्द्रधनुः, एतैः तथा गन्धर्वनगरं खपुरम्, रविकराः सूर्यरश्मयः, दण्डो
रविकिरणजलदमरुतां सङ्घातः, रजः प्रसिद्धम्, स्नेहवर्णैः सर्वेषामेव, एतैश्च सन्ध्याकालं
वाच्यमिति।।२।।
तत्र मृगचेष्टितमाह—
भैरवमुच्चैर्विरुवन् मृगोऽसकृद् ग्रामघातमाचष्टे ।
रविदीप्तो दक्षिणतो महास्वनः सैन्यघातकरः ॥३॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

३९६ बृहत्संहिता
बार-बार ऊँचा भयंकर शब्द करने वाला मृग ग्रामों के नाश का सूचक है तथा सेना
के दक्षिण भाग में स्थित सूर्याभिमुख होकर भयंकर शब्द करे तो सेनाओं को नष्ट करता
है।।३।।
मृग उच्चैः कृत्वा भैरवं विरुवन् भयावहं शब्दं कुर्वन्नसकृदनेकवारं ग्रामघातं
ग्रामविनाशमाचष्टे कथयति, तथा सैन्यस्य सेनाया दक्षिणतो दक्षिणास्यां दिशि स्थितस्तत्र
च रविदीप्तः सूर्याभिमुखो महास्वनो महाशब्दः सैन्यस्य घातं सेनाविनाशं करोति।।३।।
अन्यदप्याह—
अपसव्ये संग्रामः सव्ये सेनासमागमः शान्ते।
मृगचक्रे पवने वा सन्ध्यायां मिश्रगे वृष्टिः ॥४॥
यदि सन्ध्याकाल में सेनाओं के वाम भाग में सूर्याभिमुख होकर मृगसमूह या वायु
हो तो संग्राम, दक्षिण में सूर्याभिमुख नहीं होकर स्थित हो तो सेनाओं का समागम और
दोनों तरफ स्थित हो तो वृष्टि होती है।।४।।
सन्ध्यायां सन्ध्याकाले मृगचक्रे मृगसमूहे पवने वायौ वापसव्ये सैन्यस्य वामभागस्थे
दीप्ते सूर्याभिमुखे च संग्रामो भवति। तथा सव्ये दक्षिणे शान्ते शान्तदिक्स्थे मधुरस्वरे-
ऽनर्काभिमुखे च सेनासमागमः। द्वयोः सैन्ययोः संयोगो भवति। तथा तस्मिन्नेव मृगचक्रे
मृगसमूहे पवने वायुसमूहे वा सन्ध्यायां मिश्रगे शान्तदीप्तदिगुत्थे वृष्टिर्वर्षणं भवतीति।।४।।
अन्यच्च सन्ध्यालक्षणमाह—
दीप्तमृगाण्डजविरुता प्राक् सन्ध्या देशनाशमाख्याति।
दक्षिणदिक्स्थैर्विरुता ग्रहणाय पुरस्य दीप्तास्यैः ॥५॥
सूर्याभिमुख हुये मृग और पक्षियों के शब्दयुत प्रातः सन्ध्या देश का नाश करती है
तथा सूर्याभिमुख होकर दक्षिण दिशा में स्थित मृग और पक्षियों के शब्दयुत सन्ध्या शत्रुओं
द्वारा नगर को हस्तगत कराती है।।५।।
प्राक् सन्ध्या पूर्वसन्ध्या दीप्तमृगाण्डजविरुता। दीप्तैर्दीप्तदिक्स्थै रूक्षैः स्वनैः
सूर्याभिमुखैर्मृगैरारण्यैः। अण्डजैः पक्षिभिश्च विरुता कृतशब्दा देशस्य नाशमाख्याति
कथयति। तथा तैरेव मृगाण्डजैर्दीप्तास्यैः सूर्याभिमुखैर्ग्रामस्य पुरस्य वा दक्षिणदिक्स्थै-
र्याम्याशासमवस्थितैर्विरुता सन्ध्या पुरस्य ग्रहणाय भवति। तत्पुरमन्यैः शत्रुभिर्गृह्यत इति।
अथ सन्ध्याकाले वायोर्लक्षणमाह—
गृहतरुतोरणमथने सपांशुलोष्टोत्करेऽनिले प्रबले।
भैरवरावे रूक्षे खगपातिनि चाशुभा सन्ध्या ॥६॥
गृह, वृक्ष और तोरण (पुरद्वार) को कम्पित करती हुई, धूली और मृत्खण्डों से
युत, प्रबल, भयंकर, रूक्ष तथा आकाश से पक्षियों को गिराती हुई सन्ध्या समय की हवा
अशुभ फल देने वाली होती है।।६।।
CC-0. JK Sanskrit Academy, Jamทmu. Digitized by S3 Foundation USA

सन्ध्यालक्षणाध्यायः ३९७
एवंविधेऽनिले वायौ सन्ध्या अशुभा अनिष्टफला। कीदृशे। गृहतरुतोरणमथने।
गृहाणि वेश्मानि। तरून् वृक्षान्। तोरणानि च मथ्नाति यस्तथाभूते। सपांशुलोष्टोत्करे,
पांशूनां तथा लोष्टानां मृत्खण्डानां य उत्करः समूहस्तेन संयुते। तथा प्रबले बलवति।
भैरवरावेऽतिशब्दे। रूक्षे चाङ्गानामसुखकरे। खगाः पक्षिणस्तान् पातयति नभसस्तथाविधे।
अन्यच्च सन्ध्यालक्षणमाह—
मन्दपवनावघट्टितचलितपलाशद्रुमा विपवना वा।
मधुरस्वरशान्तविहङ्गमृगरुता पूजिता सन्ध्या ॥७॥
मन्द-मन्द चलती हुई हवा से कम्पित पत्रों से युक्त वृक्ष, वायु से रहित या मधुर
शब्द करने वाले, शान्त पक्षी और मृगों से युक्त सन्ध्या शुभ होती है॥७॥
एवंविधा सन्ध्या पूजिता शुभेत्यर्थः। कीदृशी। मन्दपवनावघट्टितचलितपलाशद्रुमा,
मन्देनाल्पेन पवनेन वायुना यदवघट्टितं चालनं तेन चलिताः कम्पिताः पलाशाः पर्णानि येषु
द्रुमेषु तथाभूता द्रुमा वृक्षा यस्यां सन्ध्यायाम्। विपवना वा वातरहिता। तथा मधुरस्वरैः
कलशब्दैः शान्तैरनर्काभिमुखैर्विहङ्गैः पक्षिभिर्मृगैश्च या रुता कृतशब्दा सापि पूजिता॥७॥
अन्यदप्याह—
सन्ध्याकाले स्निग्धा दण्डतडिन्मत्स्यपरिधिपरिवेषाः।
सुरपतिचापैरावतरविकिरणाश्चाशु वृष्टिकराः ॥८॥
दण्ड, विद्युत, मछली की आकृति वाला मेघ, प्रतिसूर्य, परिघ, इन्द्रधनु, ऐरावत
( ४७ अध्याय २०वाँ श्लोक ), सूर्यकिरण—ये सब यदि सन्ध्याकाल में निर्मल हों तो
वृष्टि करने वाले होते हैं॥८॥
एते सर्व एव सन्ध्याकाले सन्ध्यासमय आशु क्षिप्रेमेव वृष्टिकराः। के ते। दण्डतडि-
न्मत्स्यपरिधिपरिवेषाः, दण्डस्तस्य लक्षणं वक्ष्यति। तडिद् विद्युत्। मत्स्या मत्स्याकारा
एव मेघाः। परिधिः प्रतिसूर्यः। परिवेषस्तस्य लक्षणं वक्ष्यति। सुरपतिचापमिन्द्रधनुः।
ऐरावतस्तस्य लक्षणं वक्ष्यति—'सुरचापखण्डमृजु यद्रोहितमैरावतं दीर्घम्' इति।
रविकरणा अर्कश्मयः। एते सर्व एव स्निग्धा यदि भवन्ति तदाशु वृष्टिकराः॥८॥
अथान्यदप्याह—
विच्छिन्नविषमविध्वस्तविकृतकुटिलापसव्यपरिवृत्ताः।
तनुह्रस्वविकलकलुषाश्च विग्रहावृष्टिदाः किरणाः ॥९॥
सन्ध्याकाल में खण्ड, विषम, वर्णरहित, विकृत, कुटिल, अप्रदक्षिणक्रम से परिवेष्टित,
सूक्ष्म, छोटा, शक्तिरहित तथा मलिन सूर्य का किरण हो तो मनुष्यों में परस्पर विरोध और
वृष्टि को करता है॥९॥
एवंविधाः किरणा रविरश्मयो विग्रहा वृष्टिदाः, विग्रहं विरोधम्, अवृष्टिमवर्षणं च
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३९८ बृहत्संहिता
ददति। कीदृशाः। विच्छिन्नविषमेति। विच्छिन्नाः खण्डशो गताः। विषमा अतुल्याः,
विध्वस्ता नष्टवर्णाः। विकृता विकारं गताः। कुटिला अस्पष्टाः। अपसव्यप्रदक्षिणं
कृत्वा परिवृत्ताः परेवेष्टिताः। तनवः सूक्ष्माः। ह्रस्वा अदीर्घाः। विकलाः शक्तिरहिताः।
कलुषा अप्रसन्नाः।। ९।।
अथैषामेव विशेषलक्षणमाह—
उद्द्योतिनः प्रसन्ना ऋजवो दीर्घाः प्रदक्षिणावर्ताः ।
किरणाः शिवाय जगतो वितमस्के नभसि भानुमतः ॥१०॥
यदि अन्धकाररहित आकाश में तेजयुत, निर्मल, स्पष्ट, दीर्घ और दक्षिणावर्त क्रम से
परिवेष्टित सूर्य का किरण हो तो संसार का कल्याण करने वाला होता है।।१०।।
एवंविधाः किरणा रश्मयो भानुमत आदित्यस्य सम्बन्धिनो वितमस्के तमोरहिते
नभस्याकाशे दृष्टा जगतो विश्वस्य शिवाय श्रेयसे भवन्ति। कीदृशाः। उद्द्योतिनो दीप्ति-
मन्तः। प्रसन्ना निर्मलाः। ऋजवः स्पष्टाः। दीर्घा आयामिनः। प्रदक्षिणावर्ताः प्रदक्षिणेनावर्तो
येषां ते तथाविधाः।।१०।।
पूर्वमुक्तं यद्यमोघकिरणः सहस्रगोरिति तत्र न ज्ञायते। तदर्थममोघकिरणानां लक्षण-
माह—
शुक्लाः करा दिनकृतो दिवादिमध्यान्तगामिनः स्निग्धाः ।
अव्युच्छिन्ना ऋजवो वृष्टिकरास्ते त्वमोघाख्याः ॥११॥
सम्पूर्ण आकाश को व्याप्त करने वाले, निर्मल, अखण्डित और स्पष्ट सूर्य के किरण
अमोघ संज्ञक ( शुभ फल देने वाले ) होते हैं।।११।।
दिनकृत आदित्यस्य शुक्लाः श्वेतवर्णाः करा रश्मयो दिवादिमध्यान्तगामिनः। दिवे
नभसि आदौ मध्येऽन्ते च गमनशीलाः। सकलनभोव्यापिन इत्यर्थः। ते च स्निग्धा अरूक्षाः।
अव्युच्छिन्ना अखण्डाः। ऋजवः स्पष्टाः। ते त्वमोघाख्या अमोघसंज्ञा रविरश्मयः। ते च
दृष्टा वृष्टिकराः।।११।।
अथान्यद्रश्मिलक्षणमाह—
कल्माषबभ्रुकपिला विचित्रमाञ्जिष्ठहरितशबलाभाः ।
त्रिदिवानुबन्धिनोऽवृष्टयेऽल्पभयदास्तु सप्ताहात् ॥१२॥
कल्माष ( पीला, श्वेत और काला वर्ण मिश्रित ), थोड़े पीले, विचित्र, मञ्जीठ
( मजीठ ) की तरह हरे, काला-श्वेत दोनों मिले हुये और सम्पूर्ण आकाशमण्डल को
व्याप्त करके स्थित सूर्य के किरण दिखाई दें तो उसके सात दिन बाद से वृष्टि और थोड़ा
भय करते हैं।।१२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सन्ध्यालक्षणाध्यायः ३९९
'कल्माषाः पीतगौरकृष्णवर्णाः। बभ्रव ईषत्कपिलाः कपिलवर्णाः। विचित्रा नानावर्णाः।
, माञ्जिष्ठा मञ्जिष्ठाभाः। हरिताः शुकवर्णाः। शबलाभाः कृष्णश्वेतकान्तयः। केषाञ्चित्पाठः
शबला वा। त्रिदिवानुबन्धिनस्त्रिदिवमाकाशं तत्रानुबन्धिनोऽनुबन्धशीलाः, सकलमाकाशं
व्याप्य स्थिता इत्यर्थः। ऊर्ध्वगामिनश्च। एते दृष्टा अवृष्टये भवन्ति। तथा सप्ताहाद्दिनसप्तकात्
परतोऽल्पमीषद् भयं ददति।। १२।।
अथैतेषामुक्तलक्षणानां फलान्याह—
ताम्रा बलपतिमृत्युं पीतारुणसन्निभाश्च तद्व्यसनम्।
हरिताः पशुसस्यबधं धूमसवर्णा गवां नाशम् ॥१३॥
माञ्जिष्ठाभाः शस्त्राग्निसम्भ्रमं बभ्रवः पवनवृष्टिम्।
भस्मसदृशास्त्ववृष्टिं तनुभावं शबलकल्माषाः ॥१४॥
सूर्यकिरण यदि ताम्रवर्ण की हो तो सेनापति की मृत्यु, पीले और लालरंग के सदृश
हो तो सेनापति को कष्ट, हरे रंग के समान हो तो पशु तथा धान्य का नाश, धूमवर्ण की
हो तो गायों का नाश, मजीठ वर्ण की हो तो शस्त्र तथा अग्नि से भय, पीले हों तो वायु
के झकोरों से युक्त वर्षा, भस्मसमान हो तो अनावृष्टि, सफेद, काले, नीले, पीले इन सब
मिले हुये वर्णों की तरह हो तो बहुत ही कम वर्षा होती है।।१३-१४।।
ताम्रस्ताम्रवर्णाभा रविरश्मयो बलपतेश्चमूनाथस्य मृत्युं मरणं ददति। पीतारुणसन्निभाः
पीतवर्णा हरिद्राभाः। अरुणसन्निभा लोहितकान्तयश्च तद्व्यसनं तस्यैव सेनापतेर्व्यसनं
दुःखं ददति। केचिद्रुग्व्यसनमिति पठन्ति। हरिताः शुकवर्णाः पशूनां चतुष्पदानां सस्यानां
च बधं विनाशं कुर्वन्ति। धूमसवर्णा धूमाभा गवां नाशं कुर्वन्ति।
माञ्जिष्ठाभा माञ्जिष्ठवर्णाः शस्त्राग्निसम्भ्रमं शस्त्राग्निना च सम्भ्रममुद्योगं च कुर्वन्ति।
बभ्रवः कपिलवर्णाः पवनवृष्टिं पवनेन वायुना संयुक्तां वृष्टिं कुर्वन्ति। भस्मसदृशा भस्म-
कान्तयः। अवृष्टिमवर्षणं कुर्वन्ति। शबलकल्माषाः सितकृष्णनीलपीतव्यामिश्रवर्णास्तनु-
भावमेव वृष्टेः कुर्वन्ति।।१४।।
अन्यत्सन्ध्यालक्षणमाह—
बन्धूकपुष्पाञ्जनचूर्णसन्निभं सान्ध्यं रजोऽभ्येति यदा दिवाकरम्।
लोकस्तदा रोगशनैर्निपीड्यत शुक्लं रजो लोकविवृद्धिशान्तये ॥१५॥
यदि बन्धूक-पुष्प या अञ्जन की तरह होकर धूली सूर्य की तरफ जाय तो लोग
सैकड़ों रोगों से पीड़ित होते हैं तथा श्वेत वर्ण की होकर धूली सूर्य की तरफ जाय तो लोगों
की वृद्धि और शान्ति के लिये होती है।।१५।।
बन्धूकपुष्पं प्रसिद्धमतिलोहितम्। अञ्जनचूर्णश्च प्रसिद्धोऽतिकृष्ण एव। तत्सन्निभं
तत्सदृशं सन्ध्याकाले रजो यदा दिवाकरमभ्येति सम्मुखमुपगच्छति, तदा लोको जनपदो
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

४०० बृहत्संहिता
रोगशतैर्बहुभिर्गदैर्निपीड्यते उपताप्यते। तथा शुक्लं श्वेतवर्णं सन्ध्यारजो लोकानां विवृद्धये
संवर्धनाय। शान्तये शिवाय च भवति। तथा च पराशरः—
बन्धुजीवनिकाशेन तपनीयनिभेन वा।
उदये रजसा सूर्यः संवृतः शस्त्रमावहेत्॥
शङ्खचूर्णनिकाशेन रजसा संवृतो रविः।
राज्ञो विजयमाख्याति वृद्धिं जनपदस्य च॥ इति॥१५॥
अधुना दण्डलक्षणमाह—
रविकिरणजलदमरुतां सङ्घातो दण्डवत्स्थितो दण्डः ।
स विदिक्स्थितो नृपाणामशुभो दिक्षु द्विजादीनाम् ॥१६॥
सूर्यकिरण, मेघ, वायु—ये तीनों मिलकर दण्ड की तरह स्थित हों तो उसको दण्ड
कहते हैं। यह दण्ड कोणों में स्थित हो तो राजाओं का और दिशाओं में स्थित हो तो चारो
वर्णों का अशुभ करता है॥१६॥
रविकिरणाः सूर्यरश्मयः, जलदो मेघः, मरुद्वायुः, एषां त्रयाणां सङ्घात एकीभावो
यदा दण्डवत्स्थितो भवति तथा दण्डाकृतिसंस्थानाद्दण्ड इत्युच्यते। स च विदिक्स्थितो
विदिक्षु स्थितो नृपाणां राज्ञामशुभोऽनिष्टः। दिक्षूत्तराद्यासु चतसृषु स्थितः क्रमेण द्विजा-
दीनां चतुर्णां वर्णानामशुभः। केचित् सामान्येन दिक्षु द्विजातीनामेवाशुभमिच्छन्ति॥१६॥
अथास्यैव विशेषमाह—
शस्त्रभयातङ्ककरो दृष्टः प्राङ् मध्यसन्धिषु दिनस्य।
शुक्लाद्यो विप्रादीन् यदभिमुखस्तां निहन्ति दिशम् ॥१७॥
यदि यह दण्ड सूर्योदय, मध्याह्न या सूर्यास्त काल में दिखाई दे तो शस्त्रभय और
उपद्रव करता है तथा श्वेत वर्ण का हो तो ब्राह्मणों का, रक्तवर्ण का हो तो क्षत्रियों का, पीत
वर्ण का हो तो वैश्यों का और कृष्ण वर्ण का हो तो शूद्रों का नाश करता है। साथ ही यह
जिस दिशा के सम्मुख स्थित हो, उस दिशा का नाश करता है। सूर्य के समीप का इसका
भाग मूल और दूसरी तरफ मुख होता है॥१७॥
स एव दण्डो दिनस्य प्राङ्मध्यसन्धिषूदयमध्याह्नास्तमयकालेषु दृष्टोऽवलोकितः
शस्त्रभयातङ्ककरो भवति, शस्त्रभयमातङ्कमुपद्रवं च करोति। शुक्लाद्यः सितरक्तपीतकृष्णो
विप्रादीन् ब्राह्मणक्षत्रियविट्शूद्रान् निहन्ति घातयति। यस्यां दिश्यभिमुखः सम्मुखः स
दण्डस्तां दिशमाशां निहन्ति। अर्कसन्निकृष्टो भागस्तस्य मूलमन्यो मुखमिति॥१७॥
अथान्यल्लक्षणमाह—
दधिसदृशाग्रो नीलो भानुच्छादी खमध्यगोऽभ्रतरुः ।
पीतच्छुरिताश्च घना घनमूला भूरिवृष्टिकराः ॥१८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सन्ध्यालक्षणाध्यायः ४०१
दही के समान अग्र भाग वाले, नील वर्ण के भाग से सूर्य को आच्छादित करने
वाले, आकाश के मध्य में स्थित, पीले रङ्ग से रँगे और मूल की तरफ सघन मेघवृक्ष हों
तो अधिक वृष्टि करते हैं।।१८।।
अभ्रतरुर्मेघवृक्षः। दधिसदृशाग्रः दधिसदृशमग्रं यस्य। श्वेताग्र इत्यर्थः। तथा नीलो
नीलवर्णो भानुच्छादी सूर्यमाच्छादयति तच्छीलः। स च खमध्यग आकाशमध्यभागस्थः।
तथा घना मेघाः पीतच्छुरिताः पीतेन पीतवर्णेन छुरिता रञ्जितास्ते च घनमूलाः। घनानि
सन्ति तानि मूलानि येषाम्। एते सर्व एव भूरिवृष्टिकराः प्रभूतां वृष्टिं कुर्वन्ति।।१८।।
अथाभ्रवृक्षेणैव सियासोः शुभाशुभमाह—
अनुलोमगेऽभ्रवृक्षे शमं गते यायिनो नृपस्य बधः।
बालतरुप्रतिरूपिणि युवराजामात्ययोर्मृत्युः ।।१९।।
शत्रु के ऊपर चढ़ाई करने वाले विजयेच्छु राजा के पीछे-पीछे कुछ दूर जाकर यदि
मेघवृक्ष नष्ट हो जाय तो उस राजा का मरण होता है। यदि वही मेघवृक्ष बाल (छोटे)
वृक्ष की तरह हो तो युवराज़ और मन्त्री का मरण होता है।।१९।।
अभ्रवृक्षे मेघतरौ यायिनो जिगमिषोर्नृपस्य राज्ञोऽनुलोमगे तत्पश्चाद् गम्यमाने शमं
गतेऽकस्मान्नष्टे तस्यैव यायिनो बधो मरणं भवति। तस्मिन्नेवाभ्रतरौ बालतरुप्रतिरूपिणि
बालवृक्षसदृशे शमं गते युवराजामात्ययोर्मरणं मृत्युर्भवति अर्धराज्यभाग युवराजः।
अमात्यो मन्त्री।।१९।।
अथ पुनरपि सन्ध्यालक्षणमाह—
कुवलयवैदूर्याम्बुजकिञ्जल्काभा प्रभञ्जनोन्मुक्ता।
सन्ध्या करोति वृष्टिं रविकिरणोद्भासिता सद्यः ।।२०।।
नील कमल, वैदूर्य मणि या कमल के केशर की तरह कान्ति वाली, वायु से रहित
और सूर्य के किरणों से प्रकाशित सन्ध्या हो तो उसी दिन वृष्टि करती है।।२०।।
एवंविधा सन्ध्या सद्यस्तस्मिन्नेवाहनि वृष्टिं वर्षणं करोति। कीदृशी। कुवलयं नीलो-
त्पलम्, वैदूर्यो मणिर्नीलपीतः, अम्बुजकिञ्जल्कं पद्मकेसरम्, एषां सदृशी आभा कान्ति-
र्यस्याः। तथा प्रभञ्जनोन्मुक्ता प्रभञ्जनेन वातेनोन्मुक्ता रहिता। तथा रविकिरणोद्भासिता
प्रकाशीकृता।।२०।।
अन्यल्लक्षणमाह—
अशुभाकृतिघनगन्धर्वनगरनीहारधूमपांशुयुता ।
प्रावृषि करोत्यवग्रहमन्यर्तौ शस्त्रकोपकरी ।।२१।।
गन्धर्वनगर, हिम, धूम और धूली से युक्त सन्ध्या वर्षाकाल में अवृष्टि तथा अन्य
ऋतु में शस्त्र-कोप करती है।।२१।।
बृ० सं० प्र०-२६
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

४०२ बृहत्संहिता
अशुभा अनिष्टा आकृतिर्येषां घनानां मेघानाम्। गर्दभोष्ट्रकबन्धध्वांक्षमार्जाराकृतय
इत्यर्थः। तथा गन्धर्वनगरं खपुरम्। नीहारधूमपांशवः प्रसिद्धाः। एतैर्युक्ता या सन्ध्या सा
प्रावृषि प्रावृट्काले वर्षाकालेऽवग्रहमवृष्टिं करोति। वर्षावर्जिते चान्यत्रर्त्तौ शस्त्रकोपं
करोति।।२१।।
अथ षट्सु ऋतुषु लक्षणमाह—
शिशिरादिषु वर्णाः शोणपीतसितचित्रपद्मरुधिरनिभाः ।
प्रकृतिभवाः सन्ध्यायां स्वर्तौ शस्ता विकृतिरन्या ॥२२॥
शिशिर ऋतु में लाल, वसन्त ऋतु में पीला, ग्रीष्म ऋतु में श्वेत, वर्षा ऋतु में चित्र,
शरद् ऋतु में कमल की तरह और यदि हेमन्त ऋतु में रुधिर की तरह सन्ध्या का वर्ण हो
तो शुभ; अन्यथा अशुभ फल होता है।।२२।।
शिशिरादिषु षट्सु ऋतुषु शोणादयो वर्णाः सन्ध्यायां प्रकृतिभवाः सहजाः स्वर्ता-
वात्मीयर्तौ शस्ताः शुभा भवन्ति। तद्यथा—शिशिरे शोणा लोहितवर्णा सन्ध्या शस्ता
शुभा। वसन्ते पीता। ग्रीष्मे सिता श्वेतवर्णा। वर्षासु चित्रा नानावर्णा। शरदि पद्मवर्णा
रक्तगौरा। हेमन्ते रुधिरनिभा अतिलोहिता। एताः स्वर्तौ आत्मीयर्तौ शस्ताः। अन्या विकृति-
र्विकारः। शिशिरादिषु ये वर्णाः क्रमेणोक्तास्त एव यदा विपर्ययेण भवन्ति, तदा विकृति-
र्विकारोऽशुभ इत्यर्थः। तथा च गर्गः—
वसन्ते मधुवर्णाभाऽथवा रुधिरसन्निभा।
ग्रीष्मे श्वेता रजोध्वस्ता पांशुवर्णा च शस्यते।।
नीललोहितशुक्लाभा सन्ध्या वर्षासु वार्षिका।
माञ्जिष्ठवर्णा शरदि पीयूषाभा च शस्यते।।
हेमन्ते बभ्रुवर्णा च पिङ्गला चापि पूजिता।
शिशिरे शोणवर्णा च सन्ध्याक्षेमसुखप्रदा।।
स्निग्धा प्रसन्ना विमला सप्रभा नाकुलापि वा।
सन्ध्या यथर्तुवर्णाभा शान्तद्विजमृगा शुभा।। इति।।२२।।
अथान्यल्लक्षणमाह—
आयुधभृन्नररूपं छिन्नाभ्रं परभयाय रविगामि ।
सितखपुरेऽर्क्रान्ते पुरलाभो भेदने नाशः ॥२३॥
यदि सन्ध्याकाल में शस्त्र लिये हुए पुरुष की तरह मेघखण्ड दिखाई दे तो शत्रु का
भय, सूर्य से आच्छादित और श्वेत वर्ण का गन्धर्व-नगर दिखाई दे तो पुर का लाभ और
सूर्य से भेदित गन्धर्व-नगर हो तो पुर का नाश होता है।।२३।।
छिन्नाभ्रं मेघखण्डमायुधभृन्नररूपं सायुधं पुरुषमिव तच्च रविगामि अर्कसमीपवर्ति
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

सन्ध्यालक्षणाध्यायः ४०३
यदि भवति, तदा परभयाय भवति। परेषां शत्रूणां सम्बन्धि भयमुत्पद्यते। सितखपुरे
शुक्लवर्णे गन्धर्वनगरेऽर्काक्रान्ते, अर्कः सूर्य आक्रान्तो येन, आच्छादित इत्यर्थः। तस्मिन्
पुरलाभः, येन पुरं नगरमाक्रान्तं रुद्धं तस्य लाभो भवति। भेदने नाशः, अर्केण यदि
मध्यात् खपुरं भिद्यते तदा पुरस्य नाशः, परैर्लुण्ठनं भवति॥२३॥
अन्यदप्याह—
सितसितान्तघनावरणं रवेर्भवति वृष्टिकरं यदि सव्यतः ।
यदि च वीरणगुल्मनिभैर्घनैर्दिवसभर्तुरदीप्तदिगुद्भवैः ॥२४॥
शुक्ल और शुभ्र ( स्वच्छ ) किरण वाले या वीरण ( गांडर ) के समान कान्ति वाले
शान्त दिशा में उत्पन्न मेघ सूर्य के दक्षिण भाग को आच्छादित करे तो वृष्टि करता है।
सिताः शुक्लास्ते च सितान्ताः सितः शुक्लोऽन्तो येषां तैः सितैः सितान्तैर्घनैर्मेघै
रवेरादित्यस्य सव्यतो गच्छतो दक्षिणत आवरणमाच्छादनं यदि भवति, तदा वृष्टिकरं
भवति। यदि च दिवसभर्तुरादित्यस्य घनैर्मेघैर्वीरणगुल्मनिभैः, वीरणस्तृणविशेषस्तस्य
गुल्मः समूहस्तत्सदृशैः। अदीप्तदिगुद्भवैः शान्तदिक्सम्भूतैः सव्यतो दक्षिणेनावरणं
भवति तद्वृष्टिकरम्॥२४॥
अथ परिघवशेन शुभाशुभमाह—
नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुर्बलकोपकृत्।
कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः ॥२५॥
सूर्योदयकाल में उत्पन्न मेघरेखा यदि शुक्ल वर्ण की हो तो राजा का नाश, रक्तवर्ण की
हो तो सेना का नाश और सुवर्ण की तरह कान्ति वाली हो तो सेनाओं की वृद्धि करती है।
सवितुरादित्यस्य परिघस्तिर्यक् स्थिता मेघरेखेत्यर्थः। उद्गमकाले उदयसमये समुत्थित
उत्पन्नः सितः शुक्लो यदि दृश्यते तदा नृपस्य राज्ञो विपत्तिकरो मृत्युदः। क्षतजतुल्यवपू
रक्तवर्णसदृशो बलस्य सेनायाः कोपकृद्भङ्गदः। बले स्वामिनो वा कुप्यन्ति। कनकरूपधरः
सुवर्णसदृशो बलस्य वृद्धिदो भवति॥२५॥
अथ परिधिवशेन शुभाशुभमाह—
उभयपार्श्वगतौ परिधी रवेः
प्रचुरतोयकरौ वपुषान्वितौ।
अथ स मस्तककुप्परिचारिणः
परिधयोऽस्ति कणोऽपि न वारिणः ॥२६॥
यदि सूर्य के दोनों तरफ परिधि ( प्रतिसूर्य ) दिखाई दे तो अधिक वृष्टि होती है तथा
यदि परिधि सभी दिशाओं को व्याप्त करके स्थित हो तो जल का एक कण भी नहीं गिरता
है अर्थात् अवृष्टि होती है॥२६॥