सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 431, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 431

ग्रहाणामुदयकाले सूर्यमण्डलान्निर्गमे। तत्रैवास्तकालेऽस्तमये। एवमुदयास्तमयावत्र
अर्कविप्रकर्षसन्निकर्षजौ ज्ञेयौ। तथा समागमे, समागमश्चन्द्रेण सह ताराग्रहाणाम्। मण्डल-
सङ्क्रमे वा, मण्डलानि भरणीपूर्वमण्डलमित्यादि षण्मण्डलानि शुक्रचारोक्तानि तेषां संक्रमे
प्रवेशे च। पक्षक्षयोऽमावस्यापौर्णमास्यन्तस्तस्मिन्। तीक्ष्णकरस्यादित्यस्यायनान्ते दक्षिणो-
त्तरयोरयनयोः समाप्तौ। कर्कटकमकरसंक्रान्तावित्यर्थः। एतेषु सर्वेषु प्रायो बाहुल्येन वृष्टि-
र्भवति। तथाऽर्के सूर्ये आर्द्रां गते रौद्रं नक्षत्रं प्राप्ते नियमेन निश्चयेन वृष्टिर्भवति॥२०॥
अन्यदृर्षज्ञानमाह—
समागमे पतति जलं ज्ञशुक्रयोर्ज्ञजीवयोर्गुरुसितयोश्च सङ्गमे।
यमारयोः पवनहुताशजं भयं ह्यदृष्टयोरसहितयोश्च सद्ग्रहैः ॥२१॥
बुध-शुक्र, बुध-गुरु, गुरु-शुक्र और शनि-मंगल की युति हो तथा उस पर शुभग्रह
की दृष्टि या योग न हो तो वायु और अग्नि का भय होता है॥२१॥
ज्ञो बुधः। शुक्रो भार्गवः। तयोर्ज्ञशुक्रयोः समागमे संयोगे जलं पानीयं पतति वर्षती-
त्यर्थः। तथा ज्ञजीवयोर्बुधबृहस्पत्योः सङ्गमे संयोगे जलं पतति। गुरुसितयोर्जीवशुक्रयोः
सङ्गमे जलं पतति। यमारयोः सौराङ्गारकयोः सङ्गमे पवनहुताशजं भयं भवति। पवनो
वायुः। हुताशोऽग्निः। तज्जं भयं भवति। किं सर्वदा। न, इत्याह—अदृष्टयोरसहितयोश्च
सद्ग्रहैरिति। सद्ग्रहा बुधबृहस्पतिशुक्राः। एतेषामन्यतमेनादृष्टयोरनवलोकितयोरसहित-
योरसंयुक्तयोः पवनहुताशजं भयं भवति। युक्तदृष्टयोर्नेति॥२१॥
अन्यदृर्षज्ञानमाह—
अग्रतः पृष्ठतो वापि ग्रहाः सूर्यविलम्बिनः।
यदा तदा प्रकुर्वन्ति महीमेकार्णवामिव ॥२२॥
यदि सूर्य से मन्दगति ग्रह आगे और शीघ्रगति ग्रह पीछे हों तो पृथ्वी को जल से
समुद्र की तरह कर देते हैं॥२२॥
सूर्यावलम्बिनो ग्रहाः सूर्यावलम्बनशीलाः। अस्तमयाभिलाषिण इत्यर्थः। अग्रतः
पृष्ठतो वा भवन्ति। अग्रतः पुरस्तात्। पृष्ठतः पश्चात्। मन्दग्रहा अग्रतोऽस्तमयं यान्ति।
शीघ्रग्रहाः पृष्ठतः। सूर्यस्य प्राक्पश्चाद्वा यद्यस्तमयं कुर्वन्ति, यदा यस्मिन् काले, तदा
तस्मिन् काले महीं भूमिमेकार्णवां सर्वजलमयीं कुर्वन्तीत्यर्थः। बहुवचननिर्देशाद्यादयो
ग्रहा ज्ञेया इति॥२२॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ सद्यो-
वर्षलक्षणनामाष्टाविंशोऽध्यायः ॥२८॥
प्रविशति यदि खद्योतो जलदसमीपेषु रजनीषु।
केदारपूरमधिकं वर्षति देवस्तदा न चिरात् ॥२३॥