बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 426, कुल 728 में से
संदर्भ में पढ़ें३८४ बृहत्संहिता
अन्यद्वर्षज्ञानमाह—
नेच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरानपि ।
पशवः पशुवच्च कुक्कुरा यद्यम्भः पततीति निर्दिशेत् ॥९॥
यदि पशु घर से बाहर होने की इच्छा न करें और कान तथा पाँव हिलावें तो वृष्टि
कहनी चाहिये अथवा पशु की तरह कुत्ता चेष्टा करे तो भी वृष्टि कहनी चाहिये।।९।।
यदि पशवश्चतुष्पादा गवादयो गृहाद्वेश्मनो विनिर्गमं निष्क्रमणं नेच्छन्ति न वाञ्छन्ति,
तथा श्रवणान् कर्णान् पादानपि धुन्वन्ति कम्पयन्ति, तदाम्भो जलं निपततीति निर्दिशेद्वदेत्।
पशुवच्च कुक्कुराः। श्वानः पशुवत्। यथा पशवस्तथा कुक्कुरा अपि ज्ञेयाः। एतदुक्तं
भवति—नेच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरानपीति कुक्कुराणामपि ज्ञेयम्।।९।।
अन्यद्वर्षज्ञानमाह—
यदा स्थिता गृहपटलेषु कुक्कुरा
रुदन्ति वा यदि विततं वियन्मुखाः ।
दिवा तडिद्यदि च पिनाकिदिग्भवा
तदा क्षमा भवति समैव वारिणा ॥१०॥
जब घर के आच्छादन ( छतों पर ) पर स्थित होकर आकाश की तरफ देखता हुआ
कुत्ता भूंके तथा ईशान कोण में बिजली दिखाई दे तब जल से पृथ्वी समान हो जाती है
अर्थात् अधिक वृष्टि होती है।।१०।।
यदा यस्मिन् काले कुक्कुराः श्वानो गृहपटलेषु स्थिताः। गृहपटलं गृहाच्छादनं तत्र
स्थिता यदि वा विततं सततं कृत्वा वियन्मुखमाकाशं निरीक्षन्तो रुदन्ति शब्दं कुर्वन्ति।
यदि च दिवा दिवसे तडिद् विद्युत् पिनाकिदिग्भवा ईशानदिगुत्था भवति, तदा क्षमा
भूर्वारिणा जलेनैव समा निम्नोन्नता लक्ष्या न भवति। अतिवृष्टिर्भवतीत्यर्थः।।१०।।
अन्यद्वर्षज्ञानमाह—
शुककपोतविलोचनसन्निभो
मधुनिभश्च यदा हिमदीधितिः ।
प्रतिशशी च यदा दिवि राजते
पतति वारि तदा न चिरेण च ॥११॥
जिस समय तोता या कबूतर के नेत्र के समान या शहद की तरह चन्द्र हो या
आकाश में दूसरा चन्द्र दिखाई दे तो शीघ्र वृष्टि होती है।।११।।
हिमदीधितिश्चन्द्रो यदा यस्मिन् काले शुककपोतविलोचनसन्निभः। शुककपोतौ प्रसिद्धौ
पक्षिणौ तद्विलोचनसन्निभस्तन्नेत्रसदृशाभो लोहितकान्तिरित्यर्थः। मधुनिभश्च माक्षिक-सदृशवर्णो
वा पीताभ इत्यर्थः। तथा प्रतिशशी द्वितीयश्चन्द्रो यदा च दिवि नभसि राजते दृश्यते तदा
तस्मिन् काले न चिरेण शीघ्रमेव वारि पानीयं पतति वर्षतीत्यर्थः।।११।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA