सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 149, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 149

राहुचाराध्यायः १०८
लग्नत्र्यगुविवरज्यां द्विगुणां खरशांशसम्मतामपमात्।
जह्याद्दिग्व्यत्यासे विक्षेपैक्ये तयोर्योगः॥
उत्तरमक्षाच्छुद्धं याम्यं साक्षं च दक्षिणं विन्द्यात्।
उत्तरमक्षाद्यदधिकमुत्तरमेवं विजानीयात्॥
तज्ज्याघ्नीं शशिभुक्तिं हृत्वा धृतिभिः शतैः स्फुटाऽवनतिः।
मध्यममानं त्रिंशद्भानोः शशिनश्चतुस्त्रिंशत्॥
समलिप्तराहुविवरज्याभ्यस्ता मूर्च्छना नवहताश्च।
अवनत्या युतविश्लेषिता च दिक्षाम्यवैलोम्ये॥
मध्यममानाभ्यस्ता स्फुटभुक्तिर्मध्यभुक्तिभक्ता च।
भवति कलापरिमाणं तत्कालीनं रविहिमांश्वोः॥
अवनतिवर्गं जह्याद्रवीन्दुपरिमाणयोगदलवर्गात्।
तन्मूलात्तु द्विगुणात्तिथिभुक्तवदादिशेत् कालम्॥
रविशशिमानयुतिदलादवनतिहीनाद्भवन्ति या लिप्ताः।
तान्यङ्गुलानि विन्द्याद्भानोश्छन्नानि चन्द्रमसा॥
अर्द्धेनाऽऽलिख्य रविं दत्वावनतिं यथादिशं मध्यात्।
अवनत्यन्ताच्चन्द्रं विलिखेदग्रासार्थमर्द्धेन॥ इति।
एवमेव चन्द्रस्य स्वोपकरणैरुदाहार्यम्। तथा च—
तिथ्यन्ते ग्रहमध्यं प्राक्परतः स्थितिदलेन चाद्यन्तौ।
रक्तकपिलौ च वर्णावुच्चाधःस्थे परे नितराम्॥
सर्वग्रासिन्येवं वर्णविशेषं वदेन्निशानाथे।
उदयास्तमये धूम्रं खण्डग्रहणे सलिलदाभम्॥ इति।
एवं पञ्चग्रहसंयोगादित्यादि यदुक्तं तत्सर्वमसदिति॥१८॥
इदानीं कल्पादेः षण्मासोत्तरया वृद्ध्या सप्त पर्वाणि ब्रह्मादीनां भवन्ति। तेषां देवानां
नामानि चाह—
षण्मासोत्तरवृद्ध्या पर्वेशाः सप्त देवताः क्रमशः।
ब्रह्मशशीन्द्रकुबेरा वरुणाग्नियमाश्च विज्ञेयाः॥१९॥
कल्पादि से छः-छः मास की वृद्धि करके सात पर्वों के क्रमशः ब्रह्मा, चन्द्र, इन्द्र,
कुबेर, वरुण, अग्नि और यम—ये सात देवता होते हैं॥१९॥
कल्पादारभ्य षण्मासोत्तरया वृद्ध्या षड्भिः षड्भिर्मासैर्गतैः पर्व भवति। तानि च सप्त
पर्वाणि। तेषां पर्वाणां क्रमशः क्रमेण सप्तदेवता ब्रह्माद्याः। तद्यथा—ब्रह्मा कमलजः, शशी
चन्द्रः, इन्द्रः शक्रः, कुबेरो वैश्रवणः, वरुणो यादसाम्पतिः, अग्निर्वैश्वानरः, यमः पितृ-
पतिः—एते सप्त यथासंख्यं सप्तानां पर्वणामधिपतयो विज्ञेया विज्ञातव्याः। एतेषामा Cecयनं
गणितसिद्धम्। तथा च खण्डखाद्यके करणेऽस्मदीयं वचनम्—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA