बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 147, कुल 728 में से
संदर्भ में पढ़ेंतद्वशेन यद्ग्रहणज्ञानमुक्तं तन्न शोभनम्। निमित्तानि ग्रहणकाल एव न सम्भवन्ति। अन्य-
स्मिन्नपि काले सम्भवन्ति। तत्र च तान्युत्पातरूपाणि गण्यन्ते, न ग्रहणकारणानीति। तथा
च पराशरः—
'तद्यथा—ग्रहणनिमित्तानि। चन्द्रमसस्तावत्प्रस्पन्दनं सव्यावृत्तिर्दैन्यं पाण्डुत्वं सतत-
परिवेषणं चिरोत्पादितज्योत्स्नाप्रभाभङ्गः क्षीणता क्षामता दक्षिणशृङ्गतैमिर्यैरितरस्यात्यर्थं
तुङ्गताविर्भावश्च।
आदित्यस्यापि वेपनं परिवेषणं दीनमन्दरश्मिता कृष्णकल्माषता। उभयोरपि सन्ध्य-
योश्चोल्कापातदिग्दाहभूमिकम्पाशनिवज्रनिर्घातस्तनयित्नुपांशुवृष्टिविषवातशीतोष्णविकृतानि।
वज्रकनकरजतमणीनां प्रभाभङ्गः। अभ्रलेखासन्दर्शनम्। अर्कमण्डलोत्थितायाः कृष्णराज्याः
सोमानुप्रवेशश्च। शिवाखगगणरुतविकृतनीचैरभ्रपरिसर्पणरश्मिजालव्याकुलत्वम्। तप्ताम्भसां
शीतता क्षीरिणां क्षीरक्षयः। अकस्मान्माल्यग्लानिः। पञ्चताराग्रहादिभी रोहिणीपीडनमिति
चन्द्रग्रहणेऽर्कविकृतिः।
'अर्कग्रहणे चन्द्रमसो बलवन्मध्यतनुनिमित्तहेतुकानि सर्वार्धाकिञ्चिद्ग्रहणेऽप्यानुपूर्व्या।
यतो निमित्तोत्पातस्ततः प्रग्रहणम्। यत एषामपसरणं ततो मोक्ष' इति।।१६।।
अथान्यद् दूषणमाह—
पञ्चग्रहसंयोगान्न किल ग्रहणस्य सम्भवो भवति ।
तैलं च जलेऽष्टम्यां न विचिन्त्यमिदं विपश्चिद्भिः ॥१७॥
किसी का मत है कि जिस अमा या पूर्णिमा में पाँच ग्रहों की संयुति हो, उसमें ग्रहण
का होना सम्भव नहीं कहना चाहिये तथा ग्रहण से पूर्व अष्टमी के दिन जल में तेल डालकर
स्पर्श-मोक्ष की दिशा का ज्ञान करना चाहिये अर्थात् ग्रहण से पूर्व अष्टमी के दिन जल में
तेल डालने पर वह तेल जिस तरफ फैले, उस तरफ स्पर्श और उसके दूसरी तरफ
मोक्षकाल समझना चाहिये।
परन्तु यह मत ठीक नहीं है; अतः पण्डितों को इसे अङ्गीकार नहीं करना चाहिये।।१७।।
किलेत्यागमसूचने शास्त्रान्तरेष्वेवमुक्तम्। यथा पञ्चानां ग्रहाणां संयोगात् समागमाद्
ग्रहणस्य सम्भवो न भवति। एतदुक्तं भवति—पौर्णमास्याममावास्यायां वा पञ्चग्रहसंयोगो यदि
भवति तदा ग्रहणाभाव इति। तथा च वृद्धगर्गः—
ग्रहपञ्चकसंयोगं दृष्ट्वा न ग्रहणं वदेत्।
यदि न स्याद् बुधस्तत्र तं दृष्ट्वा ग्रहणं वदेत्।।
एतदसत्। अत्रापि दिक्परिज्ञानार्थमाह—तैलं च जलेऽष्टम्यामिति सोमग्रहणं सूर्यग्रहणं
वा यदा भावि तदाष्टम्यां समीपवर्त्तिन्यां तिथौ जलमध्ये तैलं क्षिप्तं यस्यां दिशि तत्प्रस-
रति तस्यामेव दिशि ग्रहणं वक्तव्यम्। पुनरपि मोक्षार्थं भूयो जलमध्ये तैलं क्षिप्तं यस्या-
मेव दिशि न प्रसरति तस्यामेव मोक्षो वक्तव्यः। तथा च वृद्धगर्गः—