सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

भोजनकुतूहले
जीवन्ती मधुरा शीता रक्तपित्तानिलापहा ।
क्षयदाहज्वरान् हन्ति कफवीर्यविवर्धिनी ॥
एवमेव बृहत्पूर्वा रसवीर्यबलान्विता ।
भूतविद्राविणी ज्ञेया वेगाद्रसनियामिका ॥
हरिणवेलिद्वय ।
स्वर्णजीवन्तिका वृष्या चक्षुष्या मधुरा तथा ।
शिशिरा वातपित्तासृग् दाहजिद्वलवार्धिनी ॥
हेमहरिणवेलि ।
वरा शाकेषु जीवन्ती सार्षपस्त्ववरः स्मृतः ॥
आखुकर्णी कटूष्णा च कफपित्तहरा सरा ।
आनाहज्वरशूलार्तिनाशिनी पाचनी परा ॥
भोपनी ।
वत्सादनी तु मधुरा पित्तदाहास्रदोषजित् ।
वृष्या सन्तर्पणी रुच्या त्रिदोषविनाशिनी ॥
वासेनि ।
वृद्धदारुद्वयं गौल्यं पिच्छलं कफवातकृत् ।
बल्यं कासामदोषघ्नं द्वितीयं स्वल्पवीर्यदम् ॥
दोन्हीफाङ्गी ।
अत्यम्लपर्णी तीक्ष्णाम्ला प्लीहशूलविनाशिनी ।
वातहृद्दीपनी रुच्या गुल्मश्लेष्मामयापहा ॥
आंबटवेलि ।
१. The revisor adds in the margin of a previous folio:
'जीवन्ती त्रिदोषहन्त्री । खाडे कुष्ठी महाराष्ट्रभाषया ताक । कानडीभाषया हाल
गुणकी पला ।'
२. J1. स्वर्णजीवाभिका ।
३. P1, P2. दाहकृत् ।
४. J1. वत्सदाती ।

प्रथमपरिच्छेदः ।
स्यातामुभौ गोक्षुरकौ तु शीतलौ
बलप्रदौ तौ मधुरौ च बृंहणौ ।
कृच्छ्राश्मरीमेहविदाहनाशनौ •
रसायनौ तत्र बृहद्गुणोत्तरः ॥
सरांटेद्वय ।
सैतिवारस्तु¹ सङ्ग्राही कषायोष्णस्त्रिदोषनुत् ।
मेधारुचिप्रदो दाहज्वरहारी रसायनम् ॥
कुरटू ।
शेणस्त्वम्लकषायश्च² मलगर्भास्रपातनः ।
वान्तिकृद्वातकफनुज्ज्ञेयस्तीव्रोऽङ्गमर्दजित् ॥
सणै³ ।
अम्बष्ठा सकषायाम्ला कफकण्ठरुजापहा ।
वातामयबलासघ्नी रुचिकृद्दीपनी परा⁴ ॥
आंबाडा ।
महाराष्ट्री कटुस्तिक्ता कषाया मुखशोधिनी ।
व्रणकीटादिदोषघ्नी रसदोषनिबर्हिणी ॥
पिंपलगा ।
काचमाची⁵ कटुस्तिक्ता रसोष्णा कफनाशिनी ।
शूलार्शश्शोफदोषघ्नी कुष्ठकण्डूतिहारिणी⁶ ॥
कामोणी ।
१. J₁. सितावरस्तु ; Bh. सितिवारस्तु ।
२. P₁ P₂. शाण ।
३. Bh. adds ताग इति भाषायाम् ।
४. J. The revisor adds in the margin :-
अम्बष्ठाम्बालिका माची कुची दन्तशठाम्बिका ।
अम्लोऽम्लको आम्लकश्च वल्कलं तन्तुरूपधृक् ॥
आम्लकोऽप्रतमक्षोष्णः कटी पवनदोषजित् ।
मेध्यः शाकवरश्चैव वह्निवृद्धिकरः परम् ॥
अम्बष्ठाचे शाकगुण ।
५. Bh. काकमाची ।
६. Bh. कटकण्डूति ।

महाचञ्चुः कटूष्णा च कषाया मलशोधिनी ।
गुल्मशूलोदराशोऽर्तिविषघ्नी च रसायनी ॥
क्षुद्रचञ्चुश्च मधुरा कटूष्णा च कषायका ।
दीपनी शूलगुल्मार्शश्शमनी च विबन्धकृत् ॥
चञ्चुद्वय ।
कासमर्दश्च तिक्तोष्णो मधुरः कफवातनुत् ।
अजीर्णकासपित्तघ्नः पाचनः कण्ठशोधनः ॥
कासवदा ।
अजगन्धा कटूष्णा च वातगुल्मोदरापहा ।
कर्णव्रणार्तिशूलघ्नी पीता चेदञ्जने हिता ॥
तिलवणी ।
चक्रमर्दः कटुस्तीव्रमदो वातकफापहः ।
व्रणकण्डूतिकुष्ठार्तिदद्रुपामादिदोषनुत् ॥
तरवटा ।
१दीपान्तरसमुत्पन्नस्समहान् दद्रुहा परम् ।
काष्ठेतरवटा ।
प्रसारिणी गुरुष्णा च तिक्ता वातविनाशिनी ।
अर्शःश्वयथुहन्त्री च मलविष्टम्भहारिणी ॥
चान्दवेलि । हीलमोचिकेति नामान्तरम् ।
ब्राह्मी हिमा कषाया च तिक्ता वातास्रपित्तजित् ।
बुद्धिं प्रज्ञां च मेधां च कुर्यादायुःप्रवर्द्धिनी २॥
ब्राह्मी ।
ब्राह्मी तु सूक्ष्मपत्रान्या स्निग्धपत्रा जलोद्भवा ।
ब्राह्मी तिक्ता च सोष्णा च बलवातामदोषजित् ३॥
बांबि ।

१. J₁. omits दीपा......परम् । काष्ठे तरवटा ।
२. T₂. adds the explanation : बुद्धिर्लोकव्यवहारदाक्षिण्यम् ।
प्रज्ञा शास्त्रीयव्यवहारे । मेधा धारणा ।
३. J₁. ब्रव ।

प्रथमपरिच्छेदः ।
चिर्वल्लिका चैव कटुः कषाया
जीर्णज्वरे चातिहिता रसायनी ।
चींवांचेघांळ, ।
गोलोमिका कटुस्तिक्ता त्रिदोषशमनी हिमा ।
गलरोगप्रशमनी दोषघ्नी ग्राहिणी च सा ॥
१महागोलोमिका तद्वत् । कासलीति उत्तरापथे प्रसिद्धा ।
पाथरी ।
मेच्छाक्षी शिशिरा वृष्या व्रणदोषक्षयापहा ।
होनगुन्द्रा ।
द्रोणपुष्पी कटूस्सोष्णा रुच्या वान्तिकफापहा ।
अग्निमान्द्यहरा चैव पथ्या वातापहारिणी ॥
तथा —
द्रोणपुष्पीदलं स्वादु रूक्षं गुरु च पित्तजित् ।
भेदनं कामलाशोथमेहज्वरहरं कटु ॥
कुम्भा ।
सुगन्धिखातपित्तघ्नी लघ्वरुच्या ज्वरे हिता ।
व्यञ्जनालङ्कृतिः शीता सार्द्रा कुस्तुम्बरी स्मृता ॥
शुष्कं कुस्तुम्बरीपत्रं वातार्शःपित्तगुल्मजित् ॥
कोथिंबीर ।
मेथिका कटुरुष्णा च रक्तपित्तप्रकोपिनी ।
अरोचकहरा दीप्तिकरी वातघ्नदीपनी ॥
हृद्यं सुगन्धि कैडर्यपत्रं गरकफानिलान् ।
जयेदार्द्रं परं शुष्कं पत्रं बल्यं त्रिदोषनुत् ॥
कालशाकः, करेपक इति कार्णाटकाः
१. J1. omits महा......प्रसिद्धा ।
२. P1. P2. मठाक्षी ।
३. J1. पित्तकृत् ।
४. J1. omits इति.. ...प्रयोगपारिजातः ।
1081

७४ भोजनकुतूहले
'रमणो रामणः कालशाकः कैडर्य इत्यभिधानाद्' इति श्राद्धप्रकरणे
प्रयोगपारिजातः।
गाङ्गेरुकदळं शीतं कषायं मधुरं गुरु ।
मेदःशोफोदराशसिं वातलं ग्राहि पिच्छलम् ॥
कारीशाक ।
बल्यं हिमं स्वाद्वगस्त्यं भूतकासत्रिदोषजित् ।
श्रमवैवर्ण्यजित्पत्रमागस्त्यं नातिशीतलम् ।
नक्तान्धानां हितं नस्यात् तत्स्याच्चातुर्थिकापहम् ॥
श्वेतागस्त्यपत्र ।
रक्तागस्त्यदळं रुच्यं विषवीसर्पकुष्ठजित् ।
तत्पुष्पं सर्वपापघ्नमगस्तिफलमग्निकृत् ॥
अवृष्यं रोचनं रूक्षं वातलं कफपित्तजित् ॥
रक्तागस्त्यपत्र ।
स्वादु बिम्बीदळं शीतं वातपित्तास्रपित्तजित् ।
कामलापाण्डुतृष्णाघ्नं मेदःशुक्रकफप्रदम् ॥
f
पत्रं सूरणजं तीक्ष्णं रूक्षमुष्णं विकारि च ।
कृमिक्लेष्मार्शसां पथ्यं तन्नाळं सरं गुरु ।
सूरणपत्रना-
शी र्ली कटुकाम्ला च वातशोफकफापहा
तन्नाळं तैललेपघ्नमत्युष्णं रुचिकृत्तरम् ॥
शीकेक्कायीपत्रफ
पट्टशाकस्तु नाडीको नाडीशाकश्च स स्मृतः
नाडीको रक्तपित्तघ्नो विष्टम्भी वातकोपनः ॥
नालीक ।
१. Bh. शुक्रकफप्रदम् ।
०२. J1. लघु ।
३. J1. P1 P2. मत्यम्लम् ।

प्रथमपरिच्छेदः । ७५
करम्बी शतपर्वा च कथ्यन्ते तद्गुणा अथ ।
कलम्बी स्तन्यदा प्रोक्ता मधुरा शुक्रकारिणी ॥
कलंबी ।
शीतिवारश्शितिवरस्स्वस्तिकस्सुनिषण्णकः ।
श्रीवारकस्सूचिपत्रः पर्णाकः कुक्कुटाशिखी ॥
चाङ्गेरीसदृशः पत्रैश्चतुर्दल इतीरितः ।
शाको जलान्विते देशे चतुष्पत्रीति चोच्यते ॥
²चतुष्पत्री ।
सुनिषण्णो हिमो ग्राही मोहदोषग्रहापहः ।
अविदाही लघुः स्वादुः कषायो रूक्षदीपनः ॥
वृष्यो रुच्यो ज्वरश्वासमेहकुष्ठभ्रमप्रणुत् ॥
सुणसुण ।
पाचनं लघु रुच्योष्णं पत्रं मूलकजं नवम् ।
स्नेहसिद्धं त्रिदोषघ्नमसिद्धं कफपित्तकृत् ॥
मूलकपत्र ।
यवानीशाकमाग्नेयं रुच्यं वातकफप्रणुत् ।
उष्णं कटु च तिक्तं च पित्तलं लघु शूलहृत् ॥
वोवापत्र ।
सेहुण्डस्य दलं तीक्ष्णं दीपनं रोचनं हरेत् ।
आध्माना³ष्ठीलिकागुल्मशूलशोथोदराणि च ॥
सेर इति भाषया । ⁴निवँडिङ्ग ।
पर्पटो हन्ति पित्तास्रं ज्वरतृष्णाकफभ्रमान् ।
संग्राही शीतलस्तिक्तो दाहनुद्वातलो लघुः ॥
पित्तपापडा ।
१. All Mss. other than J1. omit this verse.
२. J1. omits the name 'चतुष्पत्री' ।
३. P1. P2. नाच्छीतिका ।
४. J1. omits the name निवँडिङ्ग ।

७६ भोजनकुतूहल
रुच्यं चणकशाकं स्वादु दुर्जरं कफवातकृत् ।
अम्लं विष्टम्भजनकं पित्तनुद्दन्तशोषकृत्
चणकपत्र ।
कलायशाकं भेदि स्याल्लघु तिक्तं त्रिदोषजित् ।
वाटाण्याचीं पत्रें ।
कान्ता कफघ्नी चक्षुष्या पथ्या स्वादुकषायका ।
केना ।
धन्वन्तरिनिघण्टौ—
अग्निदीप्तिकरं श्वेतं शाकूटममलं सरम् ।
दुर्नामिक्रिमिमेहघ्नं कफपित्तहरं परम् ॥
श्वेतम् । कृष्णं तु—
दुर्नामकृच्छ्यामलबाकुठं तु
मन्दाग्निविण्मूत्रविवन्धहन्तृँ ।
चौमकुरा । अळू महाराष्ट्राः ।
इति संक्षेपतः पत्रशाकानि ।
१. Bh. adds before कलायशाकं etc.—
चणकाम्लकमम्लं दीपनं दन्तहर्षणम् ।
लवणानुरसं रुच्यं शुक्ताजीर्णविबन्धनुत् ॥
आंब चण्याची ।
२. J1. transposes the portion कान्ता कफघ्नी till the end of
this section to the अग्र—section which comes after the next
section in (p. 77)
Bh. कीना कफघ्नी ।
३. J1 विबन्धहारि ।
४. T 4. adds the explanation: दुर्नामकं, कृन्ततीति कृत् , अर्शोर्वि-
निसर्धः । श्यामं कृष्णम् ।
Bh. has आन्ध्रेषु चामकुरा इति ।

प्रथमपरिच्छेदः । ५७
अथ करीराणि ।
करीरमाध्मानकरं कषायं स्वादु तिक्तकम् ।
तथा —
करीरं कटुतिक्ताम्लं कषायं कटुशीतलम् ।
पित्तास्रदाहकृच्छ्रघ्नं रुचिकृत्पर्वनिर्गणम् ॥
वंशांकुर
दीपनाः कफवातघ्नाश्चिरबिल्वाङ्कुरास्सराः २।
शतावर्येङ्कुरास्तिक्ता वृष्या दोषत्रयापहाः ॥
इति करीराणि ।
३अग्राणि प्रसिद्धानि ।
अथ फलानि ।
मूत्राघातहरं प्रमेहशमनं कृच्छ्राश्मरीच्छेदनं
विण्मूत्रग्लपनं तृषार्त्तिशमनं जीर्णाङ्गपुष्टिप्रदम् ।
वृष्यं स्वादुतरं त्वरोचकहरं बल्यं च पित्तापहं
कूष्माण्डं प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः ॥
पिञ्चनुक्तत्र कूष्माण्डं बालं मध्यं कफावहम् ।
पक्वं लघूष्णं सक्षारं दीपनं वस्तिशोधनम् ।
सर्वदोषहरं हृद्यं पथ्यं ४रेतोविकारिणाम् ॥
कूष्माण्डम् ।
१. J1. करीरमाध्मातकरं ।
२. J1. reads: इत्यङ्कुराः ॥
३. J1. reads: अग्रं वेत्राग्रादिः । आह वाग्भटः—वेत्राग्रं बृहती बाह्या इति
४. रेतोविकारिणाम् ।

भोजनकुतूहले
डङ्गरी शीतला रुच्या दाहपित्तास्रदोषजित् ।
शोषहत्तर्पणी गौर्या जाड्यहा मूत्ररोधनुत् ॥
तथा—
बालं डङ्गरिकाफलं सुमधुरं शीतं च पित्तापहं
तृष्णादाहनिबर्हणं च रुचिकृत् सन्तर्पणं पुष्टिदम् ।
वीर्योन्मेषकरं लघु प्रबलदं भ्रान्तिभ्रमिध्वंसनं
पक्वं चेत्कुरुते तदेव मधुरं तद्दाहरक्तं गुरु ॥
देवडांगरें ।
हृद्यं दाहश्रमविशमनं मूत्रवृद्धिं च दत्ते
पित्तोन्मादापहरणकरं षड्भुजं वीर्यकारि ।
तिक्तं बाल्ये तदनु मधुरं किञ्चिदम्लं च पाके
निष्पक्वं चेत्तदमृतसमं तर्पणं पुष्टिदायि ॥
षड्भुजाकर्कटी, मालवे प्रसिद्धा ।
कर्कटी मधुरा शीता तिक्ता च कफपित्तजित् ।
रक्तदोषकरा पथ्या मूत्ररोषार्तिनाशिनी ॥
किञ्च—
मूत्रावरोधशमनं बहुमूत्रकारि
कृच्छ्राश्मरीप्रमथनं विनिहन्ति पित्तम् ।
वान्तिघ्नमक्षबहुदाहनिवारि रुच्यं
श्लेष्मापहं लघु च कर्कटिकाफलं स्यात् ॥
१. Bh. adds:— काळा भोंपळा इति भाषायाम्
२. T2 adds the explanation तदनु तारुण्ये । किञ्चिदम्लं स्वल्प-
तिक्तम् ।
३. J1 पक्वा ।
४. Bh. मधुकर्कटी P1 P2 T1 T2 omit this word.

प्रथमपरिच्छेदः ।
त्रपुसस्य फलं रुच्यं मधुरं शिशिरं गुरु ।
भ्रमपित्तविदाहार्तिवान्तिहृद् बहुमूत्रदम् ॥
तौसीकाकडी, कोंकणे प्रसिद्ध ।
एर्वारुकं पित्तहरं सुशीतलं मूत्रामयघ्नं मधुरं रुचिप्रदम् ।
सन्तोषमूर्च्छापहरं च तृप्तिदं वातप्रकोपाय घनं सुसेवितम् ।
मलांचें वाळुक ।
वाळुकी मधुरा शीताश्माना हृद्या श्रमापहा ।
शारदचिर्भिट ।
बाल्ये तिक्ता चिर्भिटी किञ्चिदम्ला
गौड्योपेता दीपनी सा च पाके ।
शुक्लातिक्ता श्लेष्मवातारुचिघ्नी
जाड्यघ्नी सा रोचनी दीपनी च ॥
भेलसेद ।
मृगाक्षी कटुका तिक्ता पाकेऽम्ला वातनाशिनी ।
पित्तकृत्पीनसहरा दीपनी रुचिकृत्परा ॥
सेन्दणी ।
चीनकर्कटिका रुच्या शिशिरा पित्तनाशिनी ।
मधुरा तृप्तिदा हृद्या दाहशोफापहारिणी ॥
पटोलसदृश वाळुक ।
डिण्डिशोरुचिकृद्भेदी पित्तश्लेष्मापहः स्मृतः ।
सुशीतो वातलो रूक्षो मूत्रलश्वाश्मरीहरः ॥
दिंडसें³ ।
१. T२. Bh. add the expanation: शुक्ला अतिपक्वा । अतिक्ता
निःशेषगततिक्तरसा, अतिमधुरेत्यर्थः ।
२. P१ P २. पित्तहृत् ।
३. P1. दिंडसे P2. डिन्डसे , J1. दिण्डसे ।

८० भोजनकुतूहले
कुम्भतुम्बी समधुरा शिशिरा पित्तनाशिनी ।
गुरुस्सन्तर्पणी रुच्या वीर्यपुष्टिबलप्रदा ॥
गोरखतुंबी ।
तुम्बी समधुरा स्निग्धा पित्तघ्नी गर्भपोषकृत् ।
वृष्या वातप्रदा चैव बलपुष्टिविवर्धिनी ॥
दूधभोंपळा ।
भूतम्बी कटुकोष्णा च सन्निपातापहारिणी ।
दन्तार्गळं दन्तशोथं धनुर्वातं च नाशयेत् ॥
भोंबतूंबी ।
कलिङ्गो मधुरश्शीतो दाहपित्तश्रमापहः ।
वृष्यस्सन्तर्पणो बल्यो वीर्यपुष्टिविवर्धनः ॥
कलिङ्गडे ।
खर्बुजं मूत्रलं बल्यं कोष्ठशुद्धिकरं गुरु ।
स्निग्धं स्वादुतरं शीतं वृष्यं पित्तानिलापहम् ॥
तेषु यच्चाम्लमधुरं सक्षारं च रसाद्भवेत् ।
रक्तपित्तकरं तत्तु मूत्रकृच्छ्रकरं परम् ॥
खर्बूज् ।
हस्तिकोशातकी स्निग्धा मधुराष्मानवातकृत् ।
वृष्या क्रिमिहरा चैव व्रणसंरोपणी परा ॥
तथा —
कोशातकी राजपदाप्रपूर्वा मदालये पित्तगदे च युक्ता ।
श्रमे क्लमे मेहभगन्दरे च व्रणेषु पित्तेष्वपि नित्यपथ्या
पारसादोडका ।
१. T2. adds पत्रा भोपला । Bh. पत्रा भोंपळा पर्वतीया ।
३. Bh. adds कटु भोंपळा ।

प्रथमपरिच्छेदः । ८१
शिराकोशातकी पित्तशमनी क्षुत्तृषापहा ।
मेहे हिता सदा पथ्या पित्तच्छर्द्दिविनाशिनी ॥
शिरादोडका ।
फलानि माषवद्विद्यात् काकाण्डालात्मगुप्तयोः ।
कुहिरीद्वय ।
पटोली स्वादुपित्तघ्नी रुचिकृज्ज्वरनाशिनी ।
बलपुष्टिकरा पथ्या ज्ञेया दीपनपाचनी ॥
पटोली ।
तथा —
पटोलपत्रं पित्तघ्नं नाळं तस्य कफापहम् ।
फलं त्रिदोषशमनं मूलं च स्याद्विरेचनम् ॥
¹चतुरङ्गपरवरें ।
²चिचिण्डो वातपित्तघ्नो बल्यः पथ्यो रुचिप्रदः ।
शोषिणोऽतिहितः किञ्चिद्गुणैर्न्यूनः पटोलतः ॥
पटवलेम् ।
असिशिम्बी तु मधुरा कषाया श्लेष्मपित्तजित् ।
व्रणदोषापहन्त्री च शीतला रुचिदायिनी ॥
³खङ्गशिंबी ।
निष्पावौ द्वौ हरिच्छुभ्रौ कषायमधुरौ रसे ।
कण्ठशुद्धिकरौ मेध्यौ दीपनौ ⁴रुचिकारकौ ॥
सङ्ग्राहि समवीर्य स्यादीपच्छ्रेष्ठं द्वितीयकम् ।
दोन्हीघेवडे ।
१. All mss. other than J1. read only पखरें ।
२. T2. चिञ्चिटो.
३. P1. P2. T1. J1. खडशिंबी.
४. T2. रुचिदायकौ •

भोजनकुतूहल
अलसान्द्रफलं स्वादु कषायं कफवातजित् ।
विष्टम्भ्यरुच्यं रूक्ष्यं च वह्निमान्द्यकरं गुरु ॥
च्यवलीच्या सेंगा ।
रूक्षातिपित्तकृद् गुर्वी वातला गौरवांकुची ।
तिक्ता नोदरिणां पथ्या ग्रहण्यर्शोविकारिणाम् ॥
वाकुची, गोवारी ।
शीतं शिग्रुफलं वृष्यं पिच्छलं श्लेष्मलं गुरु ।
दीपनं वातपित्तघ्नं वर्ण्यं दुर्नाममेहजित् ॥
शिग्रुफलं श्वेतम् ।
शिग्रु रक्तं कटु स्निग्धं स्वादु तीक्ष्णं हिमं गुरु ।
चक्षुष्यं स्तन्यकृद् वृष्यं बृंहणं बस्तिशोधनम् ॥
मेदोगुल्मोदरश्वासवैस्वर्यकृमिशोफजित् ॥
रक्तशिग्रु ।
वातादिदोषनुद्बल्यं मूलं तस्योष्णमग्निकृत् ।
शिग्रुमूलम् ।
शिग्रुपुष्पं गुरु हिमं पित्तश्लेष्मकृमिप्रणुत् ।
चक्षुष्यं शुक्रलं रुच्यं बृंहणं दीपनं सरम् ॥
इति शिग्रुः ।
आगस्त्यं तरुणं रुच्यं बालं पित्तकफक्रिमीन् ।
हन्ति चक्षुर्व्रणे शस्तं मध्यमं कुसुमं लघु ॥
अगस्त्यफलपुष्पगुणाः ।
१. T₂. वातकृत् .
२. J₁. omits this verse.
३. P₁. Bh. अग्निजित् .
४. J₁. omits this line.

प्रथमपरिच्छेदः । ९१
पनसस्य फलं बालं कषायं मधुरं गुरु ।
मेदःश्लेष्मकरं बल्यं तृड्दाहानिलपित्तजित् ॥
लवणादियुतं रुच्यं मध्यपक्वं तथा गुरु ।
फणस अपक्व ।
पनसं मधुरं सुपिच्छलं गुरु हृद्यं बलवीर्यवृद्धिदम् ।
श्रमदाहविशोषनाशनं रुचिहृद् ग्राहि च दुर्जरं परम् ॥
पक्वपनस ।
ईषत्कषायमधुरं तद्बीजं वातलं गुरु ।
तत्फलस्य विकारघ्नं रुच्यं त्वग्दोषनाशनम् ॥
तथा --
मज्जा पनसजो वृष्यो वातपित्तकफावहः ।
पनसबीज ।
विशेषात्पनसं वर्ज्यं गुल्मिभिर्मन्दवह्निभिः ।
१. Bh. adds after फणसः --
मदनपालनिघण्टौ --
पनसं शीतलं पक्वं स्निग्धं पित्तानिलापहम् ।
बल्यं शुक्रप्रदं हन्ति रक्तपित्तक्षतक्षयान् ॥
आमं तदेव विष्टम्भि वातलं तुवरं गुरु ।
पनसोद्भूतबीजानि वृष्याणि मधुराणि च ॥
गुरूणि बहुवर्चांसि सृष्टमूत्राणि तानि च ।
मधुरास्तस्य पित्तघ्नाः वृष्याः श्लेष्मानिलापहाः ॥
२. P1. सुपिच्छलत्, T2. सुपिच्छलम् ·
३. P1; P2. रुचिकृत् ।

८४ भोजनकुतूहले
अथ पनसावर्तः ।
पनसस्यातिपक्वस्य मज्जा कटविभावितः ।
घर्मशुष्कमिमं प्राहुः पनसावर्तमित्यथ ॥
तद्गुणाः फलवत्किञ्चिल्लघुता गुणयोगतः ॥
फनस पोळी ।
लकुचः क्षुद्रपनसो लकुजो डहुरित्यपि ।
आमं लकुचमुष्णं च गुरु विष्टम्भकृत्तथा ॥
मधुरं च तथाम्लं च दोषत्रितयरक्तकृत् ।
शुक्राग्निनाशकं चापि नेत्रयोरहितं स्मृतम् ॥
सुपक्वं तत्तु मधुरमम्लं चानिलपित्तकृत् ।
कफवृद्धिकरं रुच्यं वृष्यं विष्टम्भकं च तत् ॥
बडहर ।
तुण्डी तु मधुरा पित्तश्वासकासकफापहा ।
असृग्ज्वरहरा रम्या कासजिद् गृहबिम्बिका ।
गोडतोण्डली ।
तिक्ता स्वादुहिमा बिम्बी वातपित्तास्रशोफजित् ।
छर्दिनी कामलापाण्डुश्वासशोफज्वरापहा ॥
कडुतोंडली ।
कारवल्ली सुतीक्ष्णोष्णा दीपनी कफवातजित् ।
अरोचकहरा चैव रक्तदोषकरी च सा ॥
कारवेल्लं सरं हृद्यं दीपनं कफपित्तजित् ।
तिक्तं रुच्यं ज्वरश्वासकासगुल्महरं लघु ॥
१ J1. ० नास्ति अथ पनसावर्तः ...... फनस पोळी ।
२ P1 ण्डी मधुरा P2 तुण्डी तन्मधुरा ।
३ P1 P2 ... गोडतोण्डली ।

प्रथमपरिच्छेदः । ८५
तथा —
महावल्ली.बद्धविक्का खाठ्ठी गुर्व्यग्निपित्तजित् ।
श्वेतवल्ली विषहरा प्रसूतिक्रेशनाशिनी ॥
तथा —
तीक्ष्णोष्णं दोषजङ्गल्यं कारवेल्लं विषापहम् ।
प्रसेकश्वासकासार्शःकृमिक्कुष्ठज्वराञ्जयेत् ॥
कारली ।
कर्कोटकी कटूष्णा च तिक्ता विषविनाशिनी ।
वातघ्ना पित्तहृच्चैव दीपनी रुचिकारिणी ॥
करतोली ।
कडुहुञ्ची कटूष्णा च तिक्ता च रुचिकारिणी ।
दीपनी योनिदोषघ्नी गर्भस्रावविषापहा ॥
कडुहुञ्ची ।
स्वादुपाकरसं शीतं पिच्छलं वातपित्तजित् ।
श्लेष्मलं सृष्टविण्मूत्रमनक्ष्यं गुरु बृंहणम् ॥
स्थौल्यं वृष्यं क्रिमिकरं महन्महत्तिकाफलम् ॥
थोरवांगे ।
──────────────────────────
१. J₁. कारवली ।
२. J₁. Revisor adds in the margin on this subject :—
सर्व्ररोगहरं पथ्यममृतं बृंहणं लघु ।
कर्कोटकीफलं रुच्यं मधुरं तन्त्रिदोषनुत् ॥
ब्रह्मा निर्मथ्य देवानाममृतं दत्तवान् पुरा ।
मर्त्यानामिह कर्कोटीफलं दत्त्वाऽभवत्सुखी ॥
न्तरे —
हृद्यं रोचनमग्निदीपनकरं कर्कोटकीनां फलं
चक्षुष्यं व्रणिनां हितं क्षयवतां गुल्मातुराणामपि ।
कासश्वासहरं प्रमेहदमनं शोषत्रयध्वंसनं
किञ्चित्तिक्तरसं ज्वरप्रमुदितं रोगेषु चात्तैं हितम् ॥ .

भोजनकुतूहले
'कोमलं नीलवृन्ताकं मधुरं बृंहणं गुरु ।
पित्तघ्नं प्रीणनं जाड्यं विष्टम्भि कफवातकृत् ॥
नीलवृन्ताकं ।
त्रिदोषशमनं पथ्यं सुस्वादु कटु दीपनम् ।
सर्वव्याधिहरं हृद्यमुष्णं वार्तारिकाफलम् ॥
डोरलीवांगी ।
रुच्यं स्वयं ज्वरश्वासकासार्शस्सर्वरोगजित् ।
हृद्यं कटु रसे पाके क्षुद्रं वार्त्ताकिकाफलम् ॥
सूक्ष्मवांगी ।
चित्रफला कण्टकिनी महती कट्फला तथा ।
मिश्रवर्णफला नीलफळा रक्तफळा तथा ॥
शाकश्रेष्ठा रक्तफळा नृपप्रियफला तथा ।
वार्त्ताकी कटुका रुच्या मधुरा पित्तनाशिनी ।
बलपुष्टिकरी हृद्या गुरुर्वातेषु निन्दिता ॥
सर्ववांगी ।
बालं पथ्यं त्रिदोषघ्नं मध्यमं पित्तवर्धनम् ।
पक्वं श्लेष्मकरं विद्यात् समस्तं बृहतीफलम् ॥
डोरली ।
विज्ञेया श्वेतबृहती वातश्लेष्मविनाशिनी ।
श्वेतडोरली ।
कण्टकारी कटूष्णा च दीपनी श्वासकासनुत् ।
प्रतिश्यायार्त्तिदोषघ्नी कफवातज्वरार्त्तिनुत् ॥
रिङ्गणी ।
१. J₁. omits डोरलीवांगी and the next verse, possibly due
to the scribe.
J₁. वृत्तफला ।

प्रथमपरिच्छेदः ।
लवणमरिचचूर्णैनावृतं रामठाढ्यं
दहनवदनपक्वं कञ्चुकान्तं नितान्तम् ।
हरति पवनसङ्गं श्लेष्महन्तृ प्रसिद्धं
जठरभरणयोग्यं चारुभोज्यं भरित्रम् ॥
अन्यत्र —
वृन्ताकं पित्तलं किञ्चिदङ्गारपरिपाचितम् ।
कफभेदानिलामघ्नमत्यर्थं लघु दीपनम् ।
तदेव हि गुरु स्निग्धं सतैलं लवणान्वितम् ॥
भरीत ।
अपरं श्वेतवृन्ताकं कुक्कुटाण्डसमं भवेत् ।
तदर्शस्सु विशेषेण हितं हीनं च पूर्वतः ॥
श्वेतवृन्ताक ।
भेण्डा त्वम्लरसा सोष्णा ग्राहिका रुचिकारिका ।
भेण्डी ।
अथ कदली ।
तत्र —
बालं फलं मधुरमल्पतया कषायं
पित्तापहं शिशिररुच्यमथापि नालम् ।
पुष्पं तदप्यनुगुणं क्रिमिहारि कन्दं
पर्णं च शूलशमनं कदलीभवं स्यात् ॥
किञ्च —
रम्भापक्वफलं कषायमधुरं बल्यं च शीतं तथा
पित्तास्रप्रविमर्दनं गुरुतरं पथ्यं न मन्दानले ।
१. T1; J1. कफमेदानिला, Bh. कफमेदोऽनिला ।
२. J1. पित्तं चास्रविमर्दनम् ।

२२ भोजनकुतूहल
सद्यः शुक्रविवृद्धिदं कृमिहरं तृष्णापहं कान्तिदं
दीप्ताग्नौ सुखदं कफामयहरं सन्तर्पणं जर्जरम् ॥
महारम्भाफलं शीतं तुष्टिपुष्टिकं गुरु ।
रक्तपित्तहरं वृष्यं तीव्राग्नीनां प्रशस्यते ॥
महाकदळी ।
स्यात्काष्ठकदली रुच्या रक्तपित्तहरा हिमा ।
गुरुर्मन्दाग्निजननी दुर्जरा मधुरा परा ॥
कटकेळी ।
सुवर्णमोचा मधुरा हिमा च बाल्याऽशने दीपनकारिणी च ।
तृषापहा दाहविमोचनी च कफापहा वृष्यकरी गुरुश्च ॥
तथा —
क्षुद्रं रम्भाफलं शीतं स्वादुपाकरसं गुरु ।
पित्तप्रदरदाहघ्नं वृष्यं नात्यर्थदीपनम् ॥
सोनकेळी ।
गिरिकदली हिममधुरा बलवीर्यविवृद्धिदायिनी रुचिरा ।
हृत्पित्तदाहशोषप्रशमनकरी दुर्जरा च गुरुः ॥
बॅनकढळी ।
कृष्णं रम्भाफलं रुच्यं कषायमधुरं तथा ।
मेहं पित्तं तृषां हन्ति बृंहणं वातलं लघु ॥
कौळकेळि ।
१. J1. कफामयकरम् ।
२. All Mss. other than J1 omit this name.
३. J1. रुच्या ।
४. All Mss. other than J1. omit this name.
५. All Mss. other than J1. omit this name.

प्रथमपरिच्छेदः
सुगन्धा कृष्णरम्भा च शैलरम्भा यथोत्तरम् ।
निन्दिताः फलमासं तु कषायं मधुरं गुरु ॥.
रम्भाफलत्वक्कटुका तिक्ता पित्तहरा लघुः ।
इति कदलीगुणाः ।
करमर्दस्सस्तिक्ताम्लो बालो दीपनदाहकः ।
पक्वस्त्रिदोषशमनो रुचिरो विषनाशनः ॥
करवंदें ।
कषायमधुरो रूक्षस्तिन्दुकश्श्लेष्मकारकः ।
संग्राही दुर्जरो जिह्वाजाड्यकारी जडो गुरुः ॥
टेंभरूं ।
अश्वत्थवृक्षस्य फलानि पथ्या-
न्यतीव हृद्यानि सुशीतलानि ।
निहन्ति पित्तं सह शोणितेन
दाहं तृषां छर्दिररोचकं च ॥
पिंपरे ।
औदुम्बरं फलमतीव सुशीतलं च
सद्यो निवारयति शोणितपित्तमुग्रम् ।
पथ्यं विषे विषमपित्तशिरोविकारे
नासाप्रवृत्तरुधिरे च विशेषतस्तु ॥
तथा —
औदुम्बरं कषायं स्यात् पक्वं तु मधुरं हिमम् ।
क्रिमिहृत् पित्तरक्तघ्नं मूर्च्छादाहतृषापहम् ॥
उंबरें ।
१. Bh. adds after this;
रम्भासारश्शीतलो नातितिक्तो
तृड्दाहघ्नो मूत्रकृच्छ्रातिसारम् ।
मेहान् हन्ति स्फोटकं वातपित्तं
रक्तस्रावं सोमरोगं निहन्ति ॥ इति कदलीसारगुणाः
1081