भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
१८६ भोजनकुतूहलं
अथास्य सेवनकालः ।
नारिकेराम्बु भुक्तेः प्राग् गुल्माग्निसदनादिहृत्
अतः परं न पेयं स्यात् सेन्दु तच्छीतलं हितम् ॥
क्षयोपवासाध्वगमातिभाष्य-
व्यवायवातातपपीडितानाम् ।
व्यायामिनां वातकफोत्तराणां
यन्नारिकेरोदकं प्रशस्तम् ॥
सेन्दु सकर्पूरम् ।
इति नारिकेरोदकम् ।
शतपत्राम्बु सहसा रक्तपित्तप्रहापहम् ।
मूर्च्छावित्रासशमनं दाहतृष्णानिवारणम् ॥
गुलाबोदकम् ।
१. J1. भुक्त्वा प्राक्
२. Bh. यन्नारिकेरोदकमेव शस्तम् ।
J1. T1, Bh. omit सेन्दु सकर्पूरम् ।
३. Bh. adds : अथ गुलाबोदकप्रकरणम् ।
तत्करणं च —
कुडवं शतपर्णानां विवृतं तच्च निक्षिपेत् ।
जलं सप्तपलं पात्रे रौप्यं वर्ग सुसंस्कृतः ॥
ताम्रजे वाथ तस्योर्ध्वं दोलायन्त्रं निवेशयेत् ।
रौप्यपात्रं तदूर्ध्वे तु पश्चाद्रौप्यशरावयोः ॥
आच्छाद्य तन्मुखं रुद्ध्वा समन्तात् पाचयेच्छनैः ।
मृद्वग्निना मुहूर्तं तु पश्चादुद्धृत्य तज्जलम् ॥
रौप्यपात्रस्थितं विज्ञायेय पुष्परसो वरः ।
सुशीतलस्सुगन्धश्च ग्रीष्मे वर्षालये तथा ॥
राज्ञा दाहप्रशान्त्यर्थं सिञ्चेदम्भो भिषग्वरः
रसकृद्दाहशान्त्यर्थं गुलाबापरमाभिधः (?)
प्रथमपरिच्छेदः ।
अथ वर्ज्यजलानि -
अग्रााद्यमुदकं सर्वमेभिर्दोषैस्समन्वितम् ।
गोहस्त्यश्वादि विण्मूत्रशैवमृषकदूषितम् ॥
कीटसंपीडसंसृष्टं नष्टं च क्षुद्रजन्तुभिः ।
विषवृक्षजटाश्लिष्टं चिरकालव्यवस्थितम् ।
आस्तीर्णं जीर्णपर्णाद्यैस्तृणकाष्ठैश्च वाहितम् ।
तैलाभं फेनिलं स्निग्धं पुराणोदकमिश्रितम् ॥
सूर्येन्दुपवनादृष्टमभिवृष्टं घनं गुरु ।
तत् कुर्यात् स्नानपानाभ्यां तृष्णाध्मानोदरज्वरान् ॥
अर्शोभगन्दरग्रन्थिशोफपाण्डुहलीमकान् ।
कासाग्निसादामिष्यन्दकण्डूगण्डादिकान् गदान् ॥
जटाम्लानि ।
इति वर्ज्यजलानि ॥
पुष्यद्वस्तुरभिशीतकषायगोल्यो
दाहभ्रमातिवमिमोहमुखामयघ्नः ।
तृष्णार्तितिक्तकफदोषहरस्सरश्च
सन्तर्पण चिरमरोचकहारकश्च ॥
उषःपानगुणाः सुषेणे द्रष्टव्याः ।
सवितुरुदयकाले प्रसृतिसक्तिकस्य पिबेदहौ ।
रोगजरापरिमुक्तो जीवेद्वत्सरशतं साग्रम् ॥
अस्य जलपानस्योपक्रमकालः रात्रेधर्तुर्यप्रहरप्रवेशः । तथाच भोजः -
'पिबति पर्युषितं बलमन्वहं तिमिरिणीचरमे प्रहरे यदि ।'
इति । एतज्जपानकालमर्यादा सूर्योदयातिसन्निहितप्राक्कालः । तथा तन्त्रान्तरे
before शतपत्राम्बु ... ... etc. and it omits शतपत्राम्बु
पीतमन्ते निशायाः । 1 15 p. 190
१. $J_1$. दुष्टं च ।
२. $J_1$, $T_1$, चिरकालं व्यवस्थितम् ।
३. $J_1$, $T_1$, क्लमाग्निसाद ।
१९०. भोजनकुतूहले
अथ प्रतिप्रसवः ।
अदुष्टसलिलाभावे वाप्यं यत् स्यात् सुयुक्तितः ।
अंभो प्रतपनं यद्वा सूर्यरश्मिप्रतापनम् ॥
प्रशस्यतेऽतितप्तायःपिण्डनिर्वापणं तथा ।
क्षुद्रजन्तुभिरुद्दृष्टस्य घनवस्त्रेण शोधनम् ॥
पुष्पैरनिष्टगन्धस्य पाटलाद्यैश्च वासनम् ।
लवङ्गोशीरकर्पूरकोष्ठकस्तूरिचन्दनैः ॥
चूर्णितैर्वासितं वारि सुगन्धं सर्वदोषजित् ।
अथ चन्द्रकान्तवारि —
चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं लघु ।
अथोषःपानगुणाः —
कासश्वासातिसारज्वरविटपकटीकुष्ठकोष्ठप्रमेहाः
मूत्राघातोदरार्शःक्षययुगलशिरःकर्णगलाक्षिरोगाः ।
ये चान्ये वातपित्तश्रमजकफभवा व्याधयः सन्ति केचित्
तांस्तानभ्यासयोगादपहरति पयः पीतमन्ते निशायाः ॥
तथा—
अम्भसः प्रसृतान्यष्टौ रवावनुदिते पिबेत् ।
वातपित्तकफाञ्जित्वा जीवेद्वर्षशतं दृढः ॥
अपि च—
विगतघनन्निशान्ते प्रातरुत्थाय नित्यं
पिबति खलु नरो यो घ्राणरन्ध्रेण वारि ।
स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो
वलिपलितविहीनः सर्वरोगैर्विमुक्तः ॥
१. J₁. तेषामभ्यास ।
२. J₁. The revisor adds प्रसृतियुगलमात्रम् । प्रसृतिमानं पञ्चह्वयं
तद्द्विगुणं प्रसृतिद्वयम् । एवं मापः in the margin.
३. J₁. तथा; Bh. omits अपि च ।
४. Bh. निशीथे ।
५. J₁. तार्क्ष्यदृशो ।
प्रथमपरिच्छेदः । २९१
व्यङ्गवलीपलितघ्नं पीनसवैस्वर्यहारि तिमिरघ्नम्
रजनीक्षयेऽम्बु पीतं रसायनं दृष्टिजननं च ॥
पिबेद्घटसहस्राणि यावन्नास्तमितो रविः ।
अस्तं गते दिनानाथे बिन्दुरेको घटायते ॥
अजीर्णे चौषधं वारि जीर्णे वारि बलप्रदम् ।
भोजने चामृतं वारि रात्रौ वारि विषोपमम् ॥
विण्मूत्राण्डनीलिकाविषहतं तप्तं घनं फेनिलं
दन्तग्राह्यमनुत्तमं सलवणैः शैवालकैः संवृतम् ।
जन्तुव्रातविमिश्रितं गुरुतरं पर्णोरुपङ्काविलं
चन्द्रार्कांशुतिरोहितं च न पिबेन्नीरं जडं दोषलम् ॥
पार्श्वशूले प्रतिश्याये वातदोषे नवज्वरे ।
हिक्काध्मानादिदोषेषु शीताम्बु परिवर्जयेत् ॥
धातुक्षये रक्तविकारदोषे
वान्त्यां प्रमेहे विषविङ्ग्रहेषु ।
जीर्णज्वरे शौण्डिकसन्निपाते
जलं प्रशस्तं शृतशीतलं तत् ॥
१. Bh. adds निशीथोऽत्र निशान्धकारः ।
पातव्यं नासया नीरं प्रसृतित्रयमात्रया ॥
before व्यङ्गवली and etc.
२. Bh. adds स्नेहैः पीते क्षुदावाध्माने स्तिमितोदरे १ ।
हिक्कायां कफवातोत्थे व्याधौ तद्वारि वारयेत् ॥
and omits पिबेत् ... ... ... इति जलप्रकरणम् on l. 16 p. 195.
१. J_1. The revisor adds in the margin —
आमं जलं जीर्यति याममात्रात्तदर्थमात्राच्छृतशीतवारि ।
तदर्थमात्रादितरेतराम्बु त्रिधेति चोक्तो जलजीर्णकालः ॥
दीपनं पाचनं कट्वं लघूष्णं बस्तिशोधनम् ।
हिक्काध्मानानिलश्लेष्मसद्यःशुद्धौ नवज्वरे ॥
कासामपीनसश्वासपार्श्वरुक्षु न शस्यते ।
उष्णोदकगुणाः ।
तप्तं पाथः पादभागेन हीनं पथ्यं प्रोक्तं वातवातामयघ्नम्
अर्द्धांशोनं नाशयेश्रातपित्तं पादप्रायं तप्तु दोषत्रयघ्नम् ॥
तथा -
हेमन्ते पादहीनं च पादार्धोनं च शारदे ।
प्रावृड्वसन्तशिशिरग्रीष्मेष्वर्धावशेषितम् ॥
तप्तं दिवा जाड्यमुपैति नक्तं नक्तं न तप्तं यदि वापि वारि
दिवा च नक्तं च नृभिस्तदम्बु युक्तं जलं तन्मनसो प्रहीतुम्
अपनयति पवनदोषं दळयति कफमाशु नाशयत्यरुचिम् ।
पाचवति चाममनलं पुष्णाति निशीथपीतमुष्णाम्भः ॥
पानीयं न तु पानीयं पानीयेऽन्यप्रदेशजे ।
अजीर्णे इति शेषः ।
तथा -
अत्यम्बुपानान्न विपच्यतेऽन्नमनम्बुपानाच्च स एव दोषः ।
तस्मात्तरो वह्निविवर्धनाय पुनः पुनद्वारि पिवेद्भूरि ॥
शीताम्बुपूरितमुखं प्रतिवासरं यः
कालत्रयेऽपि नयनद्वितयं जलेन ।
आसिञ्चति ध्रुवमसौ न कदाचिदक्षि-
रोगव्यथाविधुरतां भजते मनुष्यः ॥
तप्तायःपिण्डसंयुक्तं लोष्टनिर्वापितं जलम् ।
सर्वदोषहरं पथ्यं सदा नेरुज्यकारकम् ॥
पानीयं प्राणिनां प्राणा विश्वमेतद्धि तन्मयम् ।
अतोऽत्यन्तनिषेधेऽपि न क्वचिद् वारि वार्यते ॥
तृषितो मोहमायाति मोहात्प्राणान् विमुञ्चति ।
तस्मात् स्वल्पं च दातव्यं न क्वचिद्वारि वार्यते ॥
क्षुधा संशुष्कहृत्कण्ठः प्रथमं कवलान् बहून् ।
यो भुङ्क्ते प्रपिबेदम्बु शीतलं मात्रया युतम् ॥
१. $J_1.$ omits तस्मात् ... ... ... न मुञ्चति ॥
प्रथमपरिच्छेदः । १९३
तेन हृत्कण्ठशुद्धिः स्यात् सुखेनैवान्नं प्रपच्यते ।
स्नेहयुक्तं च यद् भुक्तं ततः सन्तर्पणं भवेत् ॥
आदौ द्रवं समश्नीयाद् तन्नाभ्यङ्गं न पिवेद्वहु ।
मध्ये तु कठिनं भुक्तं यथेष्टं तज्जलं पिबेत् ॥
प्राग्द्रवं पुरुषोऽश्नीयान् मध्ये तु कठिनाशनः ।
अन्ते पुनर्द्रवाशी च बलादारोग्ये न मुञ्चति ॥
तथैव भोजनास्यान्ते पीतमम्बु बलप्रदम् ।
द्रवं प्रयाति भुक्तान्ते किञ्चिज्जातु न पिबेत् ॥
समस्थूलकृशा भुक्तमध्याद्यन्तप्रथाम्बुपाः ।
क्वचिदुष्णं क्वचिच्छीतं क्वचित् क्वथितशीतलम् ॥
क्वचिद्भेषजसंयुक्तं न क्वचिद् वारि वारयेत् ।
पूरयेन् मागयुगलं कृतेनान्नेन पूरितम् ॥
जलेनै कं चतुर्थं च वायुसञ्चरणाय वै ।
वासितं नूतनैः पुष्पैः पाटलीचम्पकादिभिः ॥
पथ्यं सुगन्धि हृद्यं च शीतलाम्बु सदा पिबेत् ।
ग्रीष्मे शरदि पातव्यं स्वेच्छया सलिलं नरैः ॥
अन्यदा कल्पमेवैतत् पाण्डुरोगे न तत्पिबेत् ।
कथं स्वल्पम् ।
अन्नेनापि विना जन्तुः प्राणान् सन्धारयेच्चिरम् ।
तोयाभावे पिपासार्त्तः सद्यः प्राणैर्वियुज्यते ॥
अथ काष्ठविशेषेण तापितवारिगुणाः ।
गन्धर्वहस्तकाष्ठैस्तु तप्तं वारि प्रदीपनम् ।
अलक्ष्मीरूक्षपित्तादिदोषाणां च प्रसाधनम् ॥
गन्धर्वहस्तः एरण्डः ।
महातकस्य काष्ठैस्तु तप्तं यच्च शुभोदकम् ।
वातश्लेष्महरं पथ्यं वीर्यतेजोविवर्धनम् ॥
१. J₁. T₁. omit कथं स्वल्पम् ।
२. J₁. T₁. omit गन्धर्वहस्तः एरण्डः ।
1081
१९४ भोजनकुतूहल
पलाशोदुम्बरोद्भूतकाष्ठैस्तप्तं च वारि यत् ।
व्रणकुष्ठहरं चासृग्बलवीर्यविवर्धनम् ॥
जम्बूवटाम्रजैः काष्ठैस्तप्तं वारि तटागजम् ।
मेधाबलप्रदं वीर्यकारि दोषावनाशनम् ॥
बदरीसम्भवैः काष्ठैस्तप्तं वापिसमुद्भवम् ।
कफहृच्च च निर्दिष्टं दोषाणां च विनाशनम्
काष्ठैः खदिरजैस्तप्तं रक्तपित्तविनाशनम् ।
आप्यायनकरं ग्रीष्मे श्रेष्ठमेतत्परं जलम् ॥
कदम्बनिम्बजैस्तप्तं काष्ठैर्वारि सरिद्भवम् ।
पथ्यं दोषहरं कण्ठ्यरक्तपित्तविनाशनम् ॥
धात्रीदारुसमुद्भूतकाष्ठैस्तप्तं च यज्जलम् ।
वातपित्तहरं श्रेष्ठं रसायनकरं परम् ॥
पौष्करस्य च काष्ठेन तप्तं कूपोद्भवं जलम् ।
वातपित्तहरं श्रेष्ठं रसायनकरं परम् ॥
कर्कन्धुदारुसम्भूतकाष्ठैस्तप्तं च यज्जलम् ।
जठराग्नेः प्रसदनं सुश्रुतेन प्रभाषितम् ॥
सल्लकीशाकनिर्यासकाष्ठैश्चापि पृथक् पृथक् ।
तप्तं निर्झरजं वारि तद् रोगान् जनयेद्बहून् ॥
सल्लकी साळयी । शाकः साव । निर्यासः राळाचें झाड् ॥
वटैश्चार्जुनकाष्ठैश्च सततं तापितं जलम् ।
बलमेधाप्रजननं मैत्रेयेण प्रभाषितम् ॥
१. J1. omits this verse.
२. J1. omits आप्यायन......रक्तपित्तविनाशनम् ।
३. J1. omits this verse.
४. J1. T1. omit सल्लकी..... राळाचें झाड् ।
५. J1. प्रदर्शितम् ।
प्रथमपरिच्छेदः ।
अथ पात्रविशेषस्थितजलगुणाः ।
हेमपात्रे च सुस्वादु विपाके शीतलं लघु ।
त्रिदोषशमनं वीर्यबलमेधाकरं शुभम् ॥
त्रपुपात्रोदकं यच्च पिच्छलं मधुरं रसे ।
वीर्ये कफकरं वामिशकृन्मारुतवर्धनम् ॥
त्रपु कथिल ।
घोषपात्रे यदत्युष्णं विपाक कटुक गुरु ।
पित्तश्लेष्मप्रदं वृद्धे यथाकालानुरूपि च ॥
घोषं कांस्यम् ।
ताम्रपात्रस्थितं वारि सोष्णं स्वादु सकृत्कटु ।
पित्तानलप्रदं वृद्धे सकृन्मारुतनाशनम् ॥
सकृत् सद्यः ।
रीतिपात्रस्थितं तोयं कटु श्लेष्मविनाशनम् ।
पित्तलं सकृदुष्णं च मेहमेदोविवर्धनम् ॥
रीति पित्तल ।
लोहपात्रस्थितं वारि पानमत्यन्तरुचितम् ।
रक्तपित्तहरं कण्द्यत्रिदोषशमनं परम् ॥
भाजने मृन्मये तप्तं मलानां क्षालने हितम् ।
धातुसाम्यकरं वीर्यबलौजःपरिवर्धनम् ॥
इति पात्रविशेषेण तोयगुणाः ।
इति जलप्रकरणम् ॥
१. J₁. T₁. शीतलं मधु ।
२. J₁. T₁. omit त्रपु कथिल ।
३. J₁. T₁. omit घोषं कांस्यम् ।
४. J₁. T₁. omit सकृत् सद्यः ।
५. J₁. T₁. omit रीति पित्तल ।
अथ सविषान्नादिपरीक्षा ।
ओदनो विषवान्सान्द्रो यात्यविश्रावितामिव ।
चिरेण पच्यते पक्को भवेत्पर्युषितोपमः ॥
मयूरकण्ठतुल्योष्मा मोहमूर्च्छाप्रसेककृत् ।
हीयते गन्धवर्णाद्यैः प्लवते चन्द्रकान्वितः ॥
व्यञ्जनान्याशु शुष्यन्ति श्यामफेनानि तत्र च ।
हीनातिरिक्ता विकृता छाया दृश्येत नैव वा ॥
फेनोर्ध्वराजीसीमन्ततन्तुबुद्बुदसम्भवः ।
विच्छिन्नरागिं रागाः सान्द्राः शाकमामिषम् ॥
नीला राजी रसे ताम्रा क्षीरे दध्नि च दृश्यते ।
श्यामा पीता सिता तक्रे घृते पाटलमञ्जिष्ठा ॥
मस्तुनि स्यात्तु कपिलाभा राजी कृष्णा तुपोदके ।
चाम्राम्बुशोणतुल्या कपिलाभा द्रवापथे ॥
काली मध्वाम्भसोः शीघ्रे हारिद्रोऽरुणोपमा ।
पाकः फलानामामानां पक्वानां परिकोथनम् ॥
द्रव्याणामार्द्रशुष्काणां स्यातां म्लानिविवर्णते ।
मृदूनां कठिनानां च भवेत् स्पर्शविपर्ययः ॥
माल्यानां स्फुटितत्वं च म्लानिर्गन्धान्तरोद्भवः ।
श्याममण्डलतो वस्त्रे शातनं तन्तुपक्ष्मणाम् ॥
धातुमौक्तिककाष्ठाश्मरत्नादिषु मलान्धता ।
स्नेहस्पर्शप्रभाहानिः सप्रभत्वं च मृन्मये ॥
विषदलक्षणम् ।
विषदः श्यामशुष्कास्यो विलक्षो वीक्षते दिशः ।
स्वेदवेपथुमांस्त्रस्तो भीतः स्खलति जृम्भते ॥
१. J₁ T₁. यात्यविश्राव्यतामिव, Bh. यात्यविश्राम्यतामिव ।
२. J₁ म्लानिर्गन्धान्तरोद्भवः, Bh. म्लानिर्गन्धान्तरो भवेत् ।
३. J₁ विषदपरीक्षणम्, Bh. omits विषदलक्षणम् ।
प्रथमपरिच्छेदः । १९७
प्राप्यान्नं सविषं त्वग्नेरेकावर्तः स्फुटत्यपि ।
शिखिकण्ठाभधूमार्चिरनार्चिर्व्यग्रगन्धवान् ॥
म्रियन्ते मक्षिकाः प्राश्य काकः क्षामस्वरो भवेत्
विक्रोशन्ति च दृष्ट्वैव शुकदात्यूहशारिकाः ॥
हंसः प्रस्खलति ग्लानिर्जीवञ्जीवस्य जायते ।
चकोरस्याक्षिवैराग्यं क्रौञ्चस्य स्यान्मदोदयः ॥
कपोतपरभृद्भृङ्गचक्रवाका जहात्यसून ।
उद्वेगं याति मार्जारः शकृन्मुञ्चति वानरः ॥
(हृष्टरो)मयूरस्तृष्ट्या मन्दतेजो भवेद्विपः ।
इत्थं विषं विबुद्ध्यान्नं त्यजेदेवं प्रयत्नतः ॥
यथा तेन विपद्येरन्नपि न क्षुद्रजन्तवः ।
स्पृष्टे तु कण्ठदाहौष्ठज्वरातिस्फोटसुप्रमः ॥
नखरोमच्युतिः शोफः सेकाद्या विषनाशनाः ।
विरुद्धमपि चाहारं विद्याद्गरविषोपमम् ॥
इति सविषान्नादिपरीक्षा ॥
अथ विरुद्धद्रव्यप्रकरणम् ।
आनूपमामिषं मापक्षौद्रक्षीरविरूढकैः ।
विरुध्यते सह बिसैर्मूलकेन गुडेन वा ॥
विशेषात् पयसा मत्स्या मत्स्येषु च चिलिचिमः ।
विरुद्धमम्लं पयसा सह सर्वं फलं तथा ॥
तद्वत्कुलत्थवरककङ्गुवल्लमकुकष्ठकाः ।
वरकः वनकोद्रवः ।
भक्षयित्वा हरितकं मूलकादि पयस्त्यजेत् ॥
१. J1. adds द्वि... — before प्राप्यान्नं & etc.
२. P2. विशोचन्ति, Bh. उत्क्रोशन्ति ।
१९८ भोजनकुतूहल
भक्षयित्वा हरितकमिति । मूलकादि हरितकं भक्षयित्वा पय-
स्त्यजेदित्यर्थः ।
वाराहं साविषा नाद्याद् दध्ना पृषतकक्कुटौ ।
आपमांसानि पित्तेन माषसूपेन मूलकम् ॥
अविं कुसुमभशाकेन विसैस्सह विरुद्धकम् ।
माषसूपगुडक्षीरदध्यम्लैः लाकुचं फलम् ॥
फलं कदल्यास्तकेण दध्ना तालफलेन वा ।
कणोषणाम्यां मधुना काकमाची गुडेन वा ॥
सिद्धां वा मत्स्यपचने पचने नागरस्य वा ।
सिद्धाऽन्यत्र वा पात्रे कांस्ये ताम्रोषितां निशि ।
मत्स्यानिस्तलनस्नेहसाधिताः पिप्पलीस्त्यजेत् ।
कांस्ये दशाहमुषितं सर्पिष्पूर्वं त्वरुष्करैः ॥
भासो विरुध्यते शूल्यः कम्पिल्लुक्तक्रसाधितः ।
ऐकध्यं पायससुगक्रुसराः परिवर्जयेत् ॥
मधुसर्पिर्वसातैलपानीयानि द्विशस्त्रिशः ।
एकत्र वा समांशानि विरुध्यन्ते परस्परम् ॥
भिन्नांशे अपि मध्वाज्ये दिव्यवार्यनुपानतः ।
मधु पुष्करबीजं च मधुमैरेयशर्करम् ॥
मन्थानुपानः क्षैरयो हारिद्रः कटुतैलकान् ।
'मन्थः द्रवानुलोडितसक्तवः । क्षैरयः पायसः । हारिद्रः पीतवर्ण-
छत्राकः ।'
उपोदकातिसाराय तिलकल्केन साधिता ॥
उपोदका बसळा ।
१. J₁. T₁. Bh. omit मन्थ ... ... पीतवर्णछत्राकः ।
२. J₁. T₁. Bh. omit उपोदका बसळा ।
प्रथमपरिच्छेदः । १९९
बलाका वारुणीयुक्ता कुलमाषैश्च विरुध्यते ।
भृष्टा वराहवसया सैव सद्यो निहन्त्यसून ॥
तद्वत्तिित्तिरिपत्राह्वगोधालावकपिञ्जलाः ।
•ऐरण्डेनाग्निना सिद्धास्तत्तैलेन विमूर्च्छिताः ॥
पत्राह्वयो मयूरः । तद्वत बलाकावत् , सद्यो घ्नन्ति ।
हारीतमांसं हारिद्रशूलकप्रोतमग्नितम् ।
हारिद्रावह्निना सद्यो व्यापादयति जीवितम् ॥
हारिद्रशूलकं हारिद्रावह्निनेत्यत्र च दारुहरिद्रा ।
भस्मपांसुपरिश्वस्तं तदेव च समाक्षकम् ।
तदेव हारीतमांसमेव । सद्यो हन्तीति शेषः
यत् किञ्चिद् दोषमुत्क्लेश्य न हील्लन्कायतः ।
विरुद्धं शुद्धिरेवेष्टा शमो वा तद्विरोधिभिः ॥
व्यायामिस्निग्धदीप्ताग्निवयःस्थबलशालिनाम् ।
विरोध्यपि न पीडायै सात्म्यमल्पं च भोजनम् ॥
इति विरुद्धद्रव्यप्रकरणम् ॥
अथ पथ्यापथ्याभ्यासत्यागप्रकारः —
पादेनापथ्यमभ्यस्तं पादपादेन वा त्यजेत् ।
निषेवेत हितं तद्वदेकद्वित्र्यन्तरीकृतम् ॥
अपथ्यमपि हि त्यक्तं शीलितं पथ्यमेव वा ।
सात्म्यासात्म्यविकाराय जायते सहसान्यथा ॥
इति । अयमर्थः, अभ्यस्तमभ्यासात् सात्म्यतां यातं अपथ्यं पादेन
चतुर्थांशेन पादपादेन षोडशांशेन वा त्यजेत् । हितं पथ्यं तद्वत्
१. J1. T1. Bh. omit पत्राह्वयो......सद्यो घ्नन्ति ।
२. J1. T1. Bh. omit हरिद्र......दारुहरिद्रा ।
३. J1. T1. Bb. omit तदेव......शेषः ।
४. J1. प्रकारस्त्व ।
चतुर्थ तैल, मद्य, इक्षु-विकार (गुड़, शर्करा) एवं पेय-पदार्थ
' and 'ए': there is "त्वभ्यास एकादि..." or "त्वभ्यामे"?
Wait, look at: "त्वभ्यासे" - wait, in line 12:
"पथ्याभ्यासे क्रमः । पादपादेन त्वभ्यासे एकादिद्व्यन्तरीकरणस्य पञ्चकृ-"
Wait, look at 'त्वभ्या' - then 'से' or 'म'?
Wait! Look at the letter: is it 'स' or 'म'?
"त्वभ्यास" or "त्वभ्यासे"? The letter after भ्या has a loop: could it be 'मे'?
No, look at "अभ्यासे" earlier in line 12: "पथ्याभ्यासे".
In "त्वभ्यास", it looks like "त्वभ्यासे" or "त्वभ्यास". Let's write "त्वभ्यासे" or "त्वभ्यास" as printed: "त्वभ्यासे".
Line 13:
"त्व आवृत्तिः, तत एकान्तरीकरणम् । एवं विषय्यादिवसैः षोडशांशाः"
Wait, let's look closely at that word again:
"एवं वि[ष/प]...दिवसैः"
Is it "विषह्यादिवसैः"?
Let's look at the letters:
व + ि = वि
then ष (sha)
then ह + य + ा = ह्या
Wait! Could it be "विषह्यादिवसैः"? Yes, वि-ष
प्रथमपरिच्छेदः ।
तुल्ये अपि हतोऽन्योन्यं विषे स्थावरजङ्गमे ।
सक्तवो वातला रूक्षाः पीतास्ते तर्पयन्त्यपि ॥
विनापि चोपयोगेन मणिमन्त्रादिकार्यकृत् ।
आर्द्रकाज्जायते शुण्ठी संस्कारेण लघीयसी ॥
लघुभ्योऽपि हि सक्तुभ्यो गुरवः सक्तुपिण्डकाः
भृष्टः क्षुण्णोऽपि पृथुको रक्तशालेरपिोगुरुः ॥
शालिपिष्टो गरीयस्त्वं गोधूमादपि गच्छति ।
लघुः पित्तहरो लाजो व्रीहितो गुरुपित्तलात् ॥
संग्राहीणो लघोर्मुद्गात्कुल्माषो भेदनो गुरुः ।
आमं ग्राहितरं तक्रं तत्त्वलीकृतमन्यथा ॥
गुडतोयाच्च सुतरां मूत्रलं गुडपानकम् ।
गरीयो गुडदध्युक्तं रसाला चातिशुक्ला ॥
दण्डादिमन्थनादभ्रो गे॑रुणश्चातिशोफदात् ।
अनुद्धतस्नेहमपि तक्रं शोफहरं लघु ॥
सर्पिः स्निग्धतरं हन्ति नार्दितं नवनीतवत् ।
चक्षुष्योऽपि हि गोधूमस्तैलपक्वस्तु दृष्टिहा ॥
मूलकं दोषजननं सिद्धं तु तददोषलम् ।
उष्णं विषीभवत्येव विषघ्नमपि माक्षिकम् ॥
दुर्भाजनस्था द्राक्षाम्ला दोषला च प्रजायते ।
श्लक्ष्णः पिष्टो घनो लेपश्चन्दनस्यापि दाहकृत् ॥
मेध्यस्तिलः स्पर्शशीतो मेध्यं तैलं खलो हिमः ।
तस्यैव श्लेष्मकारित्वं न तैलस्य खलस्य वा ॥
दध्नः श्वयथुकारित्वं न तक्रनवनीतयोः ।
भूरि सात्म्यं दधिक्षीरकरीरं मरुवादिषु ॥
क्षाराः प्राच्येषु मत्स्याश्च सैन्धवेष्वन्धकेषु च ॥
१. Bh. गरीयश्चातिशोफकृत् ।
२. J1; T ; Bh. भूमिसाम्यं ।
तैलाम्लं कन्दमूलानि मळये कोङ्कणे पुनः ।
पेया मन्थ उदीच्ये तु गोधूमोऽवन्तिभूमिषु ॥
बाह्लीका बह्वाशिनाश्चुलुका यवनाः शकाः ।
मांसगोधूममाद्वीकशस्त्रवैश्वानरोचिताः ॥
देहसात्म्यं घृतं क्षीरं मद्यं मांसं तु कस्यचित् ।
पेयासूपो रसोऽन्यस्य गोधूमोऽन्यस्य शालयः ॥
अहितैरपि तेषां तु तैरेवोपहितं हितम् ।
अन्नपानौषधं दोषमात्राकालाद्यपेक्षया ॥
सात्म्यं चाशु बलं धत्ते नातिदोषं च बह्वपि ॥
स्रंसनं सत्पयो गव्यं भवति ग्राहि कस्यचित् ।
मन्दाग्निर्भवति प्रायः कफवातोत्तरो हि ना ।
विषघ्नेनापि पयसा देहेऽहेर्वर्धते विषम् ॥
स्थूलस्थविरबालादौ वमनादि निषिध्यते ।
तक्रमामं कफं हन्ति कोष्ठे कण्ठे करोति च ॥
वातहृत्त्वेऽपि मार्दीकखर्जूरं कोष्ठवातकृत् ।
नातिपथ्यः शिखी पथ्यः श्रोत्रस्वरवयोदृशाम् ॥
दृष्टेः स्पर्शे हिमं द्रव्यं श्रोत्रस्योष्णं तु पूजितम् ।
पयः स्वादुरसं शीतं विपरीतं ततो दधि ॥
कालेन जायते तस्मात् क्षीरवच्च पुनर्घृतम् ।
पयो दधि च वातघ्नमजातं वातलं तु तत् ॥
तक्रं ग्राहि कषायाम्लपम्लमेव तु भेदनम् ।
धातकीगुडतोयानि कारणं मद्यशुक्तयोः ॥
शीते न तु तदाद्यन्ते स्निग्धाम्ललवणा हिताः ।
उदमन्थदिवास्वप्नौ ग्रीष्मादन्यत्र गर्हितौ ॥
समयोगेऽपि घर्माद्या वातादिचयहेतवः ।
ऋतुष्वन्यो रसेष्वन्यो रौक्ष्यस्नेहबलक्रमः ॥
रसायनं काचमाची सद्यः पर्युषिता विषम् ।
पादटिप्पणी:
१. $J_1; T_1.$ मार्दीका खर्जूरं । $Bh.$ मार्दीकात् खर्जूरं ।
प्रथमपरिच्छेदः । २०॥
• मूलकं दोषजिद् बालं विपरीतं तु दोषकृत् ॥
अपथ्यं पथ्यमप्यन्नं निद्रायां नेत्ररोगिणाम् ।
अहिताः सक्तवः शुष्का हितांस्ते तु प्रमेहिणाम् ॥
गुल्मिनः क्षीरदध्यादि हेंगुपादियुतं हितम् ।
वातलं वातकोपेऽपि वर्षासु मधु शस्यते ॥
तदेव मद्यं मद्यस्य विषस्य तु विषान्तरम् ।
निवारणमिति शेषः ।
घृतमानूपदेशोत्थं हेमन्ते च बलाधिकम् ॥
स्वेदैर्याति शमं दाहः प्रायो लशुनपानजः ।
दिवास्वापाज्जरां याति भुक्तमन्येद्युरद्य न
कोष्ठे रुद्धोऽग्निकृद्वायुर्मेदसार्शोभिरभिहृत् ।
छर्दिघ्ना मक्षिकाविट् तु वामयेन्मक्षिकैव तु ॥
सर्वथा दोषजित् तक्रं ग्रहण्यां दोषकृद् व्रणे ।
पीनसश्वासकासादौ सिद्धमेव प्रशस्यते ॥
इत्येतेऽन्ये च बहवः सूक्ष्मा दुर्बलहेतुकाः ।
धर्मा विचित्रा भावेषु किञ्चित्तेषां प्रदर्शितम् ।
दिशानया शेषमपि स्वयमूहेत बुद्धिमान् ।
इति भावेषु वैचित्र्यनिरूपणम् ॥
अथ पथ्यापथ्यशमनम् ।
नारीकेरफलेऽथ तण्डुलमथ क्षीरं रसाले हितं
जम्बीरोत्थरसो घृते समुचितस्सर्पिंस्तु मोचाफले ।
गोधूमेषु च कर्कटी हिततमा मांसात्यये काञ्जिकं
नारङ्गे गुडभक्षणं च विहितं पिण्डालुकं कोद्रवे ॥
१. J₁. हिङ्गुपादियुतं, T₁. Bh. हङ्गुपादियुतं
२. J₁. Bh, omit निवारणमिति शेषः; T₁. निवारण इति शेषः ।
३. J₁. Bh. omit इति निरूपणम् T₁. इति धर्मभावेषु धर्मवैचित्र्य-
निरूपणम् ।
४. J₁; T₁. अपथ्यशमनम् Bh. omits अथ पथ्यापथ्यशमनं इति स्वभावाद-
हितानि । ... on l. P. and simply reads अथ पथ्यापथ्यशमनं स्वभावान्नशं
हशमनम् । इति स्वभावादहितानि अथ स्वभावतो हिताहितानि पथ्यापथ्ये भेदौ ।
२०४ भोजनकुतूहल
पिष्टाके सलिलं प्रियालफलजे पथ्या हिता माषजे
खण्डं क्षीरभवे च तक्रमुचितं कोष्णाम्बु कालाम्लजे
मात्स्ये चुतफलं त्वजीर्णशमनं मध्वम्बु पानात्यये
तैले पुष्करजे कटु प्रशमनं शेषं तु बुद्ध्या जयेत् ॥
तथा—
. पयसे कदलं कदले च घृतं घृतपाकविभावपि जम्भरसः ।
तदुपद्रवशान्तिकरं लवणं लवणेऽपि च तण्डुलवारि परम् ॥
नारिकेरफलतालबीजयोः पाचनं सपदि तण्डुलं विदुः ।
ते वदन्ति मुनयोऽथ तण्डुलान् क्षीरवारि परिपाचयेदिति ॥
दाडिमापलकतालतिन्दुकिबीजपूरलवलीफलानि च ।
बाकुलेन च फलेन पाचयेत् पाचयेति बकुलं स्वबीजतः ॥
मधूकमालूरतृणपादनानां परूषखर्जूरकपित्थकानाम् ।
पाकाय पेयं पिचुमन्दबीजं सिद्धार्थको हन्ति च बीजपूरम् ॥
मृणालखर्जूरकहारहूराकेसेरुशृङ्गाटकशर्कराणाम् ।
यथा विपाकाय च भद्रमुस्तं तथा रसोने च पयः प्रशस्तम् ॥
आम्रातकोदुम्बरपिप्पलानां फलानि च प्लक्षवटादिकानाम् ।
स्युः शर्मणे पर्युषितोदकेन सौवर्चलेनाम्रफलस्य पाकः ॥
सौवीरं फलमपि चोष्णवारि हन्यात् प्राचीनामलकमपीह राजिकेका ।
नागरं हरति बिल्वजाम्बवं शर्करा पचति तिन्दुकीफलम् ।
जीरकं पचति बाकुलोद्भवं पाचयेन्मधुरिका कपित्थजम् ॥
१. Revisor adds in the margin:
खर्जूरशृङ्गाटकयोः प्रशस्तं विश्वौषधं तत्र च भद्रमुस्तम् ।
यद्वा बोधिफलेषु शीतं प्लक्षे तथा पर्युषितं प्रपातिम् ॥
तण्डुलेषु पयसो जलं हितं दीप्तिकं तु (तिन्तिडुकेनायुतम् ? ।)
षष्ठिको दधिजलेन जीर्यते कर्कटी न सुमतेषु जीर्यते ॥
before सौवीरं etc.
२. Revisor adds in margin:
खर्जूरं सपरूषकं प्रियालक्षीरी सारफलं पचेन्मरीचम् ।
before नागरं हरति etc.
प्रथमपरिच्छेदः । ३०५.
पनसामलकीफलपक्तये भजत सर्जतरोरपि बीजकम् ।
सकळमप्युदितानुदितं फलं प्रपचति प्रसृतं वेंटतिन्दुकम् ।
आर्द्राम्रबीजं पनसस्य पक्त्यै रसालपक्त्यै घनरावबीजम् .।
अपूपपक्त्यै सजला यवानी सा कैश्चिदुक्ता पृथुकस्य पक्त्यै ॥
[घ]नरावस्तण्डुलीयकः ।
पालङ्गिकाकम्बुककारवल्लावाताकवशङ्कुरमूलकानाम् ।
उपोदकालाम्बुपटोलकानां सिद्धार्थको मेघरसस्य पक्ता ॥
पटोलवंशाङ्कुरकारवल्लीफलान्यलावूनि फलानि जग्ध्वा ।
क्षारोदकं ब्रह्मवरोर्निपीय भोक्तुं पुनर्वान्छति तावदेव ॥
वास्तूकसिद्धार्थकचुञ्चुशाकं
प्रयाति सद्यः खदिरेण पाकम् ।
यथा गुडः सूरणनागरङ्गौ
तथालुकं तण्डुलवारि हन्ति ॥
पत्राणि पुष्पाणि फलानि यानि
मूलानि पूर्वं न मयोदितानि ।
१. J1. T1. कटु तिन्दुकम् ।
२. J1. Revisor adds in the margin
शाकानि रूक्षाण्यपि यान्ति पाकं
क्षारेण सद्यस्तिलनालजेन ।
स्निग्धेषु रूक्षं च तदप्यनेन
स्निग्धं च रूक्षेण च पाकमेति ॥
(मरीचापि बच्छीर्घ ? ) पाकं यात्येव काञ्जिकम् ।
क्षीरं जीर्यति तक्रेण तद्रूव्यं कोष्मामण्डकात् ।
माहिषं मणिमन्थेन शङ्खचूर्णेन तद्दधि ॥
रसाला जीर्यति व्योषात् मण्डं नागरभक्षणात् ।
सिता नागरमुस्तेन तथेक्षुखारिकाशनात् ॥
(विरामिदगै ? वरामिराये)रिक्षण्दनाभ्यामम्भेति शीघ्रं मुनिभिः प्रदिष्टम् ।
उष्णेन पीतं शिशिरेण चोष्णं जीर्णं भवेत् क्षारगणस्तबाम्यैः ॥
विपच्यते सूरणकं गुडेन तथालुकं तण्डुलजोदकेन ।
पीतालुकं जीर्यति कोरदूषाद् कशेरुपाकाः किल नागरेण ॥
before पत्राणि पुष्पाणि etc.
३०४ भोजनकुतूहल
कस्तुरिकां सिल्हकनाभिमेव
अलं पचत्याशु समुद्रफेनः ॥
निम्बूफलेनाथ यवोषणेन
तक्रेण वा सर्पिरुपैति पाकम् ।
शाकानि सर्वाण्युपयान्ति .पाकं
क्षारेण तान्येव तिलोद्भवेन ॥
काञ्जिकं हि लवणान्वितं भृतं
पिष्टपाचनकमादिशन्ति हि ।
सर्पिरेव यवशूकसंयुतं
मांसपाचनमथोष्णवारिणा ॥
श्यामाकनीवारतिलातसीनां
निष्पावकङ्गुयवपिष्टिकानाम् ।
मन्थेन पाकोऽथ कुलत्थचित्रा-
पाकाय पेयं तिलतैलमेकम् ॥
गोधूममाषौ हरिमन्थमुद्गौ
यवान् सतीनान् कितवो निहन्ति ।
यन्मातुलुङ्गीफलमेति पाकं
घृतेन सोऽयं लवणाम्बुभावः ॥
सतीनो लङ्गा । कितवो धुस्तूरः ।
कर्पूरपूगीफलनागवल्ली-
काश्मीरजातीफलजातिकोषम् ।
१. J₁. Revisor adds in the margin:—
गोधूममाषहरिमन्थयवानुमुद्गा-
(पाको भवेदिति मातुलुङ्गकेन ?)
खण्डं न खण्डयति भल्लभर्वत्यजीर्णे? (भल्लभवं त्यजीर्णे)
तैलं कुलित्थमथवा विदधाति जीर्णम् ॥
(कङ्गुश्यामाकनीवाराः कुलित्थं विलंघितुम् ।?)
दध्ना जलेन जीर्यन्ति वेतुलाः काञ्जिकेन तु ।
प्रथमपरिच्छेदः । २०४
तैलानि सर्वाणि तिलादिजानि
प्रयान्ति पाकं किल काञ्जिकेन ॥
शृङ्गवेररस एव केवलः
क्षारतोयमथवा पलाशजम् ।
ऐक्षवं रसमुदस्यति क्षणा-
दग्निवेशमुनिनेरितम् ॥
माहिषे पयसि सिन्धुजं यथा
सैन्धवं कुसरपक्तये तथा ।
काञ्जिकं च विदलान्नपक्तये
शीलयन्ति जठराग्निपक्तये ॥
किमत्र चित्रं च समांसमत्स्य-
भोजी सुखी स्यात् परिपीय शुक्तम् ।
इत्यद्भुतं केवलवह्निपक्व-
मांसेन मत्स्यः परिपाकमेति ॥
कपोतपारावतनीलकण्ठ-
कपिञ्जलानां पिशितानि जग्ध्वा ।
कांतस्य मूलं परिपीय पिष्टं
जनः सुखी स्याद् बहुशो हि दृष्टम् ॥
कोष्णेन मण्डेन गवां पयस्तु
व्योषै रसाला परिपाकमेति ।
शङ्खस्य चूर्णेन हयारिनारी-
पयोदधिक्षीरमुपैति पाकम् ॥
शुण्ठी सतीनस्य च नागरङ्ग-
जम्बीरयोः कोद्रवको निहन्ति ।
१. J₁. Revisor adds in the margin:—
आम्रमातुलुङ्गं मीने तद्वीजं पिशिते हितम् ।
कूष्माण्डं यवक्षाराज्जीर्णं पाकमुपैति हि ॥ before करोति a.c.