सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 210, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 210

प्रथमपरिच्छेदः । १९९
बलाका वारुणीयुक्ता कुलमाषैश्च विरुध्यते ।
भृष्टा वराहवसया सैव सद्यो निहन्त्यसून ॥
तद्वत्तिित्तिरिपत्राह्वगोधालावकपिञ्जलाः ।
•ऐरण्डेनाग्निना सिद्धास्तत्तैलेन विमूर्च्छिताः ॥
पत्राह्वयो मयूरः । तद्वत बलाकावत् , सद्यो घ्नन्ति ।
हारीतमांसं हारिद्रशूलकप्रोतमग्नितम् ।
हारिद्रावह्निना सद्यो व्यापादयति जीवितम् ॥
हारिद्रशूलकं हारिद्रावह्निनेत्यत्र च दारुहरिद्रा ।
भस्मपांसुपरिश्वस्तं तदेव च समाक्षकम् ।
तदेव हारीतमांसमेव । सद्यो हन्तीति शेषः
यत् किञ्चिद् दोषमुत्क्लेश्य न हील्लन्कायतः ।
विरुद्धं शुद्धिरेवेष्टा शमो वा तद्विरोधिभिः ॥
व्यायामिस्निग्धदीप्ताग्निवयःस्थबलशालिनाम् ।
विरोध्यपि न पीडायै सात्म्यमल्पं च भोजनम् ॥
इति विरुद्धद्रव्यप्रकरणम् ॥
अथ पथ्यापथ्याभ्यासत्यागप्रकारः —
पादेनापथ्यमभ्यस्तं पादपादेन वा त्यजेत् ।
निषेवेत हितं तद्वदेकद्वित्र्यन्तरीकृतम् ॥
अपथ्यमपि हि त्यक्तं शीलितं पथ्यमेव वा ।
सात्म्यासात्म्यविकाराय जायते सहसान्यथा ॥
इति । अयमर्थः, अभ्यस्तमभ्यासात् सात्म्यतां यातं अपथ्यं पादेन
चतुर्थांशेन पादपादेन षोडशांशेन वा त्यजेत् । हितं पथ्यं तद्वत्
१. J1. T1. Bh. omit पत्राह्वयो......सद्यो घ्नन्ति ।
२. J1. T1. Bh. omit हरिद्र......दारुहरिद्रा ।
३. J1. T1. Bb. omit तदेव......शेषः ।
४. J1. प्रकारस्त्व ।