सामग्री पर जाएँ
सर्वकोश
भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)

Bhojanakutuhala of Raghunatha Navahasta

रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा

DevanagariSanskritpublished358 पृष्ठ

पृष्ठ 214, कुल 358 में से

संदर्भ में पढ़ें
पृष्ठ 214

प्रथमपरिच्छेदः । २०॥
• मूलकं दोषजिद् बालं विपरीतं तु दोषकृत् ॥
अपथ्यं पथ्यमप्यन्नं निद्रायां नेत्ररोगिणाम् ।
अहिताः सक्तवः शुष्का हितांस्ते तु प्रमेहिणाम् ॥
गुल्मिनः क्षीरदध्यादि हेंगुपादियुतं हितम् ।
वातलं वातकोपेऽपि वर्षासु मधु शस्यते ॥
तदेव मद्यं मद्यस्य विषस्य तु विषान्तरम् ।
निवारणमिति शेषः ।
घृतमानूपदेशोत्थं हेमन्ते च बलाधिकम् ॥
स्वेदैर्याति शमं दाहः प्रायो लशुनपानजः ।
दिवास्वापाज्जरां याति भुक्तमन्येद्युरद्य न
कोष्ठे रुद्धोऽग्निकृद्वायुर्मेदसार्शोभिरभिहृत् ।
छर्दिघ्ना मक्षिकाविट् तु वामयेन्मक्षिकैव तु ॥
सर्वथा दोषजित् तक्रं ग्रहण्यां दोषकृद् व्रणे ।
पीनसश्वासकासादौ सिद्धमेव प्रशस्यते ॥
इत्येतेऽन्ये च बहवः सूक्ष्मा दुर्बलहेतुकाः ।
धर्मा विचित्रा भावेषु किञ्चित्तेषां प्रदर्शितम् ।
दिशानया शेषमपि स्वयमूहेत बुद्धिमान् ।
इति भावेषु वैचित्र्यनिरूपणम् ॥
अथ पथ्यापथ्यशमनम् ।
नारीकेरफलेऽथ तण्डुलमथ क्षीरं रसाले हितं
जम्बीरोत्थरसो घृते समुचितस्सर्पिंस्तु मोचाफले ।
गोधूमेषु च कर्कटी हिततमा मांसात्यये काञ्जिकं
नारङ्गे गुडभक्षणं च विहितं पिण्डालुकं कोद्रवे ॥
१. J₁. हिङ्गुपादियुतं, T₁. Bh. हङ्गुपादियुतं
२. J₁. Bh, omit निवारणमिति शेषः; T₁. निवारण इति शेषः ।
३. J₁. Bh. omit इति निरूपणम् T₁. इति धर्मभावेषु धर्मवैचित्र्य-
निरूपणम् ।
४. J₁; T₁. अपथ्यशमनम् Bh. omits अथ पथ्यापथ्यशमनं इति स्वभावाद-
हितानि । ... on l. P. and simply reads अथ पथ्यापथ्यशमनं स्वभावान्नशं
हशमनम् । इति स्वभावादहितानि अथ स्वभावतो हिताहितानि पथ्यापथ्ये भेदौ ।