भोजनकुतूहल: प्रथम भाग (रघुनाथ नवहस्त - आहार-रसायन, पाकशाला-व्यवस्था व विरुद्धाहार)
Bhojanakutuhala of Raghunatha Navahasta
रघुनाथ नवहस्त (सम्पादक: सूरनाड कुंजन पिल्लै) द्वारा
पृष्ठ 205, कुल 358 में से
संदर्भ में पढ़ें१९४ भोजनकुतूहल
पलाशोदुम्बरोद्भूतकाष्ठैस्तप्तं च वारि यत् ।
व्रणकुष्ठहरं चासृग्बलवीर्यविवर्धनम् ॥
जम्बूवटाम्रजैः काष्ठैस्तप्तं वारि तटागजम् ।
मेधाबलप्रदं वीर्यकारि दोषावनाशनम् ॥
बदरीसम्भवैः काष्ठैस्तप्तं वापिसमुद्भवम् ।
कफहृच्च च निर्दिष्टं दोषाणां च विनाशनम्
काष्ठैः खदिरजैस्तप्तं रक्तपित्तविनाशनम् ।
आप्यायनकरं ग्रीष्मे श्रेष्ठमेतत्परं जलम् ॥
कदम्बनिम्बजैस्तप्तं काष्ठैर्वारि सरिद्भवम् ।
पथ्यं दोषहरं कण्ठ्यरक्तपित्तविनाशनम् ॥
धात्रीदारुसमुद्भूतकाष्ठैस्तप्तं च यज्जलम् ।
वातपित्तहरं श्रेष्ठं रसायनकरं परम् ॥
पौष्करस्य च काष्ठेन तप्तं कूपोद्भवं जलम् ।
वातपित्तहरं श्रेष्ठं रसायनकरं परम् ॥
कर्कन्धुदारुसम्भूतकाष्ठैस्तप्तं च यज्जलम् ।
जठराग्नेः प्रसदनं सुश्रुतेन प्रभाषितम् ॥
सल्लकीशाकनिर्यासकाष्ठैश्चापि पृथक् पृथक् ।
तप्तं निर्झरजं वारि तद् रोगान् जनयेद्बहून् ॥
सल्लकी साळयी । शाकः साव । निर्यासः राळाचें झाड् ॥
वटैश्चार्जुनकाष्ठैश्च सततं तापितं जलम् ।
बलमेधाप्रजननं मैत्रेयेण प्रभाषितम् ॥
१. J1. omits this verse.
२. J1. omits आप्यायन......रक्तपित्तविनाशनम् ।
३. J1. omits this verse.
४. J1. T1. omit सल्लकी..... राळाचें झाड् ।
५. J1. प्रदर्शितम् ।