अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
८ परिशिष्टे [९ अध्यायः ।
सितो रक्तस्तथा पीतः सारङ्गः पिङ्ग एव च ।
नीलः कृष्णोऽथ सर्वेषां श्वेतः श्रेष्ठतमः स्मृतः ॥ २ ॥
पट्टार्हो भूपतेर्वाजी सर्वश्वेतः प्रशस्यते ।
तदभावे यथा प्रोक्तास्तथा श्रेष्ठाः क्रमेण च ॥ ३ ॥
श्वेतः प्रालेयसङ्काशो रक्तः कुङ्कुमसंनिभः ।
हरिद्रासदृशः पीतः सारङ्गः कर्बुरः स्मृतः ॥ ४ ॥
पिङ्गः कपिलकाकारो नीलो दूर्वाग्रसंनिभः ।
कृष्णो जम्बूफलाकारः शास्त्रज्ञैः समुदाहृतः ॥ ५ ॥
पीताभः श्वेतपादोयस्तथा स्यात्सितलोचनः ।
चक्रवाकः स विज्ञेयो राजार्हो वाजिसत्तमः ॥ ६ ॥
सर्वश्वेतो हयो यस्तु भवेन्मेचककर्णकः १ ।
सवाजी वाजिमेधार्हः श्यामकर्णः प्रकीर्त्तितः ॥ ७ ॥
मुखे चन्द्रकसंवीतो २ जम्बूफलसमाकृतिः ।
श्वेतपादः स विज्ञेयो मल्लिकाख्यः स पूजितः ॥ ८ ॥
चत्वारोऽप्यसिताः पादाः सर्वश्वेतस्य वाजिनः ।
भवन्ति यस्य स त्याज्यो यमदूतः सुदूरतः ॥ ९ ॥
यस्य पादाः सिताः सर्वे पुच्छं वक्षो मुखं तथा ।
मूर्धजाश्च सिता यस्य तं विद्यादष्टमङ्गलम् ॥ १० ॥
१ । श्यामैककर्णकः । ख ।
२ । सङ्काशः । ख ।
३ अध्यायः।] वर्णकथनम्। ६
भस्माभं वाजिनं जह्यात् सुदूरेण नराधिपः।
यदि वाञ्छति¹ कल्याणं वाञ्छेच्च श्रीसमुद्भवम् ॥ ११ ॥
यस्य² रोमविभेदेन जायन्ते रोमविन्दवः।
पुष्पाख्यः स परित्याज्यः सर्ववाजिभयावहः ॥ १२ ॥
यस्य पादाः सिताः सर्वे तथा वक्त्रञ्च मध्यतः।
कल्याणपञ्चकः प्रोक्तः सर्व³कल्याणकृच्च सः ॥ १३ ॥
विमिश्रवर्णीकाः सर्वे प्रशस्ता वाजिनः स्मृताः।
कृष्णनीलस्य मिश्रत्वमेकं मुक्त्वा सुदूरतः ॥ १४॥
यस्योत्कृष्टतरो वर्णो वृद्धिं याति शनैः शनैः।
नाशयति तथा नीचान् स करोति वहून् हयान् ॥१५॥
यस्याधमेन वर्णेन छाद्यते⁴ च प्रधानजः।
विवृद्धिं गच्छता⁵ सोऽथ करोति हयसंक्षयम् ॥१६॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते वर्णोनाम तृतीयो
ऽध्यायः॥
१। कर्म्मणि वाञ्छाञ्च करोति श्रीसमुद्भवाम्। खः।
२। ह्यस्य वर्म्मभेदेन। खः।
३। सदा। खः।
४। सीद्यन्ते च प्रधानजाः। खः।
५। गच्छते। खः।
2
[ १० ]
अथ चतुर्थोऽध्यायः ॥
आवर्त्ताः ।
आवर्त्ता विंशतिः प्रोक्ताः शालिहोत्रेणमहात्मना ।
गात्रस्थानविभागेन तेषां व्यक्तिर्मयोच्यते ॥ १ ॥
ललाटे मस्तके चैव ग्रीवायां हृदये तथा ।
पादे पृष्ठे मणीबन्धे नाभिदेशे विशेषतः ॥ २ ॥
स्कन्धे पार्श्वे गले वक्त्रे कुक्षौ रंध्रे षिके तथा ।
आद्यास्त्रयोदशावर्त्ता१ विज्ञेया वाजिपण्डितैः ॥ ३ ॥
नासिकाग्रे ललाटाग्रे शङ्खे कण्ठे च मस्तके ।
आवर्त्तो जायते येषां ते धन्यास्तुरगोत्तमाः ॥ ४ ॥
हृदि स्कन्धे गले चैव कटिदेशे तथैव च ।
नाभौ कुक्षौ च पार्श्वार्ङ्गे मध्यमास्ते प्रकीर्त्तिताः ॥ ५ ॥
ललाटे यस्य चावर्त्तो द्वितीयस्य स लिङ्गकः ।
मस्तके च तृतीयश्च पूर्णकुक्षिः स उत्तमः ॥ ६ ॥
पृष्ठवंशे तथावर्त्तो यस्यैकः संप्रजायते ।
स करोत्यश्वसंघातान् स्वामिनः सूर्य्यसंज्ञकः ॥ ७ ॥
कक्षायां जानुमेढ्रे च चिवलौ पुच्छसन्निधौ ।
पुच्छे गुह्ये चलावष्टावावर्त्ता अधमा इये ॥ ८ ॥
१ । ललाटाये । खः ।
२ । आयन्ता द्वादशावर्त्ताः । खः ।
४ अध्यायः।] आवर्त्तकथनम् । ११
त्रयो यस्य ललाटस्था आवर्त्ता अधरोत्तराः ।
त्रिकूटः स परिज्ञेयो वाजिवृद्धिकरः परः ॥ ९ ॥
एवमेव प्रकारेण त्रयो ग्रीवां समाश्रिताः ।
त्रयावर्त्तः१ स वाजीशो जायते भूपमन्दिरे ॥ १० ॥
ललाटे युगलावर्त्तौ चन्द्रार्कौ संप्रकीर्त्तितौ ।
वाजिनो यदि२ तौ स्यातां राष्ट्रवृद्धिकरौ परौ ॥ ११ ॥
उपर्युपरि यस्य स्युरावर्त्ता अलिके त्रयः ।
निःश्रेणिः सतु विज्ञेयो राष्ट्रवृद्धिकरः परः ॥ १२ ॥
एकोऽथवा कपोलस्थो यस्यावर्त्तः प्रदृश्यते ।
वर्त्तमानः३ स विज्ञेयः स दुच्छेदस्वामिनाशनम् ॥ १३ ॥
कपोलाभ्यान्तथावर्त्तौ विद्येते४ वाजिनो यदि ।
तावश्विनाविति प्रोक्तौ युद्धकाले जयप्रदौ ॥ १४ ॥
गण्डावर्त्ती५ भवेद्यस्य वाजिनो दक्षिणाश्रयः ।
स करोति महासौख्यं स्वामिनः शिवसंज्ञकः ॥ १५ ॥
तद्वद्वामाश्रयः क्रूरः प्रकरोति धनक्षयम् ।
इन्द्वर्काख्या६वुभौ शस्तौ नृपराज्यविवृद्धिदौ ॥ १६ ॥
१ । यस्यावर्त्तः । खः ।
२ । यस्य । खः ।
३ । रथिनामन्त्रनिष्ठानां स दुष्टः स्वामिनाशने ।
४ । कपोलाभ्यन्तरावर्त्तौ विद्येते । खः ।
५ । गजावर्त्तः । खः ।
६ । इन्द्रकाख्यौ । खः ।
१२ परिशिष्टे [४ अध्यायः।
कर्णमूले यदावर्त्तस्तन्मध्ये च तथापरः ।
विजयाख्यावुभौ ज्ञेयौ युद्धकाले जयप्रदौ ॥ १७ ॥
नासामध्ये यदावर्त्त एको वा यदि वा त्रयः ।
चक्रवर्त्ती स विज्ञेयो वाजी भूपालपूजितः ॥ १८ ॥
कण्ठे यस्य महावर्त्त एकोऽश्वस्य¹ प्रजायते ।
चिन्तामणिः स विज्ञेयश्चिन्तितार्थविवृद्धिदः ॥ १९ ॥
स्कन्धे पार्श्वे यदावर्त्तः स भवेत् पद्मलक्षणः ।
करोति विधिवत् पद्मे स्वामिनः सततं सुखम् ॥ २० ॥
युक्ताख्यौ² तालुकान्तस्थावावर्त्तौ कीर्त्तिवृद्धिदौ ।
हयस्य स्वामियुक्तस्य सदैव सुसुखावहौ ॥ २१ ॥
एका³वर्त्तो भवेद्यस्य⁴ कक्षान्ते वाजिनो यदा⁵ ।
स रणे मृत्युमाप्नोति द्वौ च⁶ स्वामिविनाशनौ ॥ २२ ॥
जानुदेशे यदावर्त्तो वाजिनः संप्रदृश्यते ।
प्रवासं सततं ब्रूते स्वभर्त्तुः क्लेशसंयुतम् ॥ २३ ॥
वाजी मेढ्रतलावर्त्तो वर्जनीयो महीभुजाम् ।
स करोति हरेर्नाशं परचारसमुद्भवम्⁷ ॥ २४ ॥
१ । एकः स्पष्टः । खः । ५ । ह्यशुभः । खः ।
२ । मुक्ताख्यौ । खः । ६ । चाशु । खः ।
३ । यस्य । खः । ७ । परस्परसमुद्भवम् । खः ।
४ । व्यक्तः । खः ।
४ अध्यायः ।] आवर्त्तकथनम् । १३
चिर्वालस्थो यदावर्त्तस्त्रिवर्गस्य प्रणाशकः१ ।
वाजिनस्ते परिज्ञेयाः स्त्रीपार्श्वस्था२ भयप्रदाः ॥ २५ ॥
पुच्छ३देशे यदावर्त्तो वाजिनः संप्रदृश्यते ।
धूमकेतुरिति ख्यातः स त्याज्यो दूरतो नृपैः ॥ २६ ॥
गुह्ये पुच्छे वलौ यस्य भवन्त्यावर्त्तकास्त्रयः ।
स कृतान्तरूपेण वर्जनीयस्तुरङ्गमः ॥ २७ ॥
अधऊर्ध्वं४ यदा वाजी सम्पुटं न स्पृशेत् क्वचित् ।
यमदूतः स विज्ञेयो वर्जनीयः प्रयत्नतः ॥ २८ ॥
हीनदन्तोऽधिदन्तश्च कराली कृष्णतालुकः ।
मुशली च तथा शृङ्गी षडेते स्वामिघातकाः ॥ २९ ॥
एकाण्डजातश्चैकाण्डो५ हीनांगोऽप्यधिकाङ्गकः ।
परित्याज्यः स६ वाञ्छद्भिरन्विष्य परमं यशः ॥ ३० ॥
घण्टी वदनको वाली शृङ्गीचैव चतुर्थकः ।
वर्जनीयः प्रयत्नेन सर्वे ते पापकृत्तमाः ॥ ३१ ॥
घण्टी च स्वामिनं हन्ति वदनी धनसंक्षयम् ।
अन्तःपुरं तथा वाली शृङ्गी राष्ट्रविनाशनः ॥ ३२ ॥
षट्पदाभो भवेद्यश्च कृष्णतालुर्न दुष्यति ।
१ । प्रसाधकः । खः । ४ । अधोर्द्धं च यदा । कः ।
२ । श्रीपार्श्वः स शुभप्रदः । खः । ५ । एकाण्डकोऽप्यमण्डश्च । खः ।
३ । पृष्ठ । खः । ६। भूपाद्यैः संग्रामे क्लेशकारकः । खः ।
१४ परिशिष्टे [५ अध्यायः ।
शङ्गपादमुखो यस्तु' आवर्त्तैः कुत्सितैरपि ।
न दुष्यति सदावर्त्तः शालिहोत्रमतं यथा ॥ ३३ ॥
इति श्रीनकुलविरचितेऽश्वचिकित्सिते आवर्त्ता-
ध्यायश्चतुर्थः ॥
अथ पञ्चमोऽध्यायः ।
दन्ताः ।
दन्तोद्भेदं प्रवक्ष्यामि वाजिनामायुर्लक्षणम् ।
येन विज्ञातमात्रेण आयुर्ज्ञानं प्रचक्षते ॥ १ ॥
अश्वस्तु तनुभिर्दन्तैः क्षीरदन्त इति स्मृतः ।
तथा षोड़शभिः कोणे प्राप्तैर्द्वादशमासिकः ॥ २ ॥
त्रिंशन्मासोद्गताः सर्व्वे अखण्डाः परिकीर्त्तिताः ।
द्वौ स्यातां द्वौ च न स्यातां मूर्द्धोपरि यथाक्रमम् ॥ ३ ॥
चतुर्भिर्व्वत्सरैर्दन्ताः कालिकाख्ये भवन्ति च ।
तथान्यः सप्तमे वर्षे चतुर्थः कालिको भवेत् ॥ ४ ॥
अष्टमे वत्सरे प्राप्ते प्राप्ताः स्युः सार्व्वकालिकाः ।
नवमे त्वथवा रेखा पीतत्वं शंसयन्ति च ॥ ५ ॥
तथाप्येकादशे वर्षे तावत् पीतत्वमागताः ।
तिष्ठन्ति दशनास्तेषां वाजिनामप्यसंशयम् ॥ ६ ॥
१ । वात्र नावर्त्तैः । खः ।
५ अध्यायः । ] दन्तोद्भेदकथनम् । १५
ततः श्वेताः प्रदृश्यन्ते यावद्वर्षत्रयं पुनः ।
ततः काचप्रभाः सम्यक् यावत् संवत्सरास्त्रयः ॥ ७ ॥
ततः सप्तदशादूर्द्धं यावद्वर्षाणि विंशतिः ।
मक्षिकाभारदास्तेषां यावद्वर्षत्रयं पुनः ॥ ८ ॥
तस्मादुदूखलं प्राप्तास्तावद्वर्षत्रयं पुनः ।
प्रकम्प्यञ्च समागम्य पश्चात् पातः समाचयम् ॥ ९ ॥
द्वात्रिंशद्वत्सरैरेव वाजो निर्वाणमाप्नुयात् ।
दंष्ट्राचतुष्टयं श्वेतं वक्त्रेण परमायुषि ॥ १० ॥
अश्वानामेव सर्वेषां दन्ता द्वादश कीर्त्तिताः ।
कालिका हरिणी शुक्ला काचावाप्यथ मक्षिका ॥ ११ ॥
शङ्खोदूखलकञ्चैव दन्तानाञ्चलनं तथा ।
ततस्तु पतनं विद्यादेष व्यञ्जनसंग्रहः ॥ १२ ॥
चतुर्विंशतयो दंष्ट्राः शालिहोत्रमतं तथा ।
एवं दन्तविशेषेण सर्वेषामिह वाजिनाम् ।
विज्ञेया चायुषः सङ्ख्या वाजिपोषणतत्परैः ॥ १३ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते दन्तोद्भेदानाम्
पञ्चमोऽध्यायः ।
[ १६ ]
अथ षष्ठोऽध्यायः ।
अवयवप्रमाणम् ।
दीर्घह्रस्वविमांसास्या ये भवन्ति तुरङ्गमाः ।
ते शस्ताः पार्थिवेन्द्रस्य यानवाहनकर्मणि ॥ १ ॥
स्कन्धमभ्युन्नतं दीर्घं वक्रग्रीवं विशेषतः ।
चमरालङ्कृतं सम्यक् स्तोकवालसमन्वितम् ॥ २ ॥
येषां पृष्ठं¹ सुवंशं स्याद्विपुलं व्रणवर्जितम् ।
किञ्चिन्मध्ये भवेन्निम्नं² राजार्हास्ते तुरङ्गमाः ॥ ३ ॥
स्निग्धरोमा सुवृत्ता च ³सुस्थूला विपुला कटी ।
ग्रथिताः सुदृढा रम्या भुजा मांसप्रपूरिताः⁴ ॥ ४ ॥
पादा निर्मांसलावकाश्र्वकाकारखुरान्विताः ।
अप्रमाणं तथा वक्षः कर्णौ लघुतरौ स्मृतौ⁵ ॥ ५ ॥
पार्श्वौ तनुतरौ⁶ शस्तौ सुरसस्निग्धतालुकम्⁷ ।
दन्ताश्च शिखराकारा विपुला चन्द्र
६ अध्यायः । अवयवप्रमाणम् । १७
सप्तविंशप्रमाणेन मुखमश्वस्य शस्यते ।
कर्णौ षडङ्गुलौ प्रोक्तौ तालुकं चतुरङ्गुलम् ॥ ७॥
चत्वारिंशच्च सप्ताख्याः स्कन्धाः सम्यक् प्रकीर्त्तिताः¹ ।
पृष्ठवंश²श्चतुर्विंशः सप्तविंशा तथा कटी ॥ ८॥
अतिसूक्ष्मं तथा निम्नं पुच्छं हस्तद्वयायतम्³ ।
लिङ्गं हस्तप्रमाणञ्च तथाण्डौ चतुरङ्गुलौ ॥ ९॥
मार्ग⁴स्थानं चतुर्विंशं हृदयं षोडशाङ्गुलम् ।
कटिकक्षान्तरञ्चोक्तं चत्वारिंशत्⁵ प्रमाणतः ॥ १० ॥
मणिबन्धद्वयं चैव खुराश्च चतुरङ्गुलाः ।
अशीत्यङ्गुल उत्सेधो दैर्घ्यञ्च ह्यधिकं शतम् ।
एवं क्रमेण गात्रस्य प्रमाणं वाजिनां मतम् ॥ ११ ॥
दीर्घाणि चत्वारि तथोन्नतानि
चत्वारि रक्तानि च सूक्ष्मकाणि ।
ह्रस्वानि⁶ चत्वार्य्यथ चायतानि
भूयश्च चत्वार्य्यथ नम्रकाणि⁷ ॥ १२ ॥
द्वात्रिंशत्⁸ क्रमशोऽप्याहुर्लक्षणानि मुनीश्वराः ।
तान्यहं कीर्त्तयिष्यामि वाजिनाञ्च पृथक् पृथक् ॥ १३ ॥
१ । संपरिकीर्त्तिताः । खः ।
२ । पृष्ठिवंशः । खः ।
३ । हस्तार्द्धमायतम् । खः ।
४ । साङ्गं । खः ।
५ । चतुर्विंशत् । खः ।
६ । हृस्तानि । खः ।
७ । निम्नानि । कः ।
८ । द्वात्रिंशच्च समानि । कः ।
३
१८ परिशिष्टे [६ अध्यायः ।
चास्यं भुजौ केशरुकाटिकाश्च
दीर्घं चतुष्कं तुरगस्य शस्तम् ।
तथोन्नते घ्राणपुटे ललाटे
शफाश्च तज्ज्ञाश्चरणौ वदन्ति ॥ १४ ॥
ओष्ठौ च जिह्वाप्यथ¹ तालुकञ्च
मेढ्रं सुरक्तं शुभदं हयस्य
लघूनिबन्धाश्चरणेषु कोष्ठं
श्रोत्राणि सर्वाणि तथैव पुच्छम् ॥ १५ ॥
कर्णान्तरं कर्णसमन्वितञ्च
वंशं तथा ह्रस्वतरं प्रशस्तम् ।
वक्त्रं मुखं कन्धरजानुनी च
पार्श्वञ्च सप्तेः³ शुभदं प्रदिष्टम् ॥ १६ ॥
कक्षान्तरं चोदरमध्यमञ्च
निम्ना कटी तानि⁴ सजानुकानि ।
वक्षःशफोरूजघन⁵स्थलञ्च
चतुष्कमेतत् पृथुलं प्रदिष्टम्⁶ ॥ १७ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते सर्वावयवप्रमाणो
नाम षष्ठोऽध्यायः ॥
१। रसज्ञावद्य । खः । ४। तालु । कः ।
२। प्रदिष्टम् । खः । ५। शफैर्वाजिघटा । खः ।
३। सव्यै । कः । ६। समस्तम् । कः ।
[ १६ ]
अथ सप्तमोऽध्यायः ।
वेगः ।
गुणानामिह सर्व्वेषां गुणो वेगमयोऽधिकः।
अश्वानां शस्यते तज्ज्ञैरश्वज्ञानविचक्षणैः ॥ १ ॥
संवाहनविधानेन प्रकाशं यान्त्यसंशयम् ।
तस्मात् सर्व्वप्रयत्नेन वेगो ज्ञेयश्च वाजिनाम् ॥ २ ॥
अवाहिता विनश्यन्ति विनश्यन्त्यतिवाहिताः ।
अश्वानां वाहनं पथ्यं सानुरागञ्च मोक्षणम् ॥ ३ ॥
अधमा मध्यमास्ते स्युर्मध्यमाश्च तथोत्तमाः ।
उत्तमाश्चोत्तमा भूयो वाह्यमानास्तुरङ्गमाः ॥ ४ ॥
रूढमश्वविदां श्रेष्ठं रूढे सर्व्वं प्रतिष्ठितम् ।
रूढेन तु विहीनस्य लक्षणं चाप्यलक्षणम् ॥ ५ ॥
रूपावर्त्तगतिच्छायासत्ववर्णवयोबलम् ।
जवहीनस्य वाहस्य सर्व्वमेव निरर्थकम् ॥ ६ ॥
गतेर्धन्यतरो वर्णो वर्णाद्धन्यतरः खरः ।
खराद्धन्यतरं सत्वं सर्व्वं सत्वे प्रतिष्ठितम् ॥ ७ ॥
लघुत्वं मातृदोषेण पितृदोषेण जाद्यता ।
दौर्बल्यं स्वामिदोषेण स्वदोषो नास्ति वाजिनाम् ॥८॥
जवो हि सप्तेः प्रथमं विभूषणं
त्रपाङ्गनायाः कृशता तपस्विनः ।
२० परिशिष्टे [७ अध्यायः ।
द्विजस्य वेदोऽथ मुनेरपि क्षमा
पराक्रमः शस्त्रवलोपजीविनः ॥ ६ ॥
आकर्षन्निव गां वभन्निव खुरै पश्चाद्धर्मुद्यन्निव
स्वीकुर्व्वन्निव खं पिबन्निव दिशो वायुं समश्नन्निव ।
साङ्गारप्रकरान् स्पृशन्निव महीं छायाममर्द्दनिव
चञ्चच्चामरवीज्यमानवदनः श्रीमान् हयो धावति ॥१० °
अलक्षितगतागतैर्मृगदृशां कटाक्षैरिव
क्षणानुनयशीतलैः प्रलयकेलिकोपैरिव ।
सुवृत्तमसृणोत्तरैर्मृगदृशामुरोजैरिव
त्वदीयतुरगैरलं धरणिचक्रमाक्रम्यते ॥ ११ ॥
येषां दीपशिखोपमानि नयनान्युद्भावितः सन्निभ
ग्रीवा क्रौञ्चनिभा विभाति च समा पादाश्च मुङ्गोपमाः ।
वेगो वायुरिवाथ वानरसमः स्यादारणप्रेङ्गितम्
शङ्खक्रौञ्चमृगेन्द्रदुन्दुभिघनव्याघ्रेभतुल्यस्वनः ॥१२॥
वक्त्रे यो हरिणाधिपप्रतिनिभो व्याघ्रोपमो वाहुभिः
आवर्त्तैश्चशुभैः प्रधानकुलजाः सुस्निग्धवर्णप्रभाः ।
उल्लाक्षाः प्रियदर्शनाश्च सुभगाः श्वासैः सुगन्धैश्च ये
धन्यास्ते जयराज्यवित्तसुखदाः संवाहका भूपतेः ॥१३॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते वेगवर्णनो नाम
सप्तमोऽध्यायः ।
[ २१ ]
अथाष्टमोऽध्यायः ।
❖
ह्यारोहणम् ।
अथातः संप्रवक्ष्यामि ह्यारोहणमुत्तमम् ।
येन विज्ञानमात्रेण रेवन्तेनापमीयते ॥ १ ॥
चलकिसलयपादः कर्णमध्यैकदृष्टिः
न चलति कटिदेशे आसने संस्थितश्च¹ ।
हयहृदयगतिज्ञः स्थानदण्डावपाती
स खलु तुरगयोक्ता मान्यते² पार्थिवेन्द्रैः ॥ २ ॥
यो³ नित्यं दृढमुष्टिहस्तलघुकः क्रोधानलैर्वर्जितः
सत्यैकस्थिरबुद्धिमध्यमतनुः⁴ शास्त्रस्थतत्त्वज्ञकः⁵ ।
काले दण्डनिपातविश्रमयुतः ताम्बूलवक्त्रान्वितः⁶
त्वेवं⁷ लक्षणसंयुतो हयरुहे राज्याधिपैः पूज्यते ॥ ३॥
ऊरू स्थिरौ⁸ यस्य चलौ च पादौ
चिक्कोन्नतं संहतमासनञ्च⁹ ।
१ । व्यापितोऽपि स्थितो यः । कः ।
२ । पूज्यते । कः ।
३ । दाढ्र्यं मुष्टिगतं करेण लघुता । कः ।
४ । सत्त्वैकस्थिरबुद्धिमध्यमतिः । खः ।
५ । शास्त्रार्थविज्ञांभिकः । कः ।
६ । ताम्बूलपूर्णाननः । कः ।
७ । श्रीमाल्लक्षणयुतो महाहयपरो राजाधिपैः । कः ।
८ । उरः स्थिरं । कः । ६ । संहृतमासनञ्च । कः ।
२२ परिशिष्टे [८ अध्यायः ।
स वाजिवाहः कथितः पृथिव्यां
शेषा नरा भारवहा¹ हयानाम् ॥ ४ ॥
प्राज्ञः सत्वबलोत्साही दृढः² सर्व्वाङ्गसौष्ठवः ।
जितशीतातपालस्यो जितायासो जितासनः³ ॥ ५ ॥
हयकालवलप्राणजवकामाध्वयोगवित्⁴ ।
शान्तोपचारसारज्ञो रणक्रीड़ासु दीक्षितः ॥ ६ ॥
वाजिनां हृदयज्ञश्च स्थाने दण्डनिपातवित् ।
दुष्टाश्वदमने दक्षः सर्व्वक्लेशसहः शुचिः ॥ ७ ॥
ग्रासौषधान्नपानीये परव्यूहावलोकने ।
चिषु श्रेष्ठः⁵ प्रवेशे च निर्गमे कुशलोऽस्त्रवित् ॥ ८ ॥
रोगं विकुरुते यश्च रुच्या बाधाविचारवित् ।
धनुःकुन्तासिशक्तिज्ञः सोऽश्ववाहः प्रकीर्त्तितः ॥ ९ ॥
वक्त्रे स्कन्धे मुखे कोष्ठे गात्रे सक्थौ च ताड़येत् ।
उन्मार्गी यदि भ्रष्टोऽश्वो मूढः स्खलति हेषते ॥ १० ॥
कुपिते⁶ पुच्छसंस्थाने श्रान्ते जानुद्वयं तथा ।
१ । भारकराः । कः ।
२ । दृढसर्व्वाङ्गसौष्ठवः । कः ।
३ । जितनिद्रो जितान्नः । कः ।
४ । हयकामाध्वयोगवित् । कः ।
५ । स्थानप्रदेशेषु । कः ।
६ । हेषते अन्यसंस्थानम् । कः ।
" (masculine दण्ड doesn't take तच्च; it would be तं च or तञ्च). "तत्र दण्डं प्रदापयेत्" makes perfect grammatical sense: "there/then one should apply the stick"!
And what about the first word? "गात्रं" or "गात्रे"? "प्रस्खलिते गात्रे" - locative absolute! "When a limb suddenly stumbles, there (तत्र) one should apply the stick"!
Wait, look at the top of 'त्र' in 'गात्रे': is there an e-matra that got broken or is it an anusvara?
Wait, look at the dot above 'त्र': it is round, like an anusvara. But wait, why would someone transcribe it as गाचं or गात्रं?
Let's look at user's prompt: provide pure clean transcription of the page.
If the font has 'त्र', let's transcribe 'गात्रं' or 'गात्रे'?
Wait, let's look at the dot above:
Is it a dot or a smudge?
Wait, look at 'गाचं' vs 'गात्रं':
Look at the character after 'गा': it has a vertical line, and to the left... wait, look at 'च' in 'तच्च' vs 'तत्र':
Wait, look at 'तच्च': wait, is that a 'च' with 'च' subscript?
Look at 'तच्च' in L12:
त, then a letter.
२४ परिशिष्टे [६ अध्यायः ।
कुलशीलवलो'पेतः कथमश्वो न धावति ॥ १९ ॥
गतिरेका द्रुता चान्या२ चतुराख्या तृतीयका३।
वेगसन्धिञ्चतुर्थी च४ धारावेगगतिस्तथा ॥ २० ॥
श्लथरागार्य्यवेषस्य५ चञ्चलस्य चिकोणतः।
नित्यमुद्यतदण्डस्य तस्य वाजी न धावति ॥ २१ ॥
धारा तु पञ्चमी प्रोक्ता न शृणोति न पश्यति ।
सर्व्वकर्म्मक्षमो वाजी तस्मात्तां परिवर्जयेत् ॥ २२ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते आरोहणाध्यायः॥
अथ नवमोऽध्यायः ।
ऋतुचर्य्या ।
कर्म्मचर्य्यासु६ नित्यानां शुद्धान्नं सुनिवर्हितम् ।
धनुरष्टादशे योज्यं वाजिनां मण्डलं क्रमात्७ ॥ १ ॥
सङ्कोचयेज्जयं तावद् यावत् कार्मुकपञ्चकम् ।
तदूर्द्धं मण्डलैर्योज्यो गोमूत्रात्तदनन्तरम् ॥ २ ॥
१ । वयः । कः ।
२ । चास्य । कः ।
३ । द्वितीयका । कः ।
४ । तृतीया च धारा वेगवतीतरा । कः ।
५ । बन्धस्य चपलस्य चिकोन्नतः । कः ।
६ । ऋतुचर्य्यासुनिष्पन्नं सादिना सुनिवर्हितम् । खः ।
७ । मण्डलेन तु । खः ।
६ अध्यायः ।] वाहनविवरणम् । २५
ऋजुवृत्तानुकृत्ता¹ च गोमूत्रा सर्व्वकर्म्मसु ।
युज्यमानानि दृश्यन्ते प्रायशोहि विचक्षणैः ॥ ३ ॥
शालिहोत्रमुनिप्रोक्ता चर्य्या षोड़श वाजिनाम् ।
तासामनुपयोगित्वान्न कृतः संग्रहो मया ॥ ४ ॥
तीक्ष्णास्त्वेकेन मुदितो द्वाभ्यां भद्रस्तु धावति ।
त्रिभिर्दण्डैस्तदा मन्दः क्रमात् षष्ठाभिताड़नैः ॥ ५ ॥
तीक्ष्णाश्वभद्रमन्दानां प्रधानो जव उच्यते ।
सोऽप्यनेनैव मार्गेण संविभज्यो विजानता ॥ ६ ॥
आवाहिता विनश्यन्ति सर्व्वकर्म्मक्षमा हयाः ।
कृशा व्याधिपरीताङ्गा जायन्तेऽत्यन्तवाहनात् ॥ ७ ॥
बलं कोष्ठो वयो भूमिः कालः सत्वमतः क्रमात् ।
कुर्य्यादेकान्तरे योगञ्चातियोगोहि दोषवान् ॥ ८ ॥
तच्च लोकप्रसिद्धं हि बोद्धव्यं यत्नतो बुधैः ।
हयवाहनवैज्ञानी नरेन्द्रैः पूज्यते सदा ॥ ६ ॥
धाविते ये गुणाः सर्व्वे वक्ष्यमाणान्निबोध तान् ।
शालिहोत्रादिशास्त्राणां व्यायामफलसम्भवान् ॥ १० ॥
स्थिरमांसो भारसहो लघुगात्रः पराक्रमी ।
दीप्ताग्निश्च सुशीलश्च व्यायामेनोपजायते ॥ ११ ॥
सत्यागो विनयी प्रीतो निर्दोषस्तापवर्जितः ।
१ । ऋजुवृत्ता सुवृत्ता । कः ।
4
२६ परिशिष्टे [६ अध्यायः।
वेदवित्सादिचित्तज्ञ उक्तो धावति तिष्ठति ॥ १२ ॥
सुभावर्त्तगतिच्छायावलशीलसमन्वितम् ।
गन्धवर्णस्वरोत्कण्ठसारपुण्ड्रविभूषितम् ॥ १३ ॥
एवं विधं समारुह्य देवतांशं हयं नृपः ।
जित्वा रिपुकुलं भुंक्ते निःशङ्कोऽथ वसुन्धराम् ॥ १४ ॥
जवः श्रेष्ठस्तुरङ्गानामुत्तमाधममध्यमः ।
त्रिविधोऽपि तथा भिन्नो जवभेदः स उच्यते ॥ १५ ॥
यवौदरैरष्टसङ्ख्यैरङ्गुलं परिकीर्त्तितम् ।
हस्तश्च तैश्चतुर्विंशैः कार्मुकं तैश्चतुर्गुणैः ॥ १६ ॥
अक्ष्णोर्निमेषणैः काष्ठा अष्टलघ्वक्षरं तथा ।
मात्रा ज्ञेया प्रमाणैश्च पूर्व्वप्रोक्ता तपोधनैः ॥ १७ ॥
मात्राषोडशकेनाश्वो यो धावति धनुःशतम् ।
तमश्वमुत्तमं विद्याद्वायुवेगं महाजवम् ॥ १८ ॥
यथोक्तमजवा वाहास्तथाश्वा मध्यमाधमाः ।
चतुरस्त्यधिकां वृद्धिं मात्राणां लक्षणं बुधाः ॥ १९ ॥
नभस्यश्वयुजे मासि भाराध्वानं जवं त्यजेत् ।
वज्राग्निसदृशं पित्तं श्रमात् कुप्यत्ति वाजिनाम् ॥ २० ॥
कार्य्येणैव महान् किञ्चिद् युज्यो नभसि कार्त्तिके ।
हेमन्ते शिशिरे योगं वसन्ते च यथेच्छया ॥ २१ ॥
श्लेष्मक्षयात् क्षयं गाचं न ग्रीष्मे वाहयेद्धयम् ।
६ अध्यायः ।] वाहनविवरणम् । २७
बालो वृद्धः कृशो रोगी दन्तस्नेहो महाबली ॥ २२ ॥
पूर्णातिरिक्तकोष्ठञ्च गुव्विणीं न च वाहयेत् ।
समां च विपुलाञ्चैव किञ्चित्-पांशुसमन्विताम् ॥ २३ ॥
एकान्ते विजने चैव रङ्गभूमिं हयं नयेत् ।
सान्द्राञ्चैव सुकठिनां पाषाणोदकगर्त्तकाम् ॥ २४ ॥
तृणकाष्ठसमायुक्तां रङ्गभूमिं विवर्ज्जयेत् ।
विण्मूत्रं कारयेदश्वं क्रोशक्रोशद्वयान्तरे ॥ २५ ॥
वारि दद्याद् यथाकामं घासं मुष्टिञ्च चारयेत् ।
अन्यथा दोषजातानि वक्ष्याम्येतानि तावतः ॥ २६ ॥
गुरुविस्रस्तगात्रश्च छिन्नश्वासो च कम्पते ।
दुर्मना रुद्धविण्मूत्रः सर्व्वकर्म्माक्षमो हयः ॥ २७ ॥
गूढमेढ्रोन्नतग्रीवो रक्तमेही गुरुक्लमः ।
क्षुत्तृष्णार्त्तशुष्कास्यश्छायां प्राप्य वितिष्ठति ॥ २८ ॥
तर्जनैर्हन्यमानोऽपि विधुनोति शिरः परम् ।
मुहुर्विनमते पृष्ठं पदमेकं न गच्छति ॥ २९ ॥
भाराध्वानपरिश्रान्तं शनैः संक्रामयेत् पथि ।
नावतारितपर्य्याणं मार्गेऽध्वानसमागतम् ॥ ३० ॥
मुक्तपुच्छाग्रबन्धस्य खलीनं नावतारयेत् ।
मर्द्दयित्वास्य गात्राणि पांशुमध्ये विवर्त्तयेत् ॥ ३१ ॥
स्नानपानावगाहञ्च प्रतिपानं सभोजनम् ।