सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 456, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 456

[ १० ]
अथ चतुर्थोऽध्यायः ॥
आवर्त्ताः ।
आवर्त्ता विंशतिः प्रोक्ताः शालिहोत्रेणमहात्मना ।
गात्रस्थानविभागेन तेषां व्यक्तिर्मयोच्यते ॥ १ ॥
ललाटे मस्तके चैव ग्रीवायां हृदये तथा ।
पादे पृष्ठे मणीबन्धे नाभिदेशे विशेषतः ॥ २ ॥
स्कन्धे पार्श्वे गले वक्त्रे कुक्षौ रंध्रे षिके तथा ।
आद्यास्त्रयोदशावर्त्ता१ विज्ञेया वाजिपण्डितैः ॥ ३ ॥
नासिकाग्रे ललाटाग्रे शङ्खे कण्ठे च मस्तके ।
आवर्त्तो जायते येषां ते धन्यास्तुरगोत्तमाः ॥ ४ ॥
हृदि स्कन्धे गले चैव कटिदेशे तथैव च ।
नाभौ कुक्षौ च पार्श्वार्ङ्गे मध्यमास्ते प्रकीर्त्तिताः ॥ ५ ॥
ललाटे यस्य चावर्त्तो द्वितीयस्य स लिङ्गकः ।
मस्तके च तृतीयश्च पूर्णकुक्षिः स उत्तमः ॥ ६ ॥
पृष्ठवंशे तथावर्त्तो यस्यैकः संप्रजायते ।
स करोत्यश्वसंघातान् स्वामिनः सूर्य्यसंज्ञकः ॥ ७ ॥
कक्षायां जानुमेढ्रे च चिवलौ पुच्छसन्निधौ ।
पुच्छे गुह्ये चलावष्टावावर्त्ता अधमा इये ॥ ८ ॥
१ । ललाटाये । खः ।
२ । आयन्ता द्वादशावर्त्ताः । खः ।