अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 464, कुल 522 में से
संदर्भ में पढ़ें१८ परिशिष्टे [६ अध्यायः ।
चास्यं भुजौ केशरुकाटिकाश्च
दीर्घं चतुष्कं तुरगस्य शस्तम् ।
तथोन्नते घ्राणपुटे ललाटे
शफाश्च तज्ज्ञाश्चरणौ वदन्ति ॥ १४ ॥
ओष्ठौ च जिह्वाप्यथ¹ तालुकञ्च
मेढ्रं सुरक्तं शुभदं हयस्य
लघूनिबन्धाश्चरणेषु कोष्ठं
श्रोत्राणि सर्वाणि तथैव पुच्छम् ॥ १५ ॥
कर्णान्तरं कर्णसमन्वितञ्च
वंशं तथा ह्रस्वतरं प्रशस्तम् ।
वक्त्रं मुखं कन्धरजानुनी च
पार्श्वञ्च सप्तेः³ शुभदं प्रदिष्टम् ॥ १६ ॥
कक्षान्तरं चोदरमध्यमञ्च
निम्ना कटी तानि⁴ सजानुकानि ।
वक्षःशफोरूजघन⁵स्थलञ्च
चतुष्कमेतत् पृथुलं प्रदिष्टम्⁶ ॥ १७ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते सर्वावयवप्रमाणो
नाम षष्ठोऽध्यायः ॥
१। रसज्ञावद्य । खः । ४। तालु । कः ।
२। प्रदिष्टम् । खः । ५। शफैर्वाजिघटा । खः ।
३। सव्यै । कः । ६। समस्तम् । कः ।