अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 457, कुल 522 में से
संदर्भ में पढ़ें४ अध्यायः।] आवर्त्तकथनम् । ११
त्रयो यस्य ललाटस्था आवर्त्ता अधरोत्तराः ।
त्रिकूटः स परिज्ञेयो वाजिवृद्धिकरः परः ॥ ९ ॥
एवमेव प्रकारेण त्रयो ग्रीवां समाश्रिताः ।
त्रयावर्त्तः१ स वाजीशो जायते भूपमन्दिरे ॥ १० ॥
ललाटे युगलावर्त्तौ चन्द्रार्कौ संप्रकीर्त्तितौ ।
वाजिनो यदि२ तौ स्यातां राष्ट्रवृद्धिकरौ परौ ॥ ११ ॥
उपर्युपरि यस्य स्युरावर्त्ता अलिके त्रयः ।
निःश्रेणिः सतु विज्ञेयो राष्ट्रवृद्धिकरः परः ॥ १२ ॥
एकोऽथवा कपोलस्थो यस्यावर्त्तः प्रदृश्यते ।
वर्त्तमानः३ स विज्ञेयः स दुच्छेदस्वामिनाशनम् ॥ १३ ॥
कपोलाभ्यान्तथावर्त्तौ विद्येते४ वाजिनो यदि ।
तावश्विनाविति प्रोक्तौ युद्धकाले जयप्रदौ ॥ १४ ॥
गण्डावर्त्ती५ भवेद्यस्य वाजिनो दक्षिणाश्रयः ।
स करोति महासौख्यं स्वामिनः शिवसंज्ञकः ॥ १५ ॥
तद्वद्वामाश्रयः क्रूरः प्रकरोति धनक्षयम् ।
इन्द्वर्काख्या६वुभौ शस्तौ नृपराज्यविवृद्धिदौ ॥ १६ ॥
१ । यस्यावर्त्तः । खः ।
२ । यस्य । खः ।
३ । रथिनामन्त्रनिष्ठानां स दुष्टः स्वामिनाशने ।
४ । कपोलाभ्यन्तरावर्त्तौ विद्येते । खः ।
५ । गजावर्त्तः । खः ।
६ । इन्द्रकाख्यौ । खः ।