सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 466, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 466

२० परिशिष्टे [७ अध्यायः ।
द्विजस्य वेदोऽथ मुनेरपि क्षमा
पराक्रमः शस्त्रवलोपजीविनः ॥ ६ ॥
आकर्षन्निव गां वभन्निव खुरै पश्चाद्धर्मुद्यन्निव
स्वीकुर्व्वन्निव खं पिबन्निव दिशो वायुं समश्नन्निव ।
साङ्गारप्रकरान् स्पृशन्निव महीं छायाममर्द्दनिव
चञ्चच्चामरवीज्यमानवदनः श्रीमान् हयो धावति ॥१० °
अलक्षितगतागतैर्मृगदृशां कटाक्षैरिव
क्षणानुनयशीतलैः प्रलयकेलिकोपैरिव ।
सुवृत्तमसृणोत्तरैर्मृगदृशामुरोजैरिव
त्वदीयतुरगैरलं धरणिचक्रमाक्रम्यते ॥ ११ ॥
येषां दीपशिखोपमानि नयनान्युद्भावितः सन्निभ
ग्रीवा क्रौञ्चनिभा विभाति च समा पादाश्च मुङ्गोपमाः ।
वेगो वायुरिवाथ वानरसमः स्यादारणप्रेङ्गितम्
शङ्खक्रौञ्चमृगेन्द्रदुन्दुभिघनव्याघ्रेभतुल्यस्वनः ॥१२॥
वक्त्रे यो हरिणाधिपप्रतिनिभो व्याघ्रोपमो वाहुभिः
आवर्त्तैश्चशुभैः प्रधानकुलजाः सुस्निग्धवर्णप्रभाः ।
उल्लाक्षाः प्रियदर्शनाश्च सुभगाः श्वासैः सुगन्धैश्च ये
धन्यास्ते जयराज्यवित्तसुखदाः संवाहका भूपतेः ॥१३॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते वेगवर्णनो नाम
सप्तमोऽध्यायः ।