अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 470, कुल 522 में से
संदर्भ में पढ़ें२४ परिशिष्टे [६ अध्यायः ।
कुलशीलवलो'पेतः कथमश्वो न धावति ॥ १९ ॥
गतिरेका द्रुता चान्या२ चतुराख्या तृतीयका३।
वेगसन्धिञ्चतुर्थी च४ धारावेगगतिस्तथा ॥ २० ॥
श्लथरागार्य्यवेषस्य५ चञ्चलस्य चिकोणतः।
नित्यमुद्यतदण्डस्य तस्य वाजी न धावति ॥ २१ ॥
धारा तु पञ्चमी प्रोक्ता न शृणोति न पश्यति ।
सर्व्वकर्म्मक्षमो वाजी तस्मात्तां परिवर्जयेत् ॥ २२ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते आरोहणाध्यायः॥
अथ नवमोऽध्यायः ।
ऋतुचर्य्या ।
कर्म्मचर्य्यासु६ नित्यानां शुद्धान्नं सुनिवर्हितम् ।
धनुरष्टादशे योज्यं वाजिनां मण्डलं क्रमात्७ ॥ १ ॥
सङ्कोचयेज्जयं तावद् यावत् कार्मुकपञ्चकम् ।
तदूर्द्धं मण्डलैर्योज्यो गोमूत्रात्तदनन्तरम् ॥ २ ॥
१ । वयः । कः ।
२ । चास्य । कः ।
३ । द्वितीयका । कः ।
४ । तृतीया च धारा वेगवतीतरा । कः ।
५ । बन्धस्य चपलस्य चिकोन्नतः । कः ।
६ । ऋतुचर्य्यासुनिष्पन्नं सादिना सुनिवर्हितम् । खः ।
७ । मण्डलेन तु । खः ।