अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
२८ परिशिष्टे [६ अध्यायः।
सर्व्वं क्रमेण कर्त्तव्यमन्यथा दोषसम्भवः ॥ ३२ ॥
रक्तपित्तसमीरोत्थमन्यास्तम्भोदरादयः ।
हृद्रोगा वातशूलानि शीतोष्णोदकपानतः ॥ ३३ ॥
रक्तपित्तहरं देयं प्रतिपानं गुड़ौदनम् ।
रक्तपित्तसमीरोत्थं दातव्यं शर्करोदकम् ॥ ३४ ॥
जीवनं वातपित्तघ्नं वृष्यं बल्यतमं ततः ।
सर्व्वरोगहरोऽश्वानां मधु जाङ्गलको रसः ॥ ३५ ॥
स्वच्छाक्तञ्च घृतं क्षीरं वारियुक्तं तुरङ्गमः ।
पीत्वा हि निर्हरेद्दोषान् श्रमभाराध्वसंश्रवान् ॥ ३६ ॥
धर्म्मार्थकामाविजयो यशःश्री-
शोभासुखं जातिजनैश्च पूज्या ।
रणे निमित्तानि शुभावहानि
नृपस्य चैवं विनिवेदयन्ति ॥ ३७ ॥
प्रत्यूषकाले च दिनं निरीक्ष्य
वह्निं द्विजं पूर्णघटं कुमारीम् ।
छत्रं ध्वजं चामरदर्पणञ्च
हृष्टञ्च दृष्ट्वा तुरगं जयाय ॥ ३ ॥
श्रुत्वा तु शङ्खाम्बुदवेदवाक्यं
पुण्याहमाङ्गल्यशिवस्य गीतम् ।
ह्रेषं निमित्तं भवति स्वनेन
६ अध्यायः ।] वाहनविवरणम् । २६
ध्रुवं जयं तच रणे नराणाम् ॥ ३८ ॥
सव्याङ्घ्रिघातेन महीं निहन्ति
ह्रेषन्ति ये स्वामिमुखं निरीक्ष्य ।
प्रदक्षिणावर्त्तविकीर्णऽपुच्छा
जयावहास्ते समरे नृपाणाम् ॥ ३९ ॥
विच्छन्नदीनस्वरगद्गदा ये
अश्रुप्लुता भिन्नपुरीषमूत्राः ।
अनल्पमाना दिनकृन्निरीक्ष्याः
पराजयं ते कथयन्ति युद्धे ॥ ४० ॥
अन्यापदं याच वदन्ति दीनाः
सव्येतरं चक्रविकीर्णपुच्छाः ।
युग्यासनादीन् परिवर्जयन्ते
पराजयं ते कथयन्ति भर्तुः ॥ ४१ ॥
विना निमित्तं रसन्त्यभीक्ष्णं
आकुञ्चिता व्यापितमक्षिकाङ्गाः ।
ध्यायन्ति घातैश्च न चोद्विजन्ते
भयावहास्ते समरे नृपाणाम् ॥ ४२ ॥
शोकं शीलं भयं लज्जामालस्यं चैवमादिषु ।
सुकूलं तं विजानीयादलं पर्याणवारणे ॥ ४३ ॥
स्थाणुकण्टकवृक्षैश्च सुधाखदिरकण्टकैः ।
३० परिशिष्टे [६ अध्यायः ।
स्वामिघाताय चादत्ते तेषां रूपमिदं शृणु ॥ ४४ ॥
वानरोलूकमार्जारतरक्षुगडलोचनाः ।
गतिर्वा असुरैस्तुल्या स्थूलमेढ्रशिरान्विताः ॥ ४५ ॥
लम्बोष्ठकर्णनासाश्च ह्रस्वहीनाधिकद्विजाः ।
विच्छिन्नप्रोथगण्डा ये भ्रुकुटीचिच्चमेहनाः ॥ ४६ ॥
एते दोषास्तथान्येऽपि सुकुलाश्र्वसमुद्भवाः ।
खलानामिह राजेन्द्र वक्तुं शक्या न मादृशैः ॥ ४७ ॥
लक्ष्यं प्रधानमित्येके चान्ये लक्षणमाश्रिताः ।
लक्ष्यलक्षणमेतेषां तेनेदं दुष्करं विदुः ॥ ४८ ॥
अव्याप्तिरतिसंक्षेपादतिव्याप्तिश्च विस्तरात् ।
मुनीनामेकवाक्यत्वाद् ब्रूयामः स्थितिदुष्कराः ॥ ४९ ॥
सत्ववर्णगतिच्छायास्वरस्थानगतिः कुलम् ।
पुष्यं पुण्ड्रकनामानि दोषं वा जवलक्षणम् ॥ ५० ॥
एवं लक्षणसंयुक्तं दृश्यते शूररक्षणे ।
लक्षणेन विहीना ये निर्दोषाःस्युः प्रधाविताः ॥ ५१ ॥
हयरोहस्य का चिन्ता लक्षणैः शुभनिन्दितैः ।
तेनाच न कृतोऽस्माभिर्हयलक्षणविस्तरः ॥ ५२ ॥
हयवाहनविज्ञानं कौतुकाहितबुद्धयः ।
अनायासेन गृह्णन्ति परं हृष्टा इमे जनाः ॥ ५३ ॥
चल्लासनं कषा रागाः पाणिघातप्रतोदनम् ।
१० अध्यायः।] धातुपरीक्षाविवरणम् । २१
पदप्रघातसंज्ञानि दोषो यैरुपजायते ॥ ५४ ॥
कामात् कोपाद्भयान्मोहाद्दर्पाच्चैव मदाश्रयात् ।
पर्य्याणारोहदोषाच्च दूष्यन्तेऽश्वा निसर्गतः ॥ ५५ ॥
श्रीयुक्तसामन्तनरेन्द्रवन्दितं
रणे हयारोहवराभिनन्दितम् ।
धर्म्मार्थकामादियशःप्रधान-
मित्थं कृतं वाहनशास्त्रविस्तरम् ॥ ५६ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते वाहनाध्यायो
नवमः ॥
अथ दशमोऽध्यायः ।
धातुपरीक्षा ।
अथातः संप्रवक्ष्यामि धातूनां लक्षणं परम् ।
येन विज्ञानमात्रेण ज्ञायन्ते रोगसम्भवाः ॥ १ ॥
ततः शुद्धशरीरोऽत्यन्तरक्तदोषानवाप्नुयात् ।
रक्तदोषा¹त्तदा वाजी प्राप्नोत्येव महाभयान् ॥ २ ॥
तस्मात् सर्व्वप्रयत्नेन रक्तं ज्ञेयं विचक्षणैः ।
आषाढसमये प्राप्ते शिरामोक्षेण² रुक्शमः ॥ ३ ॥
१ । दोषदूष्यात् । खः ।
२ । शिरामोक्षञ्च कारयेत् । कः ।
२२ परिशिष्टे [१० अध्यायः ।
तेन^१ संशोध्यते रक्तं वाजिनां दोषसम्भवम् ।
ततः शुद्धशरीरोऽथ पिण्डाद्यैश्च बलीकृतः^२ ॥ ४ ॥
आश्वणे शष्प^३मासाद्य वज्रवत् सुदृढो भवेत् ।
यदि^४ रक्ताधिको वाजी सस्यमश्नाति^५ कर्हिचित् ॥५॥
रक्तात् सञ्जायते पित्तं ततो^६ नाशमवाप्नुयात् ।
रक्ताधिकश्वासपुटः^७ स्नेहाद्यैः शस्यमत्ति चेत्^८ ॥ ६ ॥
संप्राप्य^९श्लेष्ममचिराद्धयो नाशमवाप्नुयात् ।
हीनरक्तो यदा शस्यं रूक्षोऽश्नाति तुरङ्गमः ॥ ७ ॥
तदा वायुं परं प्राप्य सद्यो नाशमवाप्नुयात् ।
तच्चेदं लक्षणं प्रोक्तं रक्तकोप^१०समुद्भवम् ॥ ८ ॥
धातूनामपि सर्वेषां ज्ञेयञ्चिह्नं विचक्षणैः ।
पित्तरक्तप्रकोपेण यदा संपीड्यते हयः ॥ ९ ॥
१ । तस्मात् शोधयेद्रक्तम् । खः ।
२ । घस्रैः पिण्डादिप्रबलीकृतः । खः ।
३ । वज्रम् । खः ।
४ । ततो । कः ।
५ । शस्यं नाश्नाति । कः ।
६ । पित्तात् । खः ।
७ । रक्ताधिकोऽश्वोऽथ पुष्टौ । खः ।
८ । शस्यमाचरेत् । खः ।
९ । ततः श्लेष्माणमासाद्य सोऽचिराद्नाशमाप्नुयात् । खः ।
१० । काय । कः ।
१० अध्यायः। धातुपरीक्षाविवरणम्। ३३
तदा कण्डूतिमासाद्य कषते सततं वपुः ।
छायां वाञ्छति यत्नेन विशेषेण जलाश्ययम् ॥ १० ॥
मुहुर्वाञ्छति पानीयमाहारञ्च विशेषतः ।
एवं¹ वातोत्तरक्तेन ज्ञात्वाश्वम्पीडितं ततः ॥ ११ ॥
शिरामोक्षं विधायैव दद्यात्सकटुकं गुड़म् ।
ततः शुद्धिमवाप्नोति नीरोगः संप्रपद्यते ॥ १२ ॥
पित्तासृग्दूषिते वाजी² यदि चाश्रूणि मुञ्चति ।
नेत्रान्ते पाण्डुरत्वञ्च सद्यो मृत्युमवाप्नुयात् ॥ १३ ॥
नेत्रयोर्लक्षणं प्रोक्तं पित्तरक्तसमुद्भवम् ।
श्लेष्मरक्तप्रकोपेण यदा सम्पीयते हयः ॥ १४ ॥
अधोवक्त्रो भवेन्नित्यं कासते च मुहुर्मुहुः ।
आहारं न च गृह्णाति नोत्साहं कुरुते कचित्³ ॥१५॥
न विन्दति कशाघातं⁴ न च पार्ष्णीं नचासनम् ।
नासाग्रेण क्षिपेत्तोयं वह्निघर्मञ्च ⁵वाञ्छति ॥ १६ ॥
तस्यापि शोधयित्वासृग् दद्याच्छुण्ठ्या युतं गुड़म्⁶ ।
सर्वं रक्तन्ततः शुद्धा निःशेषं⁷ समवाप्नुयात् ॥ १७ ॥
१ । एवं पित्तेन रक्तेन ज्ञात्वा संपीडितं हयम् । खः ।
२ । रक्तपित्तादितोऽश्वश्च । खः ।
३ । पथि । खः । ४ । काशाद्यं । कः ।
५ । वाञ्छते वह्निमातपम् । खः ।
६ । समन्वितम् । कः ।
७ । निःशेषाङ्गमवाप्नुयात् । खः ।
5
२४ परिशिष्टे [१० अध्यायः ।
वाजिनः श्लेष्मरक्ताभ्यां दूषितस्य सदा¹ भवेत् ।
नेत्रान्ते बिन्दुकाकारकण्डूस्तस्य तथोदरे ॥
तदा मृत्युमवाप्नोति षण्मासाभ्यन्तरे ध्रुवम् ॥ १८ ॥
शुंढ्यामृता गोक्षुरकं घनञ्च
श्यामावचाहिंगुयुताच यष्टिः ।
कफप्रणाशाय विनिर्मितोऽयं
पिण्डः प्रसिद्धश्च कफापहश्च ॥ १९ ॥
नोचेदश्नाति शुंढ्याख्यं सैन्धवन्नस्य²मार्गतः ।
वायुरक्तप्रकोपेण पीडितस्तु तुरङ्गमः ।
कुक्षिद्वये ह्य³स्तीव्रं मुहुः श्वासं प्रमुञ्चति ॥ २० ॥
नैकत्र मन्यते⁴ स्थातुं ह्रेषते च निरर्गलम् ।
एवं वातोद्भवं ज्ञाप्यं⁵ रक्तन्देहे हयस्य च ॥ २१ ॥
शोधयित्वाथ सन्द्यान्महाघृतमनल्पकम् ।
ततः शुद्धिंमवाप्नोति परां पुष्टिश्च गच्छति ॥ २२ ॥
उत्साहं कुरुते मार्गे सर्वदोषविवर्जितः ।
वातरक्तप्रकोपेण लोचनान्ते हयस्य च ॥ २३ ॥
यदा स्यातां सिते रक्ते काशः कण्डूस्तथानने ।
तदा तस्य भवेन्मृत्युर्यदि नाश्नाति चामिषम् ॥ २४ ॥
१ । यदा । खः । ४ । रमते । खः ।
२ । तस्य मार्गते । कः । ५ । ज्ञात्वा । खः ।
३ । कुक्षिद्वयग्रहः । खः ।
१० अध्यायः।] धातुपरीक्षाविवरणम् । ३५
असकञ्च¹ युतन्द्रा माहिषेण निशागमे ।
सन्निपातेऽथ² रक्तेन यदा संपीड़यते हयः ॥ २५ ॥
यदा³ वेपथुमाप्नोति काशते च निरर्गलम् ।
निद्रालस्याग्निमन्दत्वं वस्तौ मलनिबन्धनम्⁴ ॥ २६ ॥
कर्णयोः पातनञ्चैव वक्त्रा⁵ल्लालाविमोक्षणम् ।
तचापि शोधयेद्रक्तं ततो लङ्घनमर्हति ॥ २७ ॥
यावद्दोषस्य निर्णाशं स्तोकोदककृताशनः ।
क्वचिदुष्णं क्वचिच्छीतं क्वचिद्भेषजसंयुतम् ॥ २८ ॥
प्रदेयं युक्तितत्वज्ञै⁶र्वारि वार्य्यं न कुत्रचित् ।
सपथ्या⁷ चामृता चैव कटुकाच वचा तथा ॥ २९ ॥
शामयेत्तत्क्षणादेव त्रिधातुकुपितं ज्वरम् ।
शिरीषं श्रीफलञ्चैव वेतसञ्चैव शुद्धिभाक् ॥ ३० ॥
मन्दाग्नित्वं सदोषाणां कुरुते भस्मसाद्द्भुतम् ।
मधुकं मधुजालञ्च माधुर्यं कुलिकान्वितम् ॥ ३१ ॥
१ । उरभ्रकं । खः ।
२ । सन्निपातेन रक्तेन । खः ।
३ । तदा । खः ।
४ । ततो मलविशोधनम् । कः ।
५ । वक्त्रे । कः ।
६ । यत्नतस्तत्त्वज्ञैः । खः ।
७ । सपर्पटामृता । खः ।
८ । मधुरं मधुनालञ्च माधुर्यं शुलिकान्वितम् । खः ।
२६ परिशिष्टे [१० अध्यायः।
शिरीषं क्षुद्रकं लाक्षां क्वाथयित्वा^१ त्रिभागतः ।
यस्यैतत्संनिपाताय वाजिनः संप्रदीयते ॥ ३२ ॥
तस्य तन्नाशमायाति तमः सूर्योदये यथा ।
स्वस्थस्यापि हि नेत्रान्ते स्यातां नीले च वाजिनः॥३३॥
गन्धश्च सहशः श्लोण्या तदा मृत्युर्द्विमासिकः ।
नीले पीतेऽथ नेत्रान्ते स्यातां चेद्वाजिनः क्वचित्^२।
स निर्वाणमवाप्नोति त्रिभिर्मासैरसंशयम् ॥ ३४ ॥
यस्य नेत्रान्तरे रेखा बहुवर्णा प्रजायते ।
विशेषात् स्वरभेदः स्यात्तस्यायुः पाञ्चमासिकम् ॥ ३५ ॥
जिह्वायां जायते बिन्दुरकस्माद् यस्य वाजिनः ।
रूक्षश्च जीवते मासं स वाजी नात्र संशयः ॥ ३६ ॥
पीतो मासद्वयेनैव समेर्मृत्युं प्रयच्छति ।
त्रिभिर्मासैस्तथारक्तश्चतुर्भिञ्च विचिचितः ॥ ३७ ॥
पञ्चभिर्नीलवर्णश्च षड्भिर्वज्रसमाकृतिः^३।
सप्तभिः पाटलाकारश्चम्पकाभस्तथाष्टभिः ॥ ३८॥
नवभिश्च हरिद्राभो दशभिर्जन्तुकोपमः^४ ।
१ । लाक्षाक्वाथं पीत्वा । खः ।
२ । नीलपीतेऽथ नेत्राणां स्याताञ्चेद्राजिनः क्वचित् । कः ।
३ । वज्रसमप्रभः । कः ।
४ । पुंखकोपमः । कः ।
पुलान्वितम्`.
Line 4:
जिह्वा हिमकराकारा³ मासषट्कं स जीवति ॥ ४० ॥
Line 5:
ग्रीवाग्रे पिण्डिका यस्य जायते च तथाधरे ।
Line 6:
मूत्रं करोति रक्ताख्यं मासषट्कं स जीवति ॥ ४१ ॥
Line 7:
वर्णः श्वेतो यदा यस्य नेत्रयोश्च प्रजायते ।
Line 8:
दशमासान् समासाद्य पित्तार्त्तो न स जीवति⁴ ॥ ४२ ॥
Line 9:
यस्य नीलप्रभे स्यातां नेत्रे वातार्दितस्य तु ।
Line 10:
मासत्रयञ्च कृच्छ्रेण यः सप्तिः स न जीवति ॥ ४३ ॥
Wait, check: मासत्रयञ्च - yes, 'य' with 'ञ्च'.
कृच्छ्रेण यः सप्तिः स न जीवति ॥ ४३ ॥ - 'सप्तिः' means horse (ashva)!
This is an Ashva-shastra text (Asva-vaidyaka / Asva-chikitsa / Shalihotra)! That's why footnote 4 says: "वाजिनः पित्ततप्तस्य दशमासं स जीवति । कः ।" (वाजिनः = of the horse)!
Fascinating, Ashva-ayurveda /
३८ परिशिष्टे [११ अध्यायः।
यस्य पित्तप्रसङ्गस्य काले नीरदवर्त्तिनि ।
हयस्य जीवितं तावद्दिनानि दश पञ्च च ॥ ४८ ॥
एवं रक्तविकाराणां ज्ञात्वा धातुं तुरङ्गमे ॥
ततः प्रतिक्रिया कार्य्या उक्ता या कीर्त्तिता परा ॥ ४९ ॥
भयादपीतपानीयशीतविश्रीयुतस्य च ।
आर्त्तोपि ताड़ितोऽत्यर्थं तिर्यग्विद्धो यदापिवा ॥ ५० ॥
श्रमाद्धराच्च बन्धाद्वा गात्रे वा विषमस्थिते ।
क्षीणशोणितमांसस्य शिरावेधः प्रशस्यते ॥ ५१ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते धातुपरीक्षाध्यायो
दशमः ॥
अथैकादशोऽध्यायः ॥
ऋतुचर्य्या ।
द्वासप्ततिसहस्राणि नाड़ीनां हि भवन्ति च ।
वाजिनामिह सर्व्वेषां वायुरक्तं व्यवस्थितम् ॥ १ ॥
तासां निर्मोचनार्थाय द्वाराण्यष्टौ वदाम्यहम् ।
यैर्याति कुत्सितं रक्तं सर्व्वदेहसमुद्भवम् ॥ २ ॥
कण्ठे वक्षसि तालौ च नासयोश्च मुखे तथा ।
अण्डयोरथ पादेषु पादयोरुभयोरपि ॥ ३ ॥
कालं बलञ्च विज्ञाय वाजिनां भिषगुत्तमः ।
शिरामोक्षं प्रकुर्वीत स्थानेष्वेतेषु पण्डितः ॥ ४ ॥
११ अध्यायः।] ऋतुचर्य्याविवरणम् । ३६
अन्ये सप्तदश प्राहुः शिराद्वाराणि वाजिनः ।
विकारयुक्तं यद्रक्तं सुखल्पमपि वर्जयेत् ॥ ५ ॥
एवं शरदि यः सम्यक् पुष्टिं नयति वाजिनाम्$^१$ ।
तस्य यद्वाञ्छितं किञ्चिद्यानार्थं$^२$ तच्च सिध्यति ॥ ६ ॥
ततो हेमन्तमासाद्य निवाते निबधेद्धयम्$^३$ ।
मासोत्थं यवसन्द्यात् पानीयञ्च यथेच्छया ॥ ७ ॥
घृतं वा यदि वा तैलं पाने दद्याद्विचक्षणः ।
वाहयेच्च$^४$ शनैर्नित्यं सर्व्वदोषप्रशान्तये ॥ ८ ॥
ततः शिशिरमासाद्य दद्यात्तैलं हि वाजिनाम् ।
पलाष्टकप्रमाणेन यावद्दिनचिसप्तकम्$^५$ ॥ ६ ॥
यवोद्भवं यवसन्द्या$^६$देकविंशत्यहानि च ।
यवाभावेऽथ चणकान् दद्यादार्द्र$^७$त्तरान् सदा ॥ १० ॥
तदभावे मसूरांश्च शुष्कार्द्रांस्तैलसंयुतान् ।
यवसं चापि तद्ध्येयं$^८$ नीरोगो जायते हयः ॥ ११ ॥
१। वाजिनः । कः ।
२। नानार्थं तत्प्रसिध्यति । कः ।
३। ह्यश्चं निबन्धयेत् । कः ।
४। वाह्यश्च । कः ।
५। भवेद्यावद्दिसप्तकम् । कः ।
६। पञ्चाद्द्याद्विंशत्यहानि च । कः ।
७। आर्द्रीन् वरान् । कः ।
८। यत्प्रोक्तं प्रविष्ये तदहं यदा । कः ।
४० परिशिष्टे [११ अध्यायः।
औषधानाञ्च सर्व्वेषां क्वाथानां१ नस्यकर्म्मणाम् ।
तैलानाञ्च घृतानाञ्च यवस्य यवसं परम् ॥ १२ ॥
पर्व्वतानां यथा मेरुरायुधानाञ्च वज्रकम् ।
तथा सर्व्वोपचाराणां समेः श्रेष्ठतमा२ यवाः ॥ १३ ॥
देवतानां यथा विष्णुर्ब्रह्मा वेदविदां वरः ।
नदीनाञ्च यथा गङ्गा तथा श्रेष्ठा यवा हये ॥ १४ ॥
यथोदितः सहस्रांशुर्निःशेषं तिमिरं जयेत् ।
तथा शरीरजान् दोषान्३ यवाः समेर्हरन्ति च ॥ १५ ॥
उपचारक्रियाः सर्व्वाः पञ्चर्त्तुजनिता हये ।
कृताः स्युर्यवभोज्येन समेस्तस्य कृता नरैः४ ॥ १६ ॥
यस्य दत्ता यवा भोज्ये शिशिरे समुपस्थिते ।
अकृतापि५ कृता सर्व्वा पञ्चर्त्तुजनिता हये ॥ १७ ॥
कृताः स्युर्यवभोज्येन समेस्तस्य कृता नरैः ।
नीरोगास्तुरगाः सर्व्वे शालिहोत्रमतं यथा ॥ १८ ॥
पञ्चर्त्तुजनिता वाथ६ क्रिया न्यस्ता तुरङ्गमे ।
अतीतास्ते विजानीयाद्यवभोज्यविवर्जिताः ॥ १९ ॥
१ । काथ्यतां । कः ।
२ । अष्ठोत्तमाः । खः ।
३ । सर्व्वान् । कः ।
४ । कृताः सर्व्वेण भोजेन समेस्तु सकृताय वै । कः ।
५ । क्रिया अपि कृताः सर्व्वाः । कः ।
६ । र्यथा । कः ।
११ अध्यायः।] ऋतुचर्य्याविवरणम् । ४१
एवं रक्तविशुद्धानां कृत्वा यत्नेन वाजिनाम् ।
दद्याङ्गोमूत्रसंयुक्तां सतैलां च हरीतकीम् ॥ २० ॥
दिनं त्रिसप्तकं यावत् पलपञ्चप्रमाणतः ।
ततः शुद्धिमवाप्नोति निःशेषाद्रुधिरोद्गमात् ॥ २१ ॥
ततो नवतृणाहारं संप्राप्य सुमनोहरम् ।
परां पुष्टिमवाप्नोति नीरोगश्च प्रजायते ॥ २२ ॥
न प्रायोवाहयेदश्वं प्रावृट्काले कथञ्चन ।
य इच्छेद्वाजिनस्तस्य वाहनं दशमासिकम् ॥ २३ ॥
कूपोदकं सदा शस्तं पानाय जलदागमे ।
अभ्यङ्गः कटुतैलेन निर्वातस्थानबन्धनम् ॥ २४ ॥
एकाहान्तरितं दद्याल्लवणञ्च विचक्षणः ।
पलद्वयप्रमाणेन मुखजापरिशुद्धये ॥ २५ ॥
मुखरोगमवाप्नोति क्षारस्वादविवर्जितः ।
वृष्ट्यम्भोभिस्तु सिक्ताङ्गस्तेजसा त्यजते हयः ॥ २६ ॥
अशुद्धोदकजान् प्राप्तान् प्राप्नोति शतशः परान् ।
नवोदकप्रधानेन बलहीनश्च जायते ॥ २७ ॥
तस्मात् सर्व्वप्रयत्नेन प्रावृट्काल उपस्थिते ।
अनेन विधिना प्राज्ञो वाजिनः परिपोषयेत् ॥ २८ ॥
ततः शरदमासाद्य बहुखण्डसमन्वितम् ।
शस्तं क्षारोदनं सप्तपलाष्टपरिसंख्यया ॥ २६ ॥
६
४० परिशिष्टे [११ अध्याय।
औषधानाञ्च सर्व्वेषां काथानां१ नस्यकर्म्मणाम् ।
तैलानाञ्च घृतानाञ्च यवस्य यवसं परम् ॥ ३२ ॥
पर्व्वतानां यथा मेरुरायुधानाञ्च वज्रकम् ।
तथा सर्व्वोपचाराणां सप्तेः श्रेष्ठतमा२ यवाः ॥ ३३
देवतानां यथा विष्णुर्ब्रह्मा वेदविदां वरः ।
नदीनाञ्च यथा गङ्गा तथा श्रेष्ठा यवा हये ॥ ३४
यथोदितः सहस्रांशुर्निःशेषं तिमिरं जयेत् ।
तथा शरीरजान् दोषान्३ यवाः सप्तेर्हरन्ति
उपचारक्रियाः सर्व्वाः पञ्चर्त्तुजनिता हये ।
कृताः स्युर्यवभोज्येन सप्तेस्तस्य कृता नरैः४
यस्य दत्ता यवा भोज्ये शिशिरे समुपस्थि[ते]
अकृतापि५ कृता सर्व्वा पञ्चर्त्तुजनिता
कृताः स्युर्यवभोज्येन सप्तेस्तस्य कृता न... ...ते ॥ ३५ ॥
नीरोगास्तुरगाः सर्व्वे शालिहोत्रमते...
पञ्चर्त्तुजनिता वाथ६ क्रिया न्यस्ता ... वकार्षं च वाजिनाम् ।
अतीतास्ते विजानीयाद्यवभोज्य... सर्व्वव्याधिविनाशिनाः ॥ ३६ ॥
...तु दुग्धांश्च स्वेच्छया सदा ।
... रोगा कदाचिच्च यवान्नभाक् ॥ ३७ ॥
१। काथ्यतां । कः ।
२। अश्रेष्ठतमाः । खः ।
३। सर्व्वान् । कः ।
४। कृताः सर्व्वेषा भोजेन सप्ते...
५। क्रिया अपि कृताः...
६। व्यंथा । कः...
...रणम् । ४३
... क्रमः ।
- ॥
... ॥
... ।
॥ ४१ ॥
...ौषधिभिः२ ।
...प्रवर्द्धिनीम् ॥ ४२ ॥
...रजा हये ।
...तां तान् विनिर्द्दिशेत् ॥ ४३ ॥
...त्तमं वाजिनां बुधाः ।
...शनाल्लङ्घनमुत्तमम् ॥ ४४ ॥
... । तयोदरे । कः ।
...व्याधिजः । कः ।
...भावे यवान् दद्यात् । मुकुटान् तैलसंयुतान् । कः ।
...सर्व्वरोगैः प्रमुच्यते । कः ।
५ । विवेकिकिमिः । कः ।
६ । नान्यदन्नं । कः ।
७ । दानं । कः ।
(o-matra) on top and an 'आ' stroke!
In footnote 2, look at 'र' in 'रागः': it has an 'आ' stroke, but NO top horn/stroke!
So it is printed as 'रागः'!
Everything is clear, precise, and faithful to the printed page.४२ परिशिष्टे । [११ अध्यायः ।
दुग्धं वा केवलं रात्रौ कथितं संप्रशस्यते ।
तथान्यदपि यत्किञ्चिन्मधुरं संप्रजायते ॥ ३० ॥
पानाय सारसं तोयं यवसं सुमनोहरम् ।
नीलवर्णमकुष्ठांश्च घृतं प्राशनेन संयुतम् ॥
वाहनं च प्रयत्नेन सुखल्पमपि वर्जयेत् ॥ ३१ ॥
परीक्षाग्नौ यथा हेम्नः स्नेहस्य च प्रतिक्रिया ।
हयजीवस्य तद्वच्च परीक्षा यवभक्षणे ॥ ३२ ॥
यथा सांयात्रिकः पारं गत्वोच्चैः स्वस्थतां व्रजेत् ।
तद्वत् यवाशनात्तीर्णाः शुद्धदेहा हयोत्तमाः ॥ ३३ ॥
अल्पेनापि हि छिद्रेण यथा नश्यति नौर्जले ।
स्वल्पेना
११ अध्यायः ।] ऋतुचर्य्याविवरणम् । ४३
नच शूलं नच श्वासो 'नच प्लीहा नच क्लमः ।
नच रक्तप्रकोपश्च नच वातादिधातवः२ ॥ ३८ ॥
योग्योऽशनार्थं वाहानां प्रधानो यव ईष्यते ।
यवाभावेऽथ चणका धान्यमन्यतमं परम् ॥ ३९ ॥
यवाभावेऽथवा दद्यान्मुकुष्ठांस्तैलसंयुतान्३ ।
भोजने तुरगेन्द्राणां परां पुष्टिमभीप्सताम् ॥ ४० ॥
मुकुष्ठभोजनाद्वाजी पुष्टिं गच्छत्यलौकिकीम् ।
उत्साहं परमं धत्ते सच४ रोगैर्विमुच्यते ॥ ४१ ॥
अप्राप्तौ च मुकुष्ठानां मुद्गा देया मनीषिभिः५ ।
सतैलास्तेऽपि कुर्व्वन्ति पुष्टिं सत्वविवर्द्धिनीम् ॥ ४२ ॥
एते पुष्टिगुणाः प्रोक्ताश्चणकाहारजा हये ।
नान्यस्तस्मादभावेन सर्व्वेषां तान् विनिर्दिशेत् ॥ ४३ ॥
नान्यद्धितं६ प्रशंसन्ति पञ्चमं वाजिनां बुधाः ।
भक्षणार्थं यतस्तस्य दानो७ऽल्लङ्घनमुत्तमम् ॥ ४४ ॥
१ । प्लीहं नच तथोदरे । कः ।
२ । वातादिव्याधयः । कः ।
३ । तदभावे यवान् दद्यात् । मुकुटान् तैलसंयुतान् । कः ।
४ । सर्व्वरोगैः प्रमुच्यते । कः ।
५ । विवेकिभिः । कः ।
६ । नान्यदन्नं । कः ।
७ । दानं । कः ।
४४ परिशिष्टे । [११ अध्यायः ।
अन्नाभावे प्रदातव्यं घृतं वा यदि वा पयः ।
शस्यं वा मांसमेवाथ पुष्ट्यर्थं वाजिनां सदा ॥ ४५ ॥
यस्याश्वः शस्यमश्नाति सदा लवणमिश्रितम्¹ ।
किं तस्य शस्यदानेन यथाभूतेन² भूपतेः ॥ ४६ ॥
शस्याभावेऽथ यवसं शुष्कं वा यस्य वाजिनः ।
दिवानिशमरण्ये च स्वेच्छया संविभुक्तिकः³ ॥ ४७ ॥
तेषापि वाजिनो ज्ञेया यथा शस्यचरास्तथा ।
तथा सर्व्वप्रयत्नेन मुक्तान⁴ सञ्चारयेद्वने ॥ ४८ ॥
आरोग्यार्थं सुपुष्ट्यर्थमुत्साहार्थं विशेषतः ।
वित्तव्ययस्य रक्षार्थं हरेद्रोगं⁵ प्रयत्नतः ॥ ४९ ॥
वसन्तसमये प्राप्ते वाहयेत् सततं हयम् ।
सनिम्बं लवणं दद्यात्ताभ्यां तैलं⁶ विशेषतः ॥ ५० ॥
सर्व्वश्च सम्भवं भोज्यं तैलं वा यदि वा घृतम् ।
न दोषकारणं प्रोक्तं सक्षारं लवणमश्नतः ॥ ५१ ॥
वसन्तसमये योऽश्वः स्थाने तिष्ठति बन्धने ।
तस्योत्साहः⁷ प्रणश्येत सालस्यं जायते वपुः ॥ ५२ ॥
१ । वर्जितं । कः । ५ । दरिद्रस्य । कः ।
२ । वृथा दानेन भूपतिः । कः । ६ । सतैलञ्च । कः ।
३ । च भुनक्ति यः । कः । ७ । तस्योत्साहप्रणाशाय । कः ।
४ । मुक्ताः । खः ।
११ अध्यायः।] ऋतुचर्य्याविवरणम्। ४५
ततो मन्दाग्निनाविष्टो रोगाभावे' प्रजायते ।
तस्मात्सर्व्वप्रयत्नेन वसन्ते वाहयेद्धयम् ॥ ५३ ॥
ग्रीष्मकालेच संप्राप्ते दूर्व्वाभोज्यं प्रशस्यते ।
वाजिनामिह सर्व्वेषां घर्म्मतापोपशान्तये ॥ ५४ ॥
घृतपानं विशेषेण सुच्छायासु निबन्धनम् ।
रक्तस्रावेच गात्रेषु ग्रासं वा घृतसंयुतम् ॥ ५५ ॥
दूर्व्वाभावे प्रदातव्यं तुरगाय घतान्वितम् ।
ह्रत्त'काशस्यमध्याग्रं सर्व्वदोषोपशान्तये ॥ ५६ ॥
एवं स्वस्थमयं सम्यगुपचारं' करोति यः ।
हयस्यतु ग्रहे। नित्यं' तस्य वर्द्धन्ति वाजिनः ॥ ५७ ॥
नीरोगाः पुष्टिसंयुक्ताः प्रकृष्टोत्साहसंयुताः ।
तर्पिता' भूमिपैश्चा भूमिमार्गक्रियाक्षमाः ॥ ५८ ॥
इति श्रीनकुलकृतेऽश्वचिकित्सिते ऋतुपर्य्यायाध्याय
एकादशः ॥
१। श्रमाभावे । कः ।
२। यति । कः ।
३। उपहारं । खः ।
४ । गृहे । कः ।
५। सुदुर्लभास्तेऽपि वै यन्त्रा भूमिकायेकियाक्षमाः । कः ।