अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 458, कुल 522 में से
संदर्भ में पढ़ें१२ परिशिष्टे [४ अध्यायः।
कर्णमूले यदावर्त्तस्तन्मध्ये च तथापरः ।
विजयाख्यावुभौ ज्ञेयौ युद्धकाले जयप्रदौ ॥ १७ ॥
नासामध्ये यदावर्त्त एको वा यदि वा त्रयः ।
चक्रवर्त्ती स विज्ञेयो वाजी भूपालपूजितः ॥ १८ ॥
कण्ठे यस्य महावर्त्त एकोऽश्वस्य¹ प्रजायते ।
चिन्तामणिः स विज्ञेयश्चिन्तितार्थविवृद्धिदः ॥ १९ ॥
स्कन्धे पार्श्वे यदावर्त्तः स भवेत् पद्मलक्षणः ।
करोति विधिवत् पद्मे स्वामिनः सततं सुखम् ॥ २० ॥
युक्ताख्यौ² तालुकान्तस्थावावर्त्तौ कीर्त्तिवृद्धिदौ ।
हयस्य स्वामियुक्तस्य सदैव सुसुखावहौ ॥ २१ ॥
एका³वर्त्तो भवेद्यस्य⁴ कक्षान्ते वाजिनो यदा⁵ ।
स रणे मृत्युमाप्नोति द्वौ च⁶ स्वामिविनाशनौ ॥ २२ ॥
जानुदेशे यदावर्त्तो वाजिनः संप्रदृश्यते ।
प्रवासं सततं ब्रूते स्वभर्त्तुः क्लेशसंयुतम् ॥ २३ ॥
वाजी मेढ्रतलावर्त्तो वर्जनीयो महीभुजाम् ।
स करोति हरेर्नाशं परचारसमुद्भवम्⁷ ॥ २४ ॥
१ । एकः स्पष्टः । खः । ५ । ह्यशुभः । खः ।
२ । मुक्ताख्यौ । खः । ६ । चाशु । खः ।
३ । यस्य । खः । ७ । परस्परसमुद्भवम् । खः ।
४ । व्यक्तः । खः ।