अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 473, कुल 522 में से
संदर्भ में पढ़ें६ अध्यायः ।] वाहनविवरणम् । २७
बालो वृद्धः कृशो रोगी दन्तस्नेहो महाबली ॥ २२ ॥
पूर्णातिरिक्तकोष्ठञ्च गुव्विणीं न च वाहयेत् ।
समां च विपुलाञ्चैव किञ्चित्-पांशुसमन्विताम् ॥ २३ ॥
एकान्ते विजने चैव रङ्गभूमिं हयं नयेत् ।
सान्द्राञ्चैव सुकठिनां पाषाणोदकगर्त्तकाम् ॥ २४ ॥
तृणकाष्ठसमायुक्तां रङ्गभूमिं विवर्ज्जयेत् ।
विण्मूत्रं कारयेदश्वं क्रोशक्रोशद्वयान्तरे ॥ २५ ॥
वारि दद्याद् यथाकामं घासं मुष्टिञ्च चारयेत् ।
अन्यथा दोषजातानि वक्ष्याम्येतानि तावतः ॥ २६ ॥
गुरुविस्रस्तगात्रश्च छिन्नश्वासो च कम्पते ।
दुर्मना रुद्धविण्मूत्रः सर्व्वकर्म्माक्षमो हयः ॥ २७ ॥
गूढमेढ्रोन्नतग्रीवो रक्तमेही गुरुक्लमः ।
क्षुत्तृष्णार्त्तशुष्कास्यश्छायां प्राप्य वितिष्ठति ॥ २८ ॥
तर्जनैर्हन्यमानोऽपि विधुनोति शिरः परम् ।
मुहुर्विनमते पृष्ठं पदमेकं न गच्छति ॥ २९ ॥
भाराध्वानपरिश्रान्तं शनैः संक्रामयेत् पथि ।
नावतारितपर्य्याणं मार्गेऽध्वानसमागतम् ॥ ३० ॥
मुक्तपुच्छाग्रबन्धस्य खलीनं नावतारयेत् ।
मर्द्दयित्वास्य गात्राणि पांशुमध्ये विवर्त्तयेत् ॥ ३१ ॥
स्नानपानावगाहञ्च प्रतिपानं सभोजनम् ।