सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 465, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 465

[ १६ ]

अथ सप्तमोऽध्यायः ।

वेगः ।

गुणानामिह सर्व्वेषां गुणो वेगमयोऽधिकः।
अश्वानां शस्यते तज्ज्ञैरश्वज्ञानविचक्षणैः ॥ १ ॥
संवाहनविधानेन प्रकाशं यान्त्यसंशयम् ।
तस्मात् सर्व्वप्रयत्नेन वेगो ज्ञेयश्च वाजिनाम् ॥ २ ॥
अवाहिता विनश्यन्ति विनश्यन्त्यतिवाहिताः ।
अश्वानां वाहनं पथ्यं सानुरागञ्च मोक्षणम् ॥ ३ ॥
अधमा मध्यमास्ते स्युर्मध्यमाश्च तथोत्तमाः ।
उत्तमाश्चोत्तमा भूयो वाह्यमानास्तुरङ्गमाः ॥ ४ ॥
रूढमश्वविदां श्रेष्ठं रूढे सर्व्वं प्रतिष्ठितम् ।
रूढेन तु विहीनस्य लक्षणं चाप्यलक्षणम् ॥ ५ ॥
रूपावर्त्तगतिच्छायासत्ववर्णवयोबलम् ।
जवहीनस्य वाहस्य सर्व्वमेव निरर्थकम् ॥ ६ ॥
गतेर्धन्यतरो वर्णो वर्णाद्धन्यतरः खरः ।
खराद्धन्यतरं सत्वं सर्व्वं सत्वे प्रतिष्ठितम् ॥ ७ ॥
लघुत्वं मातृदोषेण पितृदोषेण जाद्यता ।
दौर्बल्यं स्वामिदोषेण स्वदोषो नास्ति वाजिनाम् ॥८॥
जवो हि सप्तेः प्रथमं विभूषणं
त्रपाङ्गनायाः कृशता तपस्विनः ।