अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
[ २९५ ]
अथ द्विपञ्चाशत्तमोऽध्यायः ।
अर्शोलक्षणम् ।
कृशो रूक्षश्च मन्दाशी वलहीनशिराम्बितः१ ।
अर्शसा क्रियते वाजी गुदमार्गगतेन च ॥ १ ॥
जम्बू२बदरखर्जूरफलरूपञ्च तद्भवेत्३ ।
गुदाभ्यन्तरजं मांस४मेकद्विबहुसंख्यकम् ॥ २ ॥
तच्चिकित्सा ।
क्रियां तस्य प्रवक्ष्यामि यथाशास्त्रं समासतः ।
येन शाम्यति५ वाहानां भृशमर्शी विवर्द्धितम् ॥ ३ ॥
यन्त्रं षडङ्गुलं विद्वान् छिद्रं६ पञ्चाङ्गुलं भिषक् ।
अथोऽर्द्धाङ्गुलविस्तीर्णं७ दैर्घ्येणाप्यङ्गुलत्रयम् ॥ ४ ॥
उभयोः पाश्र्वयोस्तस्य कुर्य्याच्छिद्रद्वयं बुधः ।
अर्शस्तेन तु वाहस्य दिच्छिद्रेण विलोकयेत्८ ॥ ५ ॥
२ । अर्शःसु मांसाङ्कुरा जम्बूफलाद्याकारा द्वित्र्यादिबहुसंख्यकाः
गुदाभ्यन्तरे जायते इत्यर्थः ।
१ । शिरोद्भवः । खः । ६ । शिरः । गः ।
२ । जम्बूफलच्च । खः । ७ । चतुरङ्गुलविस्तीर्णं । गः ।
३ । यद्भवेत् । खः । ८ । कुर्य्यात् शङ्खादिभिःक्षतम् । गः ।
४ । मूलम् । गः । ९ । अवलोकयेत् । गः ।
५ । शाम्येत । गः ।
२६६ अश्ववैद्यके [५३ अध्यायः ।
एकच्छिद्रेण वै कर्म्म¹ कुर्य्याच्छेदादि²पूर्व्वकम् ।
पातितस्य सुबद्धस्य तुरगस्य³ विचक्षणः ॥ ६ ॥
घृताभ्यक्ते गुदे क्षिप्त्वा युक्त्या यन्त्रं द्विछिद्रकम् ।
ततः सम्यक् समासेन अर्शस्तद्बुद्धिमान् भिषक् ॥ ७ ॥
यन्त्रं द्विछिद्रमाकृष्य प्रक्षिपेदेकरन्ध्रकम् ।
यन्त्रं छिद्रान्तरस्थन्तु अर्शः कृत्वा विचक्षणः ॥ ८ ॥
छित्त्वा तीक्ष्णेन शस्त्रेण दहेल्लौहशलाकया ।
सम्यग्दग्धं भिषग्बुद्ध्वा मधुयुक्तेन सर्पिषा ॥ ९ ॥
लेपयेद्व्रणदेशन्तु यन्त्रञ्चैवापकर्षयेत् ।
मुक्त्वा वाहं समुत्थाप्य वाजिं वातेषु चारयेत्⁴ ॥ १० ॥
अतिशीतं जलं मूर्ध्नि चिके चापि प्रदापयेत् ।
तस्यां रात्रौ प्रदातव्यो घासो वाहस्य यत्नतः ॥ ११ ॥
त्रिफलाक्वाथसंयुक्तं प्रातर्दद्याच्च गुग्गुलुम् ।
शृतशीतं जलं पाने घासे⁵ दूर्व्वा च शस्यते ॥ १२ ॥
६ । पातितस्य सुबद्धस्येति निपात्य सुयन्त्रितस्येत्यर्थः ।
१० । वाजिमितीकारान्तवाजिञ्शब्दोऽप्रसिद्धः ।
१ । एकच्छिद्रे ततःकर्म्म । गः । ४ । वाजिं प्रश्वास्य वाहयेत् । खः ।
२ । भेदादि । गः । ५ । ग्रासे । गः ।
३ । प्रतीतस्य । गः ।
५४ अध्यायः।] उत्कर्णरोगविवरणम्। २६७
सप्त¹ पञ्च प्रदातव्यः त्रिफलाक्वाथयोजितः ।
ततो जातबलं बुद्ध्वा² तुरगं भिषजांवरः ॥ १३ ॥
यथेष्टाहारचेष्टन्तु कारयेत् क्रमशः³ पुनः ।
वातजं श्लेष्मजं बुद्ध्वा साधयेदग्निना भिषक् ॥
पित्तजं सम्यगालोक्य⁴ दहेत् क्षारेण बुद्धिमान् ॥ १४ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे अर्शश्चि-
कित्सिते त्रिपञ्चाशत्तमोऽध्यायः ।
────────
अथ चतुःपञ्चाशत्तमोऽध्यायः ।
───
उत्कर्णलक्षणचिकित्सितम् ।
कर्णौ स्तब्धौ तथा पुच्छं स्तब्धं गात्रमकिञ्चन ।
वातात्मकेन वाहस्य भवेदुत्कर्णकेन हि ॥ १ ॥
वसया⁵ घृततैलेन तस्याभ्यङ्गः प्रशस्यते ।
प्रसारण्यादिभिस्तैलैः कुर्याच्चैवानुवासनम् ॥ २ ॥
─────────────────────────
१३ । सप्त पञ्चेति सप्ताहं तथा पञ्चाहं द्वादशाहमित्यर्थः ।
१४ । वातजे श्लेष्मजे वा अग्निदाहः पित्तजे क्षारदाहः प्रयोज्य
इत्यर्थः । क्रमणमिति पाठे पादचारणमर्थः ।
─────────────────────────
१ । सप्ताहकं । खः । ४ । वातजं ज्ञात्वा । गः ।
२ । बुद्धा । गः । ५ । पयसा । गः ।
३ । क्रमशं बुधः । गः ।
38
२६८ अश्ववैद्यके [५४ अध्यायः ।]
अतसीभिः शणै१र्माषैस्तिलधान्यैर्यवैस्तथा ।
वस्त्रबद्धपुटः२ स्वेदः शस्तः काञ्जिकसाधितैः ॥ ३ ॥
जंघा भासस्य३ सर्पस्य जाङ्गलैः साधितो४ रसः ।
तस्मै पाने हितो दृष्टः शाल्यन्नेन च भोजनम् ॥ ४ ॥
शौकरैर्माहिषैच्छागैरसैर्वा तदभावतः ।
पञ्चमूलकषायेण सिद्धस्तैलेन भावितः५ ॥ ५ ॥
गुडतैलयुता वापि सुरा पाने प्रशस्यते ।
शुनः छित्वा शिरो रक्तं गृहीत्वा दापयेत् ततः६ ॥ ६ ॥
छागमार्जारमेषाणां७ रक्तं सद्यः८ स्रुतं भिषक् ।
दापयेत् पञ्चमूलस्य कषायेण समन्वितम् ॥ ७ ॥
३ । अतसी ( मशिना ) ।
५ । अयं पाठो ग-पुस्तके नास्ति । रसैरित्यत्र रस इति पाठः साधुः ।
६ । गुडतैलयोर्यथाक्रमं पलाष्टकं प्रस्थार्द्धं च देयम् ।
७ । अयं पाठो ग-पुस्तके नास्ति ।
१ । सर्व्वैर्माषैः । खः ।
२ । वस्त्रबद्धपुटस्वेदस्तत्काञ्जिकसाधितः । गः ।
३ । चर्म्म नागस्य । गः ।
४ । शास्त्रकोविदः । खः ।
५ । मूर्च्छितः । गः ।
६ । पुनः छित्वा ततो रक्तं गृहीत्वा दापयेत्तदा । गः ।
७ । मेषमार्जारच्छागानां । गः ।
८ । रक्तं दद्यात् हृतं । गः ।
पञ्चमूलकषायेण कृत्वा मांसरसं बुधः ।
यवागूं साधयेत्तेन तिलमिश्रैश्च तण्डुलैः ॥ ८ ॥
वसया¹ तिलतैलेन सर्पिषा चापि संस्कृतम् ।
भोजने तां भिषग्दद्यादुत्कर्णकनिवारणीम् ॥ ९ ॥
ग्रासार्थं दापयेद्दूर्व्वां पाने चोष्णजलं पिवेत्² ।
चिष्टताद्यैस्तथा तैलैः कर्णयोस्तस्य पूरणम् ॥ १० ॥
उत्कर्णको यदाश्वस्य क्रियया नोपशाम्यति ।
वह्निं प्रदापयेत् कुक्षौ³ ललाटे कर्णयोस्तथा ॥ ११ ॥
ग्रासद्वेषी सदाध्मातः⁴ कृच्छ्रमूत्रपुरीषकृत् ।
लालाब्राण⁵युतः श्वासी उत्कर्णी नैव जीवति⁶ ॥ १२ ॥
स्वेदस्निग्धो निवातञ्च स्थानं प्रावरणानि च ।
पयांसि भोजने स्वादु कट्वम्ललवणानि च ।
बृंहणं सर्व्वथा वैद्यः कुर्यादुत्कर्णपीडिते ॥ १३ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे उत्कर्ण-
चिकित्सिते चतुःपञ्चाशत्तमोऽध्यायः ।
१० । कर्णपूरणे तैलस्य कुडवो मात्रा ।
१ । पयसा । गः । ४ । समाध्मातः । गः ।
२ । यथा । गः । ५ । ललाटव्रणः । गः ।
३ । पुच्छे । गः । ६ । सिध्यति । गः ।
[ १०० ]
अथ पञ्चपञ्चाशत्तमोऽध्यायः ।
वातव्याधौ
मन्यास्तम्भादिलक्षणानि ।
नमत्युन्नमति१ ग्रीवा स्तब्धा च यस्य वाजिनः ।
मन्यास्तम्भं विजानीयाद्रोगं तस्य सुदारुणम् ॥ १ ॥
एवं विधायां ग्रीवायां स्फुरणं यस्य विद्यते२ ।
मन्याचालीति३ तं विद्यान्मन्दाहारं तुरङ्गमम् ॥ २ ॥
संगृहीतौ हनू यस्य४ निश्चलौ यस्य वाजिनः ।
लाला स्रवति५ चात्यन्तं विद्यात्तस्य हनुग्रहम् ॥ ३ ॥
स्तम्भं६ पृष्ठोन्नतञ्चैव रन्ध्रौ क्षिप्तस्य यस्य च ।
तस्य पृष्ठग्रहं रोगमूर्द्धग्रीवस्य निर्दिशेत् ॥ ४ ॥
एकः प्रलम्बते कर्णः शरीरार्द्धञ्च शुष्यति ।
शूनो७ भवति चास्यञ्च रोगे चैकाङ्गसंज्ञके ॥ ५ ॥
२ । एवं विधायां स्तब्धायामित्यर्थः । स्फुरणं कम्पनम् ।
१ । नचानुन्नमति ग्रीवा तथा यस्य हि वाजिनः । गः ।
२ । दृश्यते । खः ।
३ । मन्यावनीति । गः ।
४ । हनुर्यस्य निश्चलो वापि वाजिनः । खः ।
५ । लालास्रावीति चात्यर्थं । गः ।
६ । तद्भामावश्च गलश्च रन्ध्रं । गः ।
७ । शूनं भवतु । गः ।
५५ अध्यायः।] वातव्याधिविवरणम् । ३०१
संश्वासी चैव यः पूर्व्वं पुनः स्वस्थो भृशं भवेत् ।
प्रस्विन्नाङ्गस्य तस्याशु मृगरोगं समादिशेत् ॥ ६ ॥
मृगरोगी यदा वाजी जृम्भावान् जायते मुहुः ।
मृगजृम्भं तदा तस्य व्याधिं समुपलक्षयेत् ॥ ७ ॥
गत्वा यः पूर्व्वकायेन पुनः पश्चाच्च¹ गच्छति ।
स्तब्धाङ्गो वेदनार्त्तश्च तस्याक्षेपकमादिशेत्² ॥ ८ ॥
वक्रः पश्चिमकायेन मण्डलैर्यो विचेष्टते³ ।
मन्दग्रासश्च दीनश्च भ्रमिताक्षो रजोहतः⁴ ॥ ९ ॥
पश्चात्कायेन यो वाजी भूमिं गत्वा निषीदति ।
खेदञ्चाग्रिमकायेन स्वस्थश्च परिवर्त्तते⁵ ॥ १० ॥
कृच्छादुत्थापितश्चापि पुनर्यो याति⁶ मेदिनीम् ।
कपोतकनिषादीति स ज्ञेयः कृच्छ्रजीवनः ॥ ११ ॥
[L
१०२ अश्ववैद्यके [५५ अध्यायः।
हनुद्वयस्य¹ विक्षेपाद्घोणाभेदाच्च बुद्धिमान् ।
नासापुटविकाराच्च अर्हितं रोगमादिशेत् ॥ १२ ॥
एषां चिकित्सा।
एते वातात्मका रोगा मन्यास्तम्भादयः स्मृताः ।
उत्कर्णक्रियाः² सर्व्वा वाहनानां तेषु कारयेत् ॥ १३ ॥
उत्कर्णकचिकित्सा च पानमेतद् विशिष्यते ।
कपोतकनिषादस्य तद्विद्याद्दृक्ष्यमाक्षिकम्³ ॥ १४ ॥
हरितान्⁴ यवभूकांश्च पिष्ट्वालम्बुषया सह ।
आलोड्य तिलतैलेन ततः पानं प्रदापयेत् ॥ १५ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे वातव्याधि
चिकित्सिते पंचपञ्चाशत्तमोऽध्यायः ।
१२ । अयं सार्द्धश्लोको ग-पुस्तके नास्ति । बलवर्द्धनं कर्म
बृंहणम् ।
१ । हनुद्वयं संप्रभिन्नं यस्य नासा च भिद्यते । नासापुटविकारैश्च
अर्हितः परिकीर्त्तितः । खः ।
२ । उत्कर्णकां क्रियां सर्व्वां दाहितामेषु । खः ।
३ । दद्यात्तदृक्ष्यमाक्षिकम् । गः ।
४ । हरितं यवभूकाञ्च काशञ्चैव विशेषतः ।
[ १०३ ]
अथ षट्पञ्चाशत्तमोऽध्यायः।
उन्मादनिदानलक्षणम्।
यद्युन्मादः१ समुद्दिष्टः श्लेष्मपित्तसमुद्भवः ।
तथापि२ न विना वातमुन्मादो जायते ध्रुवम् ॥ १ ॥
प्रकोपकारणैः प्रोक्तैः३ कुपिते मातरिश्वनि ।
उन्मादो जायतेऽश्वस्य तस्य रूपञ्च वक्ष्यते ॥ २ ॥
यातुमिच्छति यः स्थित्वा रज्जुं दन्तैश्च खादति ।
खादत्यकस्माद् यवसं पुनश्चैव न खादति ॥ ३ ॥
कदाचिद्बुध्यते संज्ञां कदाचिच्च न बुध्यते ।
स्वभावान्यत्वसंयुक्तं तद्बुद्ध्वा कारयेत् क्रियाम् ॥ ४ ॥
हिङ्गुयुक्तं पुराणस्य सर्पिषः पानमुत्तमम् ।
उन्मादिनस्तुरङ्गस्य घृताभ्यङ्गस्तु सर्व्वदा ॥ ५ ॥
उत्कर्णकादिरोगेषु सान्निकर्म्भाणि यानि तु ।
भोजनाभ्यङ्गपानानि निरुहास्थापनानि४ च ॥ ६ ॥
तानि५ चास्य प्रयोज्यानि बद्ध्वा चैव दृढं हयम् ।
अबद्धेषु क्रियां कर्तुं नैवोन्मादिषु शक्यते६ ॥ ७ ॥
१। यदि नाम। खः।
२। तथापित्तं विना वात उन्मादो वायुतो ध्रुवम्। गः।
३। सुप्ते। गः।
४। तानि सम्यक् प्रयोजयेत्। गः।
५। निपात्य भूमौ तुरगं बद्धा चैव दृढ़ं वधः। खः।
६। कारयेत्। गः।
१०४ अश्ववैद्यके [५६ अध्यायः।
निम्बपत्रवचाकुष्ठलाक्षालवण१हिङ्गुभिः ।
गोलोमखुरशृङ्गैश्च पीतसिद्धार्थकैरथवैः२ ॥ ८ ॥
उलूककाकपक्षैश्च भूतकेशैश्च पाण्डुभिः३।
सर्पनिर्मोकसंयुक्तैः कुर्य्याच्चूर्णं विचक्षणः ॥ ९ ॥
अर्ककाष्ठाग्निनाधूमं तेन चूर्णेन दापयेत् ।
घृतयुक्तेन वाहनामुन्मादव्याधिशान्तये ॥ १० ॥
गोकुरङ्कगोधानां४ शिखिनः शशकस्य च ।
पित्तानि दापयेत् प्राज्ञो यथालाभानि वा पुनः ॥ ११ ॥
रसोनहिङ्गुतगरान् कुष्ठसर्षपसैन्धवान् ५।
मनःशिलाञ्च संयुक्तां पित्तैः सार्द्धं प्रदापयेत् ॥ १२ ॥
महिषच्छागमूत्रेण६ वर्त्तिं कृत्वा ततः पुनः ।
उन्मादितेषु७ सर्व्वेषु तया कुर्य्यात्तथाञ्जनम् ॥ १३ ॥
तया छायां विनिष्कास्य जायते सुखमुत्तमम् ॥
८ । रजोहतः रजोभिर्धूमैर्हत इव ।
१३-१४ । मन्यास्तम्भादिषु सर्व्वेषु वातव्याधिषु उत्कर्णक-
१ । रसेन । गः ।
२ । तथा । गः ।
३ । उलूकस्य च पक्षैश्च भूतकेशिपयाण्डुभिः । गः ।
४ । गोकुरङ्गाम्बूकानां गोधानां । गः । पित्तमादाय सर्व्वेषां । गः ।
५ । सैन्धवसर्षपान् । गः ।
६ । भिषक् छागस्य मूत्रेण ।
७ । उन्मादितं तक्षं कृत्वा वर्त्त्या छायाविमुक्तया । खः ।
५७ अध्यायः।] ग्रहदोषविवरणम्। ३०५
अश्वगन्धावचाकुष्ठरोचनामधुसर्षपैः ।
रक्षार्थं पुटिका कार्य्या कण्ठे कर्पटवेष्टिता ॥ १४ ॥
गोमूत्रघृतदुग्धैश्च दध्ना च गोमयेन च ।
पञ्चगव्यं पचेत् सर्पिस्तस्य पानार्थमुत्तमम् ॥ १५ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे उन्माद-
चिकित्सिते षट्पञ्चाशत्तमोऽध्यायः ।
अथ सप्तपञ्चाशत्तमोऽध्यायः ।
ग्रहनामलक्षणानि ।
दृश्यन्ते यानि लिङ्गानि ग्रहदोषेण वाजिनाम् ।
तानि सम्यक् प्रवक्ष्यामि ग्रहनामानि यानि तु१ ॥ १ ॥
लोहिताक्षो विरूपाक्षो हरिर्वलिस्तथैव च ।
स काशी चैव विख्यातः संकाशी च परः स्मृतः ॥ २ ॥
चिकित्सैव कार्य्या केवलं कपोतकणिषीदे हरितादिपानविशेषः प्रयोज्य
इत्यर्थः ।
१ । अयं ग्रहग्रहचिकित्साध्यायो गपुस्तके खण्डितोऽस्ति ।
१ । ग्रहाणां यानि यानि च । खः ।
39
१०६ अश्ववैद्यके [५७ अध्यायः ।
सुसंस्थितश्च¹ कौवेरो वैशाखश्च मृदुग्रहः ।
ऊर्द्धश्च दारुणश्चैव षड्विधो वरुणग्रहः ॥ ३ ॥
वृहस्पतिश्च सोमश्च तथा² ह्यन्यग्रहोऽपरः ।
एते प्रोक्ता ग्रहाः सर्व्वे दारुणा मुनिसत्तमैः ॥ ४ ॥
एतैर्हताः स्फुटं वाहा नैव जीवन्ति सर्व्वदा ।
चिह्नं सर्व्वं³ प्रवक्ष्यामि यथा शास्त्रे व्यवस्थितम् ॥ ५ ॥
कम्पते पूर्व्वकायस्तु निश्चलो यस्य पश्चिमः ।
पश्चाल्लग्नी सकम्पश्च खिद्यते हरिपीड़ितः ॥ ६ ॥
भवन्ति विन्दवो रक्ता अकस्माद् यस्य चक्षुषः ।
हरिताक्षगृहीतोऽश्वो ग्रासद्वेषी च जायते ॥ ७ ॥
प्रखिन्नगुरुगात्रश्च लुब्धचंक्रमणक्रियः ।
मीलतौन्मीलता चाक्ष्णा स्वभावान्नित्यमेव च ॥ ८ ॥
विरूपाक्षगृहीते तु कम्पः स्वेदश्च जायते ।
उत्थितः सहसा यस्तु मूर्ध्ना पतति भूतले ॥ ९ ॥
स्तम्भाक्षो मुच्यते केशैस्तथा बालैः⁴ खुरैरपि ।
७ । अत्र हरिताक्षस्थले लोहिताक्ष इति पाठो भवितुं युक्तः ।
भवन्तीत्यादयो ये भूतले इत्यन्ताः श्लोकाः ख० पुस्तके न सन्ति ।
१ । सुसं स्थितं । खः । ३ । चिह्नमेषां । गः ।
२ । यतः । गः । ४ । रोमखुरैरपि । गः ।
५७ अध्यायः।] ग्रहदोषविवरणम्। ३०७
वह्निग्रहगृहीतो१ऽसौ स्तब्धकर्णशिरोधरः२ ॥ १०॥
अकस्माद् यस्य लोमानि शीर्य्यन्ते यश्च लङ्गति ।
शूनपश्चिमपादस्य३ तस्य काशिग्रहं४ वदेत् ॥ ११ ॥
सहसा कुपितो वाजी स्वानि गात्राणि खादति ।
प्रेक्षते सततञ्चैव संकाशिग्रहपीडितः ॥ १२ ॥
खिन्नाङ्गो५ वेपमानश्च जानुभ्यां यश्च६ तिष्ठति ।
कौवेरग्रहसंदुष्टं७ तं विन्द्यात् कष्टजीवितम् ॥ १३ ॥
हेषते सततं यस्तु पश्चादात्मानमीक्षते८ ।
सुसंस्थितग्रहाविष्टः९ स विज्ञेयो मनीषिभिः ॥ १४ ॥
स्तब्धेन गुरुणा चैव वेपमानेन पण्डितः१० ।
गात्रेण विद्याद् वाहं तु वैशाखग्रहसेवितम् ॥ १५ ॥
ग्रीवां चैव तथा जिह्वां परिवर्त्य मुहुर्मुहुः ।
जृम्भते पूर्वकायेन शीतोच्छ्वासी विशोचनः११ ॥ १६ ॥
१। कशिग्रहगृहीतः। खः।
२। स्तब्धकर्णाश्रुताधरः। खः।
३। शूनपश्चिमकायस्य। गः।
४। सकाशीयग्रहमादिशेत्। गः।
५। खिन्नाङ्गैः। गः।
६। योऽवतिष्ठते। गः।
७। कौवेरग्रहसंग्रस्तं विद्यात्तस्य च जीवितम्। गः।
८। आत्मनि लीयते। गः।
९। ग्रहैर्वृतः। गः।
१०। पीडितः। गः।
११। विशोधनः। गः।
३०८ अश्बवैद्यके [५७ अध्यायः ।
नोद्विजेत्स्वाहतः¹ पृष्ठे कशया पाणिनापिवा ।
तं वै दीर्घस्वरग्रस्तं² दृष्ट्वैव परिवर्जयेत् ॥ १७ ॥
श्यामं³ जिह्वामुखं यस्य नष्टदृष्टिस्मृतिर्भवेत् ।
ऊर्द्ध्वं⁴ग्रहकृतं दोषं तस्य⁵ दीनस्य निर्द्दिशेत् ॥ १८ ॥
तालुजिह्वे⁶ च नेत्रे च वृषणौ मेढ्रमेव च ।
श्यावं रूपं च⁷ यस्य स्याद् गात्रगौरवमेव च ॥ १९ ॥
तस्य स्वेदपरीतस्य बुद्धिमान्⁸ वरुणग्रहैः ।
कृतं दोषं महाघोरं⁹ स्तब्धाङ्गस्य विनिर्द्दिशेत् ॥ २० ॥
हेषते¹⁰ सततं यस्तु हृष्टरोमा तुरङ्गमः ।
स्तब्धाक्षो जृम्भतेऽत्यर्थं तस्यापि सलिलग्रहः¹¹ ॥ २१ ॥
१७। नोद्विजेत् न भीतो भवेत् । दीर्घस्वरग्रत्तमिति दीर्घेण
खरेण रावेण ग्रत्तमाक्रान्तं । मृगग्रहग्रस्तमिति पाठे, तन्नामकेन ग्रहेण
ग्रस्तम् ।
१८। श्यावमिति पाठे कृष्णपीतं, जिह्वामुखकृष्णत्वं दर्शनस्मरण-
नाशश्चेति सर्व्वं ऊर्द्ध्वनामकग्रहजनितमित्यर्थः । दीनस्य भीतस्य
स्तम्भाङ्गस्येति पाठे जड़ीभूतकलेवरस्य ।
१ । हतः । गः । ७ । श्यावं तपञ्च । खः ।
२ । मृगग्रहग्रस्तं । गः । ८ । मेङ्कमानस्य बुद्धिमान् । खः ।
३ । श्यावं । गः । ६ । वरुणग्रहकृतं रोगं । खः ।
४ । ऊर्द्धं । गः । १० । क्रेषते । गः ।
५ । स्तम्भाङ्गस्य । गः । ११ । सालिलग्रहः । गः ।
६ । तालुजिह्वा च । गः ।
Here is the line-by-line transcription of the Sanskrit text from the image:
५७ अध्यायः।] ग्रहदोषविवरणम्। ३०६
सुविस्फुरितसर्वाङ्गः१ सलिले निश्चलस्थितः।
हेषते विस्वरं वाजी वरुणग्रहपीड़ितः ॥ २२ ॥
मुहूर्त्तावस्थितस्तोये जानुभ्यां योऽवगच्छति३।
मुखपाकश्च४ यस्यान्ये तं विन्द्यादुदकग्रहम् ॥ २३ ॥
उद्वर्त्तिताक्षः५ स्विन्नश्च संगृहीतहनुश्च यः।
कम्पमानश्च यो वाजी स रविग्रहपीड़ितः ॥ २४ ॥
स्तब्धग्रीवो न जानाति कशाघातं सुदुर्मनाः।
जलग्रहगृहीतोऽश्वो वामपार्श्वेन निश्चलः ॥ २५ ॥
शूनाक्षिकूटो रक्ताक्षः६ कृशः स्खलति यो मुहुः।
बृहस्पतिगृहीतोऽसौ नैव जीवति तादृशः ॥ २६ ॥
२२। सुविस्फुरितसर्वाङ्ग अतिशय कम्पान्वितकलेवरः। स्विन्न-
स्फुरितर्वाङ्ग इति पाठे स्विन्नं घर्माक्तं। विस्वरं विकृतस्वरं।
२३। मुखपको मुखस्रावः। त्वचि पाक इति द्वितीयपाठे
त्वचः पक्कवद्वेदनावलमित्यर्थः।
२४। संगृहीतहनुः स्तब्धहनुः।
१। भिन्नस्फुरितसर्वाङ्गः। गः।
२। निखशः। गः।
३। योऽवतिष्ठते। गः।
४। त्वचि पाकश्च यस्य स्यात्तं विन्द्यादुदकं ग्रहे। गः।
५। ऊर्ध्वं वर्त्तितचक्षुस्तु खिन्नस्त्वगृह्णमुश्च यः। गः।
६। मूगाक्षिपेडकृत्रस्य। खः।
२१० अश्ववैद्यके [५७ अध्यायः।
कम्पते¹ पूर्व्वकायेन स्वल्पपानाशनश्च यः।
शेते प्रसार्य्य गात्राणि शीताङ्गः सोमपीडितः॥ २७॥
रक्ताक्षः² शूनकण्ठश्च कम्पमानश्च श्वासयुक्।
फेनतीव्राङ्गखेदश्च³ ग्रस्तः सूर्य्यग्रहेण सः॥ २८॥
उदके⁴ तत्समीपे वा प्रायो गृह्णाति दारुणः।
तुरङ्गं सत्वहीनन्तु षड्विधो वारुणग्रहः॥ २९॥
यज्ञभूमिचिताचैत्यशून्यवेश्मसुरालये⁵।
लोहिताक्षादयो रोषाद्⁶ ग्रहा गृह्णन्ति वाजिनः॥३०॥
एवंविधैर्निदानैस्तु ग्रहदोषं विनिर्दिशेत्।
वातपित्तकफानान्तु निदानैर्व्याधिमादिशेत्॥ ३१॥
एकाकारेण रोगेण म्रियते वा हयो यदा।
तुरङ्गानां तदा ज्ञेया उपसर्गाः सुदारुणाः॥ ३२॥
ग्रहदोषेषु सर्व्वेषु उपसर्गांस्तथैव च।
अथोक्ताञ्च महाशान्तिं गान्धर्वीञ्च प्रयोजयेत्॥ ३३॥
अश्वरक्षाविधानाय कृत्स्नं सम्मान्य पावकम्।
१। जृम्भते। गः।
२। रक्ताङ्गः सन्नकण्ठश्च कम्पकक्षांससंयुतः। गः।
३। फेनातिश्राखान् वेदी। खः।
४। उदकस्य समीपे वा। गः।
५। यज्ञभूमिं विनिर्मित्य तच्चैव बुधदेवता। गः।
६। सर्व्वे ग्रहाः गृह्णन्ति वाजिनम्। गः।
५८ अध्यायः ।] शोषविवरणम् । ३११
जुहुयाद्घृतसंयुक्तं शुचिः स्नात्वा सुपूजितः ॥ ३४ ॥
शान्तिकं कारयेत् कर्म बलिञ्चापि प्रयोजयेत् ।
ग्रहदोषेषु¹ सर्व्वेषु शान्तिकर्म्माणि कारयेत् ॥ ३५ ॥
देवद्विजप्रव्रजितगुरुवृद्धान् यतीनपि ।
तोषयेद्भोजनैर्दानैर्वस्त्रगोकाञ्चनादिभिः ॥ ३६ ॥
रात्रौ शालासमीपे तु बलिं दद्याच् चतुर्दिशम् ।
मत्स्यमांसैश्च पक्कान्नैः कृशरैः² पायसादिभिः ॥ ३७ ॥
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ।
नीराजनविधिं कृत्वा नयेदश्वान् पृथक् पृथक् ॥ ३८ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे ग्रहगृही-
तचिकित्सिते सप्तपञ्चाशत्तमोऽध्यायः ।
अथाष्टपञ्चाशत्तमोऽध्यायः ।
वातादिशोषलक्षणानि ।
वातादिदोषजातानां शोषाणामनुपूर्व्वशः ।
लक्षणञ्च चिकित्सां प्रवक्ष्यामि समासतः ॥ १ ॥
१ । अयं श्लोको ग-पुस्तके नास्ति ।
१ । रोगेषु । गः । २ । कृशरा । खः ।
२१२ अश्ववैद्यके [५८ अध्यायः ।
आध्मातकुक्षे१र्यस्य स्याद् रूक्षः काशः कृशस्य च ।
मूत्रकृच्छ्रं ततश्चैव भिन्नफेनिलपिच्छलम् ॥ २ ॥
प्रत्यहं हीयमानस्य मन्दग्रासस्य तस्य वै ।
भिषग् वातात्मकं शोषं चिचरोग्नः२ समादिशेत् ॥ ३ ॥
काशदौर्बल्यसंयुक्तस्तृष्णादाहसमन्वितः ।
सङ्कीर्णे रोमकेशे च पित्तशोषं विनिर्दिशेत् ॥ ४ ॥
भिन्नदीर्घाङ्गवालस्य मन्दग्रासस्य बुद्धिमान् ।
सततं हीयमानस्य भृशं कासाहितस्य च ॥ ५ ॥
नित्यं शीतशरीरस्य निद्रातन्द्रान्वितस्य च ।
भिन्नविष्टस्य वाहस्य शोषं श्लेष्मात्मकं वदेत्३ ॥ ६ ॥
सर्व्वलिङ्गान्वितञ्चैव४ जानीयात्सांनिपातिकम् ।
असाध्यं वाजिनां५ शोषं कृच्छ्रसाध्यमथापि वा ॥ ७ ॥
वातादिचतुर्विधशोषिणामि-`
त्यर्थः । पाठान्तरे गात्रमित्यत्र मलम् । हीयन्ते क्षीणानि भवन्ति ।(Wait, let's look atक्षीणानि: yes, as established, it'sक्षीणानि भवन्ति ।).१० । पञ्चमूलस्य पादशिष्टकषायेण मांसं विपाच्य तेन सहशाल्यन्नं भोजयेदित्यर्थः । पञ्चमूलं पलमितम् । लवणस्य पलं तैलस्यच कुड़वः ।११ । आस्थापयेत् आस्थापनकर्म कारयेदित्यर्थः । प्रसारिण्या-दिभिस्तैलैरिति तैलाध्यायोक्तैरित्यर्थः ।
Wait, look atतैलाध्यायोक्तैरित्यर्थः:
तैलाध्यायोक्तैरित्यर्थः
Letters:
तै(त + ै)
ला(ल + ा)
ध्या(ध + य + ा)
यो(य + ो)
क्तै(क + त + ै)
रि(र + ि)
त्य(त + य
३१४ अश्ववैद्यके [५८ अध्यायः ।
विदद्भिः क्रियया वैद्यैः सम्यगेवं¹ प्रयुक्तया ॥ १२ ॥
दर्भमोरट²शालीनां तथाच नल³काशयोः ।
मूलान्यादाय सर्व्वेषां क्वाथयेन्मृदुनाग्निना⁴ ॥ १३ ॥
मांसैस्तेन⁵ कषायेण रसं कृत्वा विचक्षणः ।
यवान्नं भोजने दद्यात् सघृतं पित्तशोषिणम् ॥ १४ ॥
वासानिम्बकषायेण रसं कृत्वा विचक्षणः ।
जाङ्गलानां तथा मांसैर्मृगाणामथ पक्षिणाम् ॥ १५ ॥
कुलत्थं सुकृतं तेन⁶ रसकेन समन्वितम् ।
भोजयेन्मधुना युक्तं तैलत्रिकटुकान्वितम्⁷ ॥ १६ ॥
१३ । मोरट इक्षुमूलं। नलकाशयोरित्यत्र पाठान्तरे तृणमूलम् ।
एषां मूलानां मिलित्वा पलं ग्राह्यम् ।
१४ । सघृतमित्यत्र घृतं पलचतुष्टयमितम् ।
१५ । जाङ्गलानामिति मृगविशेषणम् ।
१६ । सुकृतं सुसिद्धं । तेन रसकेनेति पूर्व्वोक्तकषायसिद्धमांसरसे-
नेत्यर्थः । श्लेष्मशोषातुरं भोजयेदित्यन्वयः ।
१ । चैवद्धि । गः ।
२ । दर्भशरेश्चु । गः ।
३ । तृण । गः ।
४ । मृदुना चाग्निना शनैः । गः ।
५ । तेन सर्व्वकषायेण । गः ।
६ । क्वाथयेद्वैद्यः । गः ।
७ । मधुसंयुक्तान् रसान् तिक्तैश्च कटुकान्वितैः । खः ।