अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 338, कुल 522 में से
संदर्भ में पढ़ें३०८ अश्बवैद्यके [५७ अध्यायः ।
नोद्विजेत्स्वाहतः¹ पृष्ठे कशया पाणिनापिवा ।
तं वै दीर्घस्वरग्रस्तं² दृष्ट्वैव परिवर्जयेत् ॥ १७ ॥
श्यामं³ जिह्वामुखं यस्य नष्टदृष्टिस्मृतिर्भवेत् ।
ऊर्द्ध्वं⁴ग्रहकृतं दोषं तस्य⁵ दीनस्य निर्द्दिशेत् ॥ १८ ॥
तालुजिह्वे⁶ च नेत्रे च वृषणौ मेढ्रमेव च ।
श्यावं रूपं च⁷ यस्य स्याद् गात्रगौरवमेव च ॥ १९ ॥
तस्य स्वेदपरीतस्य बुद्धिमान्⁸ वरुणग्रहैः ।
कृतं दोषं महाघोरं⁹ स्तब्धाङ्गस्य विनिर्द्दिशेत् ॥ २० ॥
हेषते¹⁰ सततं यस्तु हृष्टरोमा तुरङ्गमः ।
स्तब्धाक्षो जृम्भतेऽत्यर्थं तस्यापि सलिलग्रहः¹¹ ॥ २१ ॥
१७। नोद्विजेत् न भीतो भवेत् । दीर्घस्वरग्रत्तमिति दीर्घेण
खरेण रावेण ग्रत्तमाक्रान्तं । मृगग्रहग्रस्तमिति पाठे, तन्नामकेन ग्रहेण
ग्रस्तम् ।
१८। श्यावमिति पाठे कृष्णपीतं, जिह्वामुखकृष्णत्वं दर्शनस्मरण-
नाशश्चेति सर्व्वं ऊर्द्ध्वनामकग्रहजनितमित्यर्थः । दीनस्य भीतस्य
स्तम्भाङ्गस्येति पाठे जड़ीभूतकलेवरस्य ।
१ । हतः । गः । ७ । श्यावं तपञ्च । खः ।
२ । मृगग्रहग्रस्तं । गः । ८ । मेङ्कमानस्य बुद्धिमान् । खः ।
३ । श्यावं । गः । ६ । वरुणग्रहकृतं रोगं । खः ।
४ । ऊर्द्धं । गः । १० । क्रेषते । गः ।
५ । स्तम्भाङ्गस्य । गः । ११ । सालिलग्रहः । गः ।
६ । तालुजिह्वा च । गः ।