सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 341, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 341

५८ अध्यायः ।] शोषविवरणम् । ३११
जुहुयाद्घृतसंयुक्तं शुचिः स्नात्वा सुपूजितः ॥ ३४ ॥
शान्तिकं कारयेत् कर्म बलिञ्चापि प्रयोजयेत् ।
ग्रहदोषेषु¹ सर्व्वेषु शान्तिकर्म्माणि कारयेत् ॥ ३५ ॥
देवद्विजप्रव्रजितगुरुवृद्धान् यतीनपि ।
तोषयेद्भोजनैर्दानैर्वस्त्रगोकाञ्चनादिभिः ॥ ३६ ॥
रात्रौ शालासमीपे तु बलिं दद्याच् चतुर्दिशम् ।
मत्स्यमांसैश्च पक्कान्नैः कृशरैः² पायसादिभिः ॥ ३७ ॥
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ।
नीराजनविधिं कृत्वा नयेदश्वान् पृथक् पृथक् ॥ ३८ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे ग्रहगृही-
तचिकित्सिते सप्तपञ्चाशत्तमोऽध्यायः ।
अथाष्टपञ्चाशत्तमोऽध्यायः ।
वातादिशोषलक्षणानि ।
वातादिदोषजातानां शोषाणामनुपूर्व्वशः ।
लक्षणञ्च चिकित्सां प्रवक्ष्यामि समासतः ॥ १ ॥
१ । अयं श्लोको ग-पुस्तके नास्ति ।
१ । रोगेषु । गः । २ । कृशरा । खः ।