सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 340, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 340

२१० अश्ववैद्यके [५७ अध्यायः।
कम्पते¹ पूर्व्वकायेन स्वल्पपानाशनश्च यः।
शेते प्रसार्य्य गात्राणि शीताङ्गः सोमपीडितः॥ २७॥
रक्ताक्षः² शूनकण्ठश्च कम्पमानश्च श्वासयुक्।
फेनतीव्राङ्गखेदश्च³ ग्रस्तः सूर्य्यग्रहेण सः॥ २८॥
उदके⁴ तत्समीपे वा प्रायो गृह्णाति दारुणः।
तुरङ्गं सत्वहीनन्तु षड्विधो वारुणग्रहः॥ २९॥
यज्ञभूमिचिताचैत्यशून्यवेश्मसुरालये⁵।
लोहिताक्षादयो रोषाद्⁶ ग्रहा गृह्णन्ति वाजिनः॥३०॥
एवंविधैर्निदानैस्तु ग्रहदोषं विनिर्दिशेत्।
वातपित्तकफानान्तु निदानैर्व्याधिमादिशेत्॥ ३१॥
एकाकारेण रोगेण म्रियते वा हयो यदा।
तुरङ्गानां तदा ज्ञेया उपसर्गाः सुदारुणाः॥ ३२॥
ग्रहदोषेषु सर्व्वेषु उपसर्गांस्तथैव च।
अथोक्ताञ्च महाशान्तिं गान्धर्वीञ्च प्रयोजयेत्॥ ३३॥
अश्वरक्षाविधानाय कृत्स्नं सम्मान्य पावकम्।

१। जृम्भते। गः।
२। रक्ताङ्गः सन्नकण्ठश्च कम्पकक्षांससंयुतः। गः।
३। फेनातिश्राखान् वेदी। खः।
४। उदकस्य समीपे वा। गः।
५। यज्ञभूमिं विनिर्मित्य तच्चैव बुधदेवता। गः।
६। सर्व्वे ग्रहाः गृह्णन्ति वाजिनम्। गः।

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ) · पृष्ठ 340, कुल 522 में से · SarvaKosh