सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 325, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 325

[ २९५ ]
अथ द्विपञ्चाशत्तमोऽध्यायः ।
अर्शोलक्षणम् ।
कृशो रूक्षश्च मन्दाशी वलहीनशिराम्बितः१ ।
अर्शसा क्रियते वाजी गुदमार्गगतेन च ॥ १ ॥
जम्बू२बदरखर्जूरफलरूपञ्च तद्भवेत्३ ।
गुदाभ्यन्तरजं मांस४मेकद्विबहुसंख्यकम् ॥ २ ॥
तच्चिकित्सा ।
क्रियां तस्य प्रवक्ष्यामि यथाशास्त्रं समासतः ।
येन शाम्यति५ वाहानां भृशमर्शी विवर्द्धितम् ॥ ३ ॥
यन्त्रं षडङ्गुलं विद्वान् छिद्रं६ पञ्चाङ्गुलं भिषक् ।
अथोऽर्द्धाङ्गुलविस्तीर्णं७ दैर्घ्येणाप्यङ्गुलत्रयम् ॥ ४ ॥
उभयोः पाश्र्वयोस्तस्य कुर्य्याच्छिद्रद्वयं बुधः ।
अर्शस्तेन तु वाहस्य दिच्छिद्रेण विलोकयेत्८ ॥ ५ ॥
२ । अर्शःसु मांसाङ्कुरा जम्बूफलाद्याकारा द्वित्र्यादिबहुसंख्यकाः
गुदाभ्यन्तरे जायते इत्यर्थः ।
१ । शिरोद्भवः । खः । ६ । शिरः । गः ।
२ । जम्बूफलच्च । खः । ७ । चतुरङ्गुलविस्तीर्णं । गः ।
३ । यद्भवेत् । खः । ८ । कुर्य्यात् शङ्खादिभिःक्षतम् । गः ।
४ । मूलम् । गः । ९ । अवलोकयेत् । गः ।
५ । शाम्येत । गः ।