सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 337, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 337

५७ अध्यायः।] ग्रहदोषविवरणम्। ३०७
वह्निग्रहगृहीतो१ऽसौ स्तब्धकर्णशिरोधरः२ ॥ १०॥
अकस्माद् यस्य लोमानि शीर्य्यन्ते यश्च लङ्गति ।
शूनपश्चिमपादस्य३ तस्य काशिग्रहं४ वदेत् ॥ ११ ॥
सहसा कुपितो वाजी स्वानि गात्राणि खादति ।
प्रेक्षते सततञ्चैव संकाशिग्रहपीडितः ॥ १२ ॥
खिन्नाङ्गो५ वेपमानश्च जानुभ्यां यश्च६ तिष्ठति ।
कौवेरग्रहसंदुष्टं७ तं विन्द्यात् कष्टजीवितम् ॥ १३ ॥
हेषते सततं यस्तु पश्चादात्मानमीक्षते८ ।
सुसंस्थितग्रहाविष्टः९ स विज्ञेयो मनीषिभिः ॥ १४ ॥
स्तब्धेन गुरुणा चैव वेपमानेन पण्डितः१० ।
गात्रेण विद्याद् वाहं तु वैशाखग्रहसेवितम् ॥ १५ ॥
ग्रीवां चैव तथा जिह्वां परिवर्त्य मुहुर्मुहुः ।
जृम्भते पूर्वकायेन शीतोच्छ्वासी विशोचनः११ ॥ १६ ॥
१। कशिग्रहगृहीतः। खः।
२। स्तब्धकर्णाश्रुताधरः। खः।
३। शूनपश्चिमकायस्य। गः।
४। सकाशीयग्रहमादिशेत्। गः।
५। खिन्नाङ्गैः। गः।
६। योऽवतिष्ठते। गः।
७। कौवेरग्रहसंग्रस्तं विद्यात्तस्य च जीवितम्। गः।
८। आत्मनि लीयते। गः।
९। ग्रहैर्वृतः। गः।
१०। पीडितः। गः।
११। विशोधनः। गः।