सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

[ २५१ ]
अथ चत्वारिंशोऽध्यायः ।
वातज्वरनिदानलक्षणानि ।
कारणैः पूर्व्वमुद्दिष्टैः कुपिते मातरिश्वनि ।
ज्वरो वातात्मिकोऽश्वस्य तदा भवति दुःसहः ॥ १ ॥
गुरुत्वञ्चोष्णता चैव मस्तकस्योपजायते ।
शीतता पर्व्वसन्धीनां चलनञ्चैव शंखयोः ॥ २ ॥
स्तब्धाङ्गस्य तुरङ्गस्य ग्रासद्वेषेण बुद्धिमान् ।
वातज्वरं विदित्वा तु ततः कुर्य्यात् प्रतिक्रियाम् ॥ ३
चिकित्सा ।
चिञ्चतेन प्रसारिण्या अन्यैर्वातविनाशनैः ।
तैलैरभ्यङ्गिताङ्गस्य कर्त्तव्ये स्वेदमर्दने १ ॥ ४ ॥
लंघनं कारयेत्तावद् यावन्मुक्तज्वरो भवेत् ।
१ । पूर्व्वमुद्दिष्टैः कारणैरिति सप्तविंशत्यध्यायनिर्दिष्टैः तिक्तरूक-
षनिराहारश्रमादिभिरित्यर्थः । मातरिश्वनि वायौ ।
३ । स्तब्धाङ्गस्य निश्चलकायस्य ।
४ । अन्यैरिति प्रसारण्यादिभिरित्यर्थः ।
१ । उपजङ्गि । गः ।

२५२ अश्ववैद्यके [४० अध्यायः।
अप्राप्तौ चिष्टतादीनां तैलयुक्तेन सर्पिषा ॥ ५॥
वसायुक्तेन¹ चाभ्यङ्गं तिलतैलेन कारयेत् ।
कषायः पञ्चमूलस्य सुरागोमूत्रसंयुतः² ॥ ६ ॥
निरूहः पिप्पलीकल्कयुक्तोऽतीव प्रशस्यते ।
तैलैर्वातहरैः सम्यक् हितं तस्यानुवासनम् ॥ ७॥
पित्तज्वरचिकित्सा।
भोजनं³ विहितं तस्य स्निग्धैर्मांसरसौदनैः ।
निदानैः पित्तजननैः⁴ सेवितैः पित्तजो ज्वरः ॥ ८॥
स्वेददाहौ⁵ वपुःशोषो रक्तनेत्रश्च जायते ॥ ९ ॥
५ । अप्राप्तावित्येको योगः ।
६ । वसायुक्तेनेत्यपरो योगः । पञ्चमूलस्य पलदशकं वारिण-
ष्टाहकचतुष्टयं पक्त्वा पादशिष्टः कषायो ग्राह्यः । अथ तत्र पिप्पली-
कल्कस्य पलं सुरागोमूत्रयोः पलं पलं मिश्रयित्वा निरूहो देयः ।
७ । अथानुवासने तैलस्य प्रस्थो ग्राह्यः ।
८ । भोजने मांसरसो। वारिजानूपशूकरमहिषादिमांसैः सा-
धनीयः ।
९ । पित्तजनकैः कट्वम्लादिभिरित्यर्थः ।
१ । रसाभ्यङ्गेन चाभ्यक्तं । गः ।
२ । योजितः । गः ।
३ । विहितश्चास्य रोगस्य । गः ।
४ । पित्तकरैः । गः ।
५ । स्वेददाहयुतः सोष्मा । गः ।

४० अध्यायः ।] ज्वरविवरणम्। २५३
बदरीपत्रफेनेन तस्य गात्रं प्रलेपयेत् ।
वीजयेत्तोयसिक्तैश्च¹ तालवृन्तैर्भिषग्वरः ॥ १० ॥
अवगाहे जलेचैव स्नापयित्वाच तं हयम् ।
मस्तके दापयेत् प्राज्ञः शीतं धारजलं तथा ॥ ११ ॥
तस्याङ्गं सेचयेद्धन्वा काञ्जिकेन च बुद्धिमान् ।
क्षीरपानञ्च दातव्यं शर्करेक्षुसमन्वितम् ॥ १२ ॥
सकाशदूर्वैक्षुकुशैः² क्षीरपिष्टैः सितोत्पलैः ।
घृतयुक्तः प्रलेपश्च तस्य गात्रे प्रशस्यते ॥ १३ ॥
कुशकाशेक्षुमुस्तानां कल्कयुक्तः सपद्मकैः ।
क्षीरवस्तिः स्मृतस्तस्य मञ्जिष्ठाशर्करान्वितः ॥ १४ ॥
१० । बदरीपत्रफेनेनेति कोमलवदरीपत्राणां जलमर्दनेनोत्थेन
फेनेनेत्यर्थः ।
११ । उक्तञ्च “ज्वरितानां तुरङ्गानां पथ्यमैव क्रियाक्रमः” इति ।
१२ । अत्र दुग्धस्य प्रस्थः, इक्षोरसस्यार्द्धाढकः शर्करायाश्च
पलाष्टकमुत्तमाम्नाय देयम् ।
१३ । कासः (केशेमूल) । इक्षुः (कृष्णेक्षुमूल) सिता शर्करा ।
उत्पलं (नीलशुद्धि) । एषां समो भागो ग्राह्यः ।
१४ । अत्र क्षीरवस्तौ दुग्धस्याढकः । कुशादिकल्को मिलित्वा
दशपलमितः । पद्मकं (पद्मकाष्ठ) ।
१ । वीजयेत्तालवृन्तैश्च तोयसिक्तैश्च बुद्धिमान् । गः ।
२ । कासदूर्व्वक्षुरसैश्च । गः ।

२५४ अश्‍ववैद्यके [४० अध्यायः।
सर्पिषा सहितं तस्मै¹ यवान्नं भोजने² हितम् ।
शीतलञ्च जलं पाने ग्रासे दूर्व्वाच शस्यते ॥ १५ ॥
पित्तज्वरसमाकारौ रोगशेषौ निरामकौ ।
रोगे पित्तज्वरे प्रोक्ता तयोस्तां³ कारयेत् क्रियाम् ॥ १६ ॥
क्रोधादिभिः श्रमाच्चैव कट्वम्ललवणाशनात् ।
अनयोः सम्भवः प्रोक्तो ग्रीष्मवातातपसेवनात्⁴ ॥ १७ ॥
श्लेष्मज्वरनिदानं ।
हेतुभिः श्लेष्मजननैः सेवितैः श्लेष्मसम्भवः ।
तेन तन्द्रा भवत्यस्य अरुचिर्गात्रसादनम् ॥ १८ ॥
उष्माभिलाषो वाहानां नासास्त्रावश्च जायते ॥ १९ ॥
तच्चिकित्सा ।
मरिचञ्चैव पाठाञ्च मुस्तकं कटुरोहिणीम् ।
१६ । पित्तज्वरो निरामज्वरश्चेत्युभावेव क्रोधादिसम्भवौ अत-
स्तच्चिकित्सापि निरामज्वरस्य पित्तज्वरोक्ता एव ज्ञेया ।
१८ । श्लेष्मजननैः खादादिद्रव्यातिशयभोजनरूपैरित्यर्थः ।
१८ । गात्रसादनं शरीरावसादः ।
१ । तस्मिन् । गः ।
२ । भोजयेत् । गः ।
३ । तयोः कुर्य्यात् क्रियां बुधः । खः ।
४ । निर्वातसेवनात् । गः ।

४० अध्यायः।] ज्वरविवरणम् । २५५
पिप्पलीञ्चैव शुण्ठींच गुडूचीं चव्यकां वचाम् ॥ २० ॥
वारिणा क्वाथयित्वा तु पादशेषं समाहरेत् ।
कषाय एष दातव्यः पाने क्षौद्रेण योजितः ॥ २१ ॥
पञ्चतिक्तकसिद्धांश्च मुद्गांस्त्रिकटुकान्वितान् ।
भोजयेन्मधुसंयुक्तान् सुखोष्णांश्चैव बुद्धिमान् ॥ २२ ॥
वालुकापुटकैः स्वेदो गात्रे मूर्ध्नि च दापयेत् ।
शंखजाञ्च शिरां तस्य मन्याजाञ्चैव वेधयेत् ॥ २३ ॥
सन्निपातज्वरलक्षणचिकित्सा ।
सर्वेषां चैव रूपाणि कुरुते सान्निपातिकः ।
असाध्यः सतु विख्यातस्तस्य साधारणी क्रिया ॥ २४ ॥
अभिघातज्वरलक्षणचिकित्सा
कासः स्तम्भश्च१ मूर्च्छा च सशोणितकफोद्गमः ।
अभिघातसमुत्थे तु ज्वरे जृम्भा च जायते ॥ २५ ॥
२०-२१ । मरीचादीनां पलं जलाढके पक्त्वा पादशेषः क्वाथो
मधुकुड़वेन देयः ।
२२ । पञ्चतिक्तादीनां मिलितेन पलेन मुद्गस्य प्रस्थत्रयं प्रस्थं
वा चतुर्गुणे वारिणि साधयित्वा मधुकुड़वेन कवोष्णं देयम् ।
२५ । स्तम्भो निश्चेष्टता ।
१ । कासशोणितमूर्च्छाश्च सशोणितकफोद्भवः । गः ।

२५६ अश्ववैद्यके [४१ अध्यायः ।
पञ्चवल्कलकल्केन घृतयुक्तेन वाजिनः ।
लेपयेत्तस्य गात्राणि सशिरस्कानि बुद्धिमान् ॥ २६ ॥
चन्दनाशीरमञ्जिष्ठावलामधुकपद्मकैः ।
पयसा साधितं सर्पिस्तस्य पाने प्रशस्यते ॥ २७ ॥
अनुवासनं निरूहञ्च भोजनञ्चैव पण्डितः ।
पित्तज्वरसमुद्दिष्टं कुर्याद्बुद्धिमतांवरः ॥ २८ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे ज्वररोगे
चत्वारिंशोऽध्यायः ।
अथैकचत्वारिंशोऽध्यायः ।
अजीर्णलक्षणम् ।
अजीर्णेन¹ भवेद्वाजी मन्दग्रासश्च² दुर्मनाः ।
खञ्जपाणिश्च³ जंघाभ्यां कृच्छ्रमूत्रपुरीषकृत् ॥ १ ॥
२७ । वला वात्यालकं । मधुकं यष्टिमधु ।
१ । जंघाभ्यां सह खञ्जपाणिः ।
१ । अजीर्णतः । खः ।
२ । मन्दग्राससुदुर्मनाः । खः ।
३ । खुन्दत्यग्रिमजङ्घाभ्यां । खः ।

४१ अध्यायः ।] अजीर्णरोगविवरणम् । २५७
यदि शोथो न जंघाभ्यामातुरस्य¹ न वा व्रणम् ।
अभिघातश्च नो कश्चित् तदाजीर्णेन खञ्जति ॥ २ ॥
तच्चिकित्सा ।
उपवासो हितस्तस्मै तावद्यावत्तु लङ्गति ।
अतिलङ्गं² त्र्यहादूर्द्धमस्तब्धमपि वारयेत् ॥ ३ ॥
कृतेापवासे³ वाहेतु यथा तु प्रतिपानकैः ।
प्रतिपानं वारणीयं त्र्यहं पञ्चाहमेव च ॥ ४ ॥
अशुद्धे चारिते वाहे तथा जातवले भिषक् ।
सप्तरात्रात्परं विद्वान् शिरावेधं प्रयोजयेत्⁴ ॥ ५ ॥
उरसा खञ्जतेऽश्वस्य चौरसीं वेधयेत् शिराम् ।
जंघायां जांघिकीञ्चैव कूर्चजाः कूर्चलङ्गिते⁵ ॥ ६ ॥
२ । अजीर्णज्ञानं कथं भवति तदाह—। शोथव्रणाभिघातं
विनापि यदा खञ्जता वाजिनो दृश्यते, तदाजीर्णे जानीयादित्यर्थः ।
३ । वारयेदित्यत्र चारयेदिति पाठो युक्तः । चारयेत् स्तोकं
स्तोकं भ्रामयेदित्यर्थः । अशुद्धमिति अकृतशिरावेधादिकम् ।
४ । विस्रगन्धेन आमगन्धेन ।
६ । इदं पादद्वयं ख-पुस्तके नास्ति ।
१ । खुरस्यास्यः । खः ।
२ । ग्लानिं त्र्यहादूर्द्धं चैव । गः ।
३ । कृतेा व्यवासो वाहस्य यथार्थं । खः ।
४ । प्रकल्पयेत् । खः ।
५ । कूर्चं यस्यापि लङ्गति । गः ।
33

२५८ अश्ववैद्यके [४२ अध्यायः ।
पिण्डं वृद्धतुरङ्गस्य सायं मध्ये न दापयेत् ।
कटुकापिप्पलीशुण्ठीवचारामठसैन्धवैः ॥ ७ ॥
अमुञ्चे गुग्गुलुर्देयः पूर्वोक्तेनैव कर्म्मणा ॥ ८॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रेऽजीर्णचि-
कित्सिते एकचत्वारिंशोऽध्यायः ।
अथ द्विचत्वारिंशोऽध्यायः ।
वाताद्यतीसारलक्षणचिकित्सितम् ।
अनिलेनाथ पित्तेन श्लेष्मणा चापि¹ वाजिनः ।
अतीसारस्तथाचान्यः सन्निपातेन जायते ॥ १ ॥
सङ्कोचिताङ्गः स्वानेन सकफं² योऽतिसार्य्यते ।
अल्पं तनु सशब्दञ्च पुरीषं बहु³ वा हयः ॥ २ ॥
तस्य वातात्मकं विन्द्याद्⁴तीसारं विचक्षणः ।
पित्तजञ्चैव वक्ष्यामि श्लेष्मजञ्च समासतः ॥ ३ ॥
७ । पिण्डश्च कटुकादिभिः षट्पलमितः कार्य्यः । पिण्डेत्यादि
सार्द्धश्लोको ग-पुस्तके नास्ति ।
१ । वापि । खः । ३ । बहु वाल्पयेत् । गः ।
२ । सफेनं । खः । ४ । विद्यात् । खः ।

४२ अध्यायः । ] अतीसाररोगविवरणम् । २५६
स्वेददाहपरीतानां¹ लक्षयेन्मतिमान् भिषक् ।
स्रावेण नीलरक्तेन विस्रगन्धेन² पित्तजम् ॥ ४ ॥
मन्दाहार³स्तथा वाहे हृष्टरोमातिपीडितः ।
श्यामैः सपिच्छिलैर्भिन्ने⁴र्विद्यात् श्लेष्मसमुद्भवम् ॥ ५ ॥
सन्निपातात्मकञ्चैव सर्व्वेषां लक्षणैर्युतम् ।
द्विरूपं द्वन्द्वजं ज्ञेयमतीसारं विचक्षणैः ॥ ६ ॥
अतीसाराः समुद्दिष्टाः शालिहोत्रादिभिः पुरा ।
एषां चिकित्सां वक्ष्यामि यथाशास्त्रानुसारतः ॥ ७ ॥
येन शाम्यन्ति वाहानामतीसाराः सुदारुणाः ।
वृहतीं शालिपर्णीञ्च पृश्निपर्णीं निदिग्धिकाम् ॥ ८ ॥
विल्वं शुण्ठीं कपित्थञ्च क्वाथयेत्सचिकण्टकम् ।
एतेन⁵ साधयेत् प्राज्ञो यवागूं शालितण्डुलैः ॥ ६ ॥
दध्ना⁶म्लेन तु संयुक्तां दद्यात्तां भोजने⁷ भिषक् ।
८ । ६ । पृश्निपर्णी (चाकुले) । निदिग्धिकां कण्टकारीं । अत्र
यवाग्वर्थे शालितण्डुलस्य प्रस्थः । वृहत्यादीनां पलं जलद्रोणे
पक्त्वाऽर्द्धशिष्टः क्वाथो ग्राह्यः । अथ तेन क्वाथेन यवागूं पाचयेत् ।
इयं वृहत्यादिर्नाम यवागूः ।
१ । स्वेददाहोपजातानां । खः । ५ । तेन संसाधयेत् । खः ।
२ । विस्रगन्धेन । गः । ६ । अम्लदध्ना च । गः ।
३ । मन्दाहारे तथा वाहे । खः । ७ । भोजयेत् । गः ।
४ । तुर्गै । खः ।

२६० अश्ववैद्यके [४२ अध्यायः ।
यवागूं साधयेद्यान्तु वृहत्यादिरुदाहृता ॥ १० ॥
क्वाथः पाने प्रदातव्यो वातातीसारशान्तये ॥ ११ ॥
पित्तातिसारचिकित्सा ।
जम्बाम्रदाडिमानान्तु क्वाथयित्वा त्वचं बुधः ।
मधुना प्रतिपानाय दद्यात्पित्तातिसारिणे ॥ १२ ॥
चूर्णं वा मधुसंयुक्तं तैलयोगेन¹ दापयेत् ।
जम्बादीनां² प्रयोगेण पाठा³ वा कुटजान्विता ॥ १३ ॥
अनेनैव कषायेण साधितां मधुसंयुताम् ।
यवागूं भोजयेद्वाहं⁴ रक्तशालेस्तु तण्डुलैः⁵ ॥ १४ ॥
श्लेष्मातिसारचिकित्सा ।
बीजं कुटजवृक्षस्य त्वक्चूर्णं दाडिमाग्रयोः ।
मातुलुङ्गरसोपेतं सैन्धवेनावचूर्णितम् ॥ १५ ॥
लेहयेन्मधुसंयुक्तं श्लेष्मातीसारशान्तये ।
एतेषां वा कषायन्तु मधुना प्रतिपाययेत् ॥ १६ ॥
१२ । जम्बादीनां त्वचः पलं जलाढके पाच्यम् ।
१३ । जम्बादीनां चूर्णं पलं ग्राह्यम् ।
१५-१६ । कुटजबीजादिचूर्णं पलम् ।
१ । दलेयुक्तेन । गः । ४ । वाहे । गः ।
२ । गन्वादीनां । खः । ५ । रक्तशालेश्च तद्गुणैः । गः ।
३ । पानं वा कुटजान्वितम् । गः ।

४२ अध्यायः ।] अतीसारविवरणम् । २४१
अनेनैव कषायेण साधितं यवतण्डुलैः ।
मधुसैन्धवसंयुक्तां यवागूं भोजयेत्ततः१ ॥ १७ ॥
आमसन्निपातद्वन्द्वजातिसारचिकित्साः ।
पिप्पल्या लवणं शुण्ठी मरिचं चित्रकं वचा ।
आमातीसारिणे देयं सुरया पानमुत्तमम् ॥ १८ ॥
सन्निपातसमुत्थे तु कार्या साधारणी क्रिया ।
द्विरूपे द्विविधा चैव चिकित्सा परिकीर्त्तिता ॥ १९ ॥
इति श्रीमन्महासामन्तजयदत्तकृतेऽश्वशास्त्रेऽतीसार-
चिकित्सिते द्विचत्वारिंशोऽध्यायः ।
अथ त्रिचत्वारिंशोऽध्यायः ।
पञ्चविधशूलनिदानलक्षणानि ।
सौभिक्ष्यश्चोर्ध्ववर्त्तिंश्च२ भिन्नवर्त्तिस्तथैव च ।
विबन्धस्नेहवर्त्तिंश्च कुक्षौ शूलश्च पञ्चधा ॥ १ ॥
१८ । अत्र सुराप्रस्थः । पिप्पल्यादिचूर्णं षट्टोलकं ग्राह्यम् ।
१ । विबन्धस्नेहवर्त्तिरिति विबन्धवर्त्तिः स्नेहवर्त्तिंश्च ।
१ । भिषक् । गः ।
२ । सुभित्तञ्चोर्द्धवर्त्तश्च भिन्नवर्त्तस्तथैव च । विविधस्नेहवर्त्तश्च । गः ।

२६२ अश्ववैद्यके [४३ अध्यायः ।
गुरुभिः खादितै१र्नित्यं तथा स्नेहाति२योगतः ।
सौभिक्षो जायतेऽश्वस्य आमविद्वेगलक्षितः ॥ २ ॥
यवसं खादनश्चैव३ यो वाजी खादितं पुनः ।
मुखेन प्रोज्झित्याशु तं विद्यादूर्ध्ववर्त्तिनम् ॥ ३ ॥
अतीसारेण संयुक्तं शूलं यस्योपजायते ।
भिन्नवर्त्तीति तं विद्यात्तुरङ्गं दीनचेष्टितम् ॥ ४ ॥
नोत्सृजेद्यः पुरीषं तु सानाहः शूलपीडितः ।
विबन्धवर्त्तिः सास्याहुस्तं विद्यात्कष्टजीवितम् ॥ ५ ॥
भिन्नं स्निग्धं पुरीषञ्च जायते यस्य वाजिनः ।
स्नेहातियोगात्तस्याशु स्नेहवर्त्तिं समादिशेत् ॥ ६ ॥
२ । स्नेहातियोगतः घृताद्यधिकभोजनादित्यर्थः । आमविड्बे-
गलक्षित इति आमविट् अपक्कमलं तस्य वेगेन लक्षितः अनुमितः ।
प्रधानतोऽपक्कमलवेगेन सौभिक्षशूलमनुमीयते इत्यर्थः । लक्षण-
मिति पाठे स एवार्थः ।
३। ऊर्द्धवर्त्तिशूललक्षणमाह यवसमिति । यवसं घासः ।
४। दीनचेष्टितं मन्दचेष्टम् ।
५। सानाह आनाहेन विण्मूत्रसङ्गेन सह वर्त्तमानः । श्लोकोऽयं
ग-पुस्तके लिपिकरप्रमादात् पतित इव लक्ष्यते ।
१ । खादनैः । गः । २ । स्नेहादियोगतः । गः ।
३ । खादने चैव । गः ।

४३ अध्यायः।] शूलरोगविवरणम् । २६३
सौभिन्नेविबन्धचिकित्सा।
सौभिन्ने च विबन्धे च कृत्वा स्वेदं विचक्षणः।
वक्ष्यमाणां ततः प्राज्ञः कुर्याद्वर्त्तिक्रियामिमाम् ॥ ७ ॥
आगारधूमं सुरसं पिप्पलीं सर्षपं वचाम् ।
सिन्धुवारीञ्च गुण्ठीञ्च तथा लवणपञ्चकम् ॥ ८ ॥
सुचूर्ण्य१ च ततो वर्त्तिं कुर्यात्तप्तगुडेन तु ।
दैर्घ्यमष्टाङ्गुलं तस्याः स्थौल्यञ्चाङ्गुष्ठसम्मितम्२ ॥ ९ ॥
प्रक्षिपेत्तां गुदेऽश्वस्य व्योषचूर्णावचूर्णिताम् ।
सैन्धवक्षौद्रलिप्तान्तु मलप्रच्युतिकारिणीम्३ ॥ १० ॥
वर्त्त्यापहृतदोषस्य४ वर्त्युक्तै५र्भेषजैस्ततः ।
सुराकाञ्जिकगोमूत्रैः प्रयुञ्जीतानुवासनम्६ ॥ ११ ॥
८-१०। सुरसं गन्धतृणं । सिन्धुवारीं मोचरसं। लवणपञ्चक-
मुक्तं । दूथमागारधूमादिवर्त्तिः कथ्यते ।
११। शूले पिण्डमाह नकुलः-“सैन्धवं नागरं श्यामा गुडूची
सितसर्षपाः। अम्लवेतससंयुक्तः पिण्डोऽयं शूलनाशनः” इति॥ वस्त्य-
धिकारकथितौषधिमिश्रैः सुरादिभिरनुवासनवस्तिं प्रदद्यादित्यर्थः॥
१। संचूर्णितैस्तु । गः।
२। स्थौल्येनाङ्गुलिसम्मितं । गः ।
३। सैन्धवं क्षौद्रलिप्ताङ्गं मलप्रच्युतिकारकम् । गः।
४। वर्त्तिप्रहृतदोषस्य । गः ।
५। वस्त्युक्तैः । खः ।
६। अनुवासनं प्रयुञ्जीत सुरागोमूत्रकाञ्जिकैः । गः ।

२६४ अश्ववैद्यके [४१ अध्यायः ।
आमं विना यदा शूलो वाताद्भवति दारुणः ।
अनुवासने¹ ततस्तैलं दातव्यं पूर्व्वनोदितम् ॥ १२ ॥
दुर्गन्धं पिच्छिलं² भिन्नं पुरीषं श्लेष्मणावृतम् ।
आमं भवति वाहस्य पक्वञ्चैव विवर्जयेत् ॥ १३ ॥
आमं³ नैव प्रशंसन्ति वाजिशास्त्रविशारदाः ।
दौर्मनस्यारुचिम्लानिविट्प्रमूत्रग्रहकारकम् ॥ १४ ॥
दत्तानुवासने वाहे शुद्धकोष्ठे विचक्षणः ।
अपरेऽहनि भुञ्जीत प्रतिपानमिदं ततः ॥ १५ ॥
हरेणुकाञ्च कुष्ठञ्च भार्गीं दन्तीञ्च चित्रकम् ।
लवणं व्योषचूर्णञ्च सुरया पाययेद्भिषक् ॥ १६ ॥
घासार्थं दापयेच्चूर्णं पानं कोष्णं जलं तथा ।
एवं यदि सुखी न स्याद्वाहः कुक्षौ तदा भवेत् ॥ १७ ॥
१२ । पूर्व्वनोदितमित्यत्र पूर्व्वनोदिते इति पाठोयुक्तः

खकूलं प्रेक्षते वाजी उत्थानपतनैर्मुहुः ।
कुञ्चितेन च गात्रस्य शूलं स्पष्टं करोत्यलम् ॥ १८ ॥
श्यामजिह्वः समाध्मातो ध्यायेन्निश्चलवालधिः ।
रक्तमूचाततः शूली नच शक्यश्चिकित्सितुम् ॥ १६ ॥
इति श्रीमहासामन्तजयदत्तविरचितेऽश्वशास्त्रे शूल-
चिकित्सिते त्रिचत्वारिंशोऽध्यायः ।
अथ चतुश्चत्वारिंशोऽध्यायः ।
उदावर्त्तलक्षणचिकित्सितम् ।
पुरीषं वर्त्तितं यस्य कृच्छ्रं निर्याति वा पुनः ।
वेदनार्त्तस्य वाहस्य तस्योदावर्त्तमादिशेत् ॥ १ ॥
१८। खकूलमिति पाठो न सङ्गच्छते । खकूलस्थाने सङ्कुल
मित्येव पाठोऽनुमीयते ।
१६। श्यामजिह्वासमाध्मात इत्यत्र श्यामजिह्वः समाध्मात इति
पाठः साधुर्लक्ष्यते । समाध्मात उदराध्मानविशिष्ट इत्यर्थः ।
१। वर्त्तितं प्रवर्त्तितमपीत्यर्थः । पुरीषमित्यादिः श्लोकः ख-पुस्तके
नास्ति ।
34

२६६ अश्ववैद्यके [४५ अध्यायः।
आरग्वधकषायेण मूच्छितं¹ घृतयोजितम् ।
यावकं भोजने तस्मै स्नेहवस्तिञ्च दापयेत् ॥ २ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे उदावर्त्त-
चिकित्सिते चतुश्चत्वारिंशोऽध्यायः ॥
अथ पञ्चचत्वारिंशोऽध्यायः ।
प्रस्कन्नरोगलक्षणचिकित्सितम् ।
गुरुर्यस्य भवेद्वक्षः स्तब्धगात्रपरिक्रमः ।
कुञ्जीभूतेन पृष्ठेन यो वाजी याति बद्धवत् ॥ १ ॥
प्रस्कन्नरोगसन्तप्तं² विद्याद्बुद्ध्या च तं भिषक् ।
चिकित्सां तस्य वक्ष्यामि भाषितां मुनिसत्तमैः ॥ २ ॥
आज्यं त्रिकुटकोपेतं पाययेत्तं विचक्षणः ।
ततः स्निग्धस्य कर्त्तव्यः शिरावेधो यथोदितः ॥ ३ ॥
१ । यावकं कुलत्थं घृतभर्जितं दापयेदित्यर्थः । गुरुर्यस्येति यः
पाठः पुस्तकद्वयेऽपि दृश्यते स न साधुः । गुरु यस्येत्येव साधुः पाठो
वक्षसः क्लीवत्वात् ।
३ । घृतस्य प्रस्थः । त्रिकटुकस्य च पादोनं पलम् ।
१ । मूच्छितां घृतयोजिताम् । याविकां । खः ।
२ । प्रस्कन्दरोगसन्तप्तं । खः ।

४५ अध्यायः। ] प्रस्कन्नरोगविवरणम्। २६७
श्रौरसीं पादिकीं तस्य तलजां कूर्च्चजामपि ।
पूर्व्वकाये शिराशस्त्रे भेषजं तद्विचक्षणः ॥ ४ ॥
श्रौपाण्डीं पश्चिमे काये स्थौरिकीं कूर्च्चजां तथा ।
विध्यात् शिराशस्त्रमुखे देयं कर्द्दमलेपनम् ॥ ५ ॥
विद्धं न चारयेदाहमेकरात्रं विचक्षणः ।
वक्ष्यमाणं ततः पानमपरेऽह्नि प्रदापयेत् ॥ ६ ॥
त्रिफलाक्काथसंयुक्तस्तथा क्षौद्रसमन्वितः ।
गुग्गुलुः प्रतिपानाय देयः प्रस्कन्ननाशनः ॥ ७ ॥
ग्रासार्थे दापयेद्दूर्व्वाः पाने चैव मधूदकम् ।
अथवा पिप्पलीतोयं प्रशस्तं तस्य वाजिनः ॥ ८ ॥
पञ्चमूलकषायस्तु तिलतैलेन योजितः ।
४-५। शिरावेधः कुत्र कर्त्तव्य इत्याह । पूर्व्वकाये श्रौरस्यादि-
कूर्च्चजान्ताः शिरा विध्येत् । शिराशस्त्रे तच्छिराक्षतमुख इत्यर्थः।
कर्द्दमलेपनं देयम् । तथा पश्चिमे काये श्रौपाण्ड्यादिकूर्च्चजान्ताः
शिरा विध्येत् तथा शिराक्षतमुखे कर्द्दमलेपनं देयमित्यर्थः । तत
इत्यादि एकरात्रं विचक्षण इत्यन्तः पाठो ग-पुस्तके नास्ति ।
७। अत्र त्रिफलापलसिद्धः कषायप्रस्थः। मधुनः पलं गुग्गुलोश्च
पलं ग्राह्यम् ।
८। समधुपलं वारिणः पलषष्टिकं देयम् ।

२६८ अश्ववैद्यके [४६ अध्यायः।
हेमन्ते क्षारसंयुक्तो देयः प्रस्कन्नपीडिते ॥ ९ ॥
यदि सिद्धिर्भवेन्नैव भेषजानामुपक्रमैः ।
ततो वह्निः प्रदातव्यो वाह्वोर्वक्षसि कूर्चके ॥ १० ॥
दग्धाग्नेर्गुग्गुलुः शस्तो वाहस्य त्रिफलायुतः ।
भ्रामणञ्चैव वाहानां प्रस्कन्नव्याधिशान्तये ॥ ११ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे प्रस्कन्न-
चिकित्सिते पञ्चचत्वारिंशोऽध्यायः ।
───
अथ षट्चत्वारिंशोऽध्यायः ।
───
कृमिकोष्ठनिदानचिकित्सितम् ।
कृशस्य यस्य वाहस्य जन्तुभिः परिवेष्टितम् ।
पुरीषं जायते भिन्नं तं विन्द्यात् कृमिकोष्ठकम् ॥ १ ॥
श्लेष्मकोष्ठी समुद्दिष्टो मन्दाहारस्तुरङ्गमः ।
दुर्ब्बलो भिन्नरोमा च गुरुगात्रस्तथैव च ॥ २ ॥
पुरीषं श्लेष्मणा मिश्रं पिच्छिलं तस्य सर्व्वदा ।
निद्रा च जायतेऽत्यर्थं तन्द्रा चैव समन्विता ॥ ३ ॥
────────────────────────────
९ । तिलतैलस्य कुडवः । क्षारस्य पादोनं पलं देयम् ।

तृतीय भाग: अश्व-शल्य क्रिया, व्रण-शोधन एवं शस्त्र-कर्म

तुल्यांशं कषायं कारयेद्बुधः ॥ ६ ॥ कम्पिल्लकस्य कल्केन कषायेणामुनैव४ तु । विडङ्गचूर्णसंयुक्तं सिद्धं सर्पिः प्रदापयेत् ॥ ७ ॥ घृतं विडङ्गसंयुक्तं सिद्धसर्पिः प्रदापयेत् । दन्तीकषायकल्केन साधितञ्च प्रदापयेत् ॥ ८ ॥ घृतं विडङ्गसंयुक्तं दृष्टकर्म्मा विचक्षणः । द्वे हरिद्रे विडङ्गानि तथा लवणपञ्चकम् ॥ ९ ॥`

--- (separator)

६ । विडङ्गादिघृतमाह विडङ्गमित्यादि । पाक्यो यवक्षारः ।
कम्पिल्लकं (कमलागुँड़ि) ।
८ । श्लोकोऽयं ग-पुस्तके नास्ति ।

--- (separator)

१ । षष्टिकान्नतिलं । गः ।
२ । व्यक्रमः । खः ।
`३ । श्यामा द्रवन्ती

२७० अश्ववैद्यके [४६ अध्यायः।
पटोलं निम्बपत्रञ्च वचां चिचकमेव च।
पिप्पलीशृङ्गवेरञ्च चूर्णमेकत्र कारयेत् ॥ १० ॥
एतत्पानं¹ प्रदातव्यं सुरया कृमिनाशनम् ।
चूर्णपानप्रयोगोऽयं² श्लेष्मकोष्ठे प्रशस्यते ॥ ११ ॥
मन्दाग्निदीपनेऽत्यन्तं शालिहोत्रेण कीर्त्तितः ॥ १२ ॥
श्लेष्मकोष्ठनिदानचिकित्सिते ।
श्लेष्मकोष्ठौ समुद्दिष्टो मन्दाहारस्तुरङ्गमः ।
कृमिकोष्ठोदितां कुर्य्यात् श्लेष्मकोष्ठेऽपि च क्रियाम् ॥१३॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे कृमिकोष्ठ-
श्लेष्मकोष्ठचिकित्सिते षट्चत्वारिंशोऽध्यायः ।
११। “स्नुहीक्षीरं सकर्पूरं कूपोदकविभावितम्। पिण्डोऽयं
हन्ति मध्यस्थान् उदरस्थान् कृमिव्रणान्” इति नकुलः। परिभाषा
नियमेन घृतमिदं साधयित्वा पाययेत्।
१ । एष पाने प्रदातव्यः । खः।
२ । प्रयोगश्च । गः।