अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 282, कुल 522 में से
संदर्भ में पढ़ें२६० अश्ववैद्यके [४२ अध्यायः ।
यवागूं साधयेद्यान्तु वृहत्यादिरुदाहृता ॥ १० ॥
क्वाथः पाने प्रदातव्यो वातातीसारशान्तये ॥ ११ ॥
पित्तातिसारचिकित्सा ।
जम्बाम्रदाडिमानान्तु क्वाथयित्वा त्वचं बुधः ।
मधुना प्रतिपानाय दद्यात्पित्तातिसारिणे ॥ १२ ॥
चूर्णं वा मधुसंयुक्तं तैलयोगेन¹ दापयेत् ।
जम्बादीनां² प्रयोगेण पाठा³ वा कुटजान्विता ॥ १३ ॥
अनेनैव कषायेण साधितां मधुसंयुताम् ।
यवागूं भोजयेद्वाहं⁴ रक्तशालेस्तु तण्डुलैः⁵ ॥ १४ ॥
श्लेष्मातिसारचिकित्सा ।
बीजं कुटजवृक्षस्य त्वक्चूर्णं दाडिमाग्रयोः ।
मातुलुङ्गरसोपेतं सैन्धवेनावचूर्णितम् ॥ १५ ॥
लेहयेन्मधुसंयुक्तं श्लेष्मातीसारशान्तये ।
एतेषां वा कषायन्तु मधुना प्रतिपाययेत् ॥ १६ ॥
१२ । जम्बादीनां त्वचः पलं जलाढके पाच्यम् ।
१३ । जम्बादीनां चूर्णं पलं ग्राह्यम् ।
१५-१६ । कुटजबीजादिचूर्णं पलम् ।
१ । दलेयुक्तेन । गः । ४ । वाहे । गः ।
२ । गन्वादीनां । खः । ५ । रक्तशालेश्च तद्गुणैः । गः ।
३ । पानं वा कुटजान्वितम् । गः ।