अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 277, कुल 522 में से
संदर्भ में पढ़ें४० अध्यायः।] ज्वरविवरणम् । २५५
पिप्पलीञ्चैव शुण्ठींच गुडूचीं चव्यकां वचाम् ॥ २० ॥
वारिणा क्वाथयित्वा तु पादशेषं समाहरेत् ।
कषाय एष दातव्यः पाने क्षौद्रेण योजितः ॥ २१ ॥
पञ्चतिक्तकसिद्धांश्च मुद्गांस्त्रिकटुकान्वितान् ।
भोजयेन्मधुसंयुक्तान् सुखोष्णांश्चैव बुद्धिमान् ॥ २२ ॥
वालुकापुटकैः स्वेदो गात्रे मूर्ध्नि च दापयेत् ।
शंखजाञ्च शिरां तस्य मन्याजाञ्चैव वेधयेत् ॥ २३ ॥
सन्निपातज्वरलक्षणचिकित्सा ।
सर्वेषां चैव रूपाणि कुरुते सान्निपातिकः ।
असाध्यः सतु विख्यातस्तस्य साधारणी क्रिया ॥ २४ ॥
अभिघातज्वरलक्षणचिकित्सा
कासः स्तम्भश्च१ मूर्च्छा च सशोणितकफोद्गमः ।
अभिघातसमुत्थे तु ज्वरे जृम्भा च जायते ॥ २५ ॥
२०-२१ । मरीचादीनां पलं जलाढके पक्त्वा पादशेषः क्वाथो
मधुकुड़वेन देयः ।
२२ । पञ्चतिक्तादीनां मिलितेन पलेन मुद्गस्य प्रस्थत्रयं प्रस्थं
वा चतुर्गुणे वारिणि साधयित्वा मधुकुड़वेन कवोष्णं देयम् ।
२५ । स्तम्भो निश्चेष्टता ।
१ । कासशोणितमूर्च्छाश्च सशोणितकफोद्भवः । गः ।