अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
DevanagariHindipublished522 पृष्ठ
पृष्ठ 286, कुल 522 में से
संदर्भ में पढ़ेंपृष्ठ 286
२६४ अश्ववैद्यके [४१ अध्यायः ।
आमं विना यदा शूलो वाताद्भवति दारुणः ।
अनुवासने¹ ततस्तैलं दातव्यं पूर्व्वनोदितम् ॥ १२ ॥
दुर्गन्धं पिच्छिलं² भिन्नं पुरीषं श्लेष्मणावृतम् ।
आमं भवति वाहस्य पक्वञ्चैव विवर्जयेत् ॥ १३ ॥
आमं³ नैव प्रशंसन्ति वाजिशास्त्रविशारदाः ।
दौर्मनस्यारुचिम्लानिविट्प्रमूत्रग्रहकारकम् ॥ १४ ॥
दत्तानुवासने वाहे शुद्धकोष्ठे विचक्षणः ।
अपरेऽहनि भुञ्जीत प्रतिपानमिदं ततः ॥ १५ ॥
हरेणुकाञ्च कुष्ठञ्च भार्गीं दन्तीञ्च चित्रकम् ।
लवणं व्योषचूर्णञ्च सुरया पाययेद्भिषक् ॥ १६ ॥
घासार्थं दापयेच्चूर्णं पानं कोष्णं जलं तथा ।
एवं यदि सुखी न स्याद्वाहः कुक्षौ तदा भवेत् ॥ १७ ॥
१२ । पूर्व्वनोदितमित्यत्र पूर्व्वनोदिते इति पाठोयुक्तः