अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 274, कुल 522 में से
संदर्भ में पढ़ें२५२ अश्ववैद्यके [४० अध्यायः।
अप्राप्तौ चिष्टतादीनां तैलयुक्तेन सर्पिषा ॥ ५॥
वसायुक्तेन¹ चाभ्यङ्गं तिलतैलेन कारयेत् ।
कषायः पञ्चमूलस्य सुरागोमूत्रसंयुतः² ॥ ६ ॥
निरूहः पिप्पलीकल्कयुक्तोऽतीव प्रशस्यते ।
तैलैर्वातहरैः सम्यक् हितं तस्यानुवासनम् ॥ ७॥
पित्तज्वरचिकित्सा।
भोजनं³ विहितं तस्य स्निग्धैर्मांसरसौदनैः ।
निदानैः पित्तजननैः⁴ सेवितैः पित्तजो ज्वरः ॥ ८॥
स्वेददाहौ⁵ वपुःशोषो रक्तनेत्रश्च जायते ॥ ९ ॥
५ । अप्राप्तावित्येको योगः ।
६ । वसायुक्तेनेत्यपरो योगः । पञ्चमूलस्य पलदशकं वारिण-
ष्टाहकचतुष्टयं पक्त्वा पादशिष्टः कषायो ग्राह्यः । अथ तत्र पिप्पली-
कल्कस्य पलं सुरागोमूत्रयोः पलं पलं मिश्रयित्वा निरूहो देयः ।
७ । अथानुवासने तैलस्य प्रस्थो ग्राह्यः ।
८ । भोजने मांसरसो। वारिजानूपशूकरमहिषादिमांसैः सा-
धनीयः ।
९ । पित्तजनकैः कट्वम्लादिभिरित्यर्थः ।
१ । रसाभ्यङ्गेन चाभ्यक्तं । गः ।
२ । योजितः । गः ।
३ । विहितश्चास्य रोगस्य । गः ।
४ । पित्तकरैः । गः ।
५ । स्वेददाहयुतः सोष्मा । गः ।