अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 285, कुल 522 में से
संदर्भ में पढ़ें४३ अध्यायः।] शूलरोगविवरणम् । २६३
सौभिन्नेविबन्धचिकित्सा।
सौभिन्ने च विबन्धे च कृत्वा स्वेदं विचक्षणः।
वक्ष्यमाणां ततः प्राज्ञः कुर्याद्वर्त्तिक्रियामिमाम् ॥ ७ ॥
आगारधूमं सुरसं पिप्पलीं सर्षपं वचाम् ।
सिन्धुवारीञ्च गुण्ठीञ्च तथा लवणपञ्चकम् ॥ ८ ॥
सुचूर्ण्य१ च ततो वर्त्तिं कुर्यात्तप्तगुडेन तु ।
दैर्घ्यमष्टाङ्गुलं तस्याः स्थौल्यञ्चाङ्गुष्ठसम्मितम्२ ॥ ९ ॥
प्रक्षिपेत्तां गुदेऽश्वस्य व्योषचूर्णावचूर्णिताम् ।
सैन्धवक्षौद्रलिप्तान्तु मलप्रच्युतिकारिणीम्३ ॥ १० ॥
वर्त्त्यापहृतदोषस्य४ वर्त्युक्तै५र्भेषजैस्ततः ।
सुराकाञ्जिकगोमूत्रैः प्रयुञ्जीतानुवासनम्६ ॥ ११ ॥
८-१०। सुरसं गन्धतृणं । सिन्धुवारीं मोचरसं। लवणपञ्चक-
मुक्तं । दूथमागारधूमादिवर्त्तिः कथ्यते ।
११। शूले पिण्डमाह नकुलः-“सैन्धवं नागरं श्यामा गुडूची
सितसर्षपाः। अम्लवेतससंयुक्तः पिण्डोऽयं शूलनाशनः” इति॥ वस्त्य-
धिकारकथितौषधिमिश्रैः सुरादिभिरनुवासनवस्तिं प्रदद्यादित्यर्थः॥
१। संचूर्णितैस्तु । गः।
२। स्थौल्येनाङ्गुलिसम्मितं । गः ।
३। सैन्धवं क्षौद्रलिप्ताङ्गं मलप्रच्युतिकारकम् । गः।
४। वर्त्तिप्रहृतदोषस्य । गः ।
५। वस्त्युक्तैः । खः ।
६। अनुवासनं प्रयुञ्जीत सुरागोमूत्रकाञ्जिकैः । गः ।