सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

LIST OF BOOKS FOR SALE
AT THE LIBRARY OF THE
ASIATIC SOCIETY OF BENGAL,
No. 57, PARK STREET, CALCUTTA.
AND OBTAINABLE FROM
THE SOCIETY'S LONDON AGENTS, MESSRS. TRÜBNER & CO.
57 AND 59, LUDGATE HILL, LONDON, E. C.
BIBLIOTHECA INDICA.
Sanskrit Series.
Atharvaṇa Upanishad, (Sanskrit) Fasc. I—V @ /6/ each .. Rs. 1 14
Agni Puráṇa, (Sans.) Fasc. I—XIV @ /6/ each .. .. 5 4
Aitareya Áraṇyaka of the Rig Veda, (Sans.) Fasc. I—V @ /6/ each .. 1 14
Aphorisms of Sáṇḍilya, (English) Fasc. I .. .. 0 6
Aphorisms of the Vedánta, (Sans.) Fasc. III—XIII @ /6/ each .. 4 2
The Asvavaidyaka, Fasc. I—III .. .. .. 1 2
Asvalayana Grihya Sutra, Fasc. II—IV @ /6/ .. .. 1 2
Brahma Sútra, (English) Fasc. I .. .. .. 0 12
Bhámatí, (Sans.) Fasc. I—VIII @ /6/ each .. .. 3 0
Bṛihad Áraṇyaka Upanishad, (Sans.) Fasc. VI, VII & IX @ /6/ each .. 1 2
Ditto (English) Fasc. II—III @ /6/ each .. .. 0 12
Bṛihat Saṁhitá, (Sans.) Fasc. I—III, V—VII @ /6/ each .. 2 4
Chaitanya-Chandrodaya Náṭaka, (Sans.) Fasc. II—III @ /6/ each .. 0 12
Chaturvarga Chintámaṇi, (Sans.) Vols. I, Fasc. 1—11; II, 1—25; III,
1—14, @ /6/ each Fasc. .. .. .. 18 12
Chhándogya Upanishad, (English) Fasc. II .. .. 0 6
Dasarupa, Fasc. II and III @ /6/ .. .. 0 12
Gopatha Bráhmaṇa, (Sans. & Eng.) Fasc. I and II @ /6/ each .. 0 12
Gobhilíya Gṛihya Sútra, (Sans.) Fasc. I—XII @ /6/ each .. 4 8
Hindu Astronomy, (English) Fasc. I—III @ /6/ each .. 1 2
Kálamádhaba, Fasc. I and II @ /6/ .. .. .. 0 12
Kátantra, (Sans.) Fasc. I—VI @ /12/ each .. .. 4 8
Kathá Sarit Ságara, (English) Fasc. I—XIII @ /12/ each .. 9 12
Kaushitaki Brahmanapanishads, Fasc. II .. .. 0 6
Kúrma Purana, Fasc. I .. .. .. 0 6
Lalitá-Vistara (Sans.) Fasc. II-VI. @ /6/ .. .. 1 14
Lalita-Vistara, (English) Fasc. I—III @ /12/ each .. 2 4
Manutiká Sangraha, Fasc. I—II @ /6/ each .. .. 0 12
Mímáṁsá Darṣana, (Sans.) Fasc. II—XVIII @ /6/ each .. 6 6
Márkaṇḍeya Puráṇa, (Sans.) Fasc. IV—VII @ /6/ each .. 1 8
Nṛisiṁha Tápaní, (Sans.) Fasc. I—III @ /6/ each .. 1 2
Nirukta, (Sans.) Vol. I, Fasc. 1—6; Vol. II, Fasc. 1—6, Vol. III, Fasc. 1—6
@ /6/ each Fasc. .. .. .. 6 12
Nárada Smṛiti, Fasc. I and II @ /6/ .. .. 0 12
Nyáya Darśana, (Sans.) Fasc. III .. .. .. 0 6
Nítisára, or The Elements of Polity, By Kámandaki, (Sans.) Fasc. II—V
@ /6/ each .. .. .. .. 1 8
(Continued on third page of cover.)

२८ अध्यायः ।] मुखरोगविवरणम् । १८३
उत्कर्णकोऽर्दितश्चैव मन्यास्तम्भो हनुग्रहः ।
आक्षेपो मृगजृम्भश्च मन्याचालीमृगस्तथा ॥ ४ ॥
कपोतको निषादश्च तथाचैकाङ्गसंज्ञकः ।
रोगः पृष्ठग्रहो नाम भ्रामिताक्षस्तथैव च ॥ ५ ॥
उन्मादो ग्रहदोषश्च शोषो वातवलासकः ।
व्यापदो लवणैर्धान्यैः सुरया पयसा तथा ॥ ६ ॥
विषापस्मारदोषौ च षट्‌पादी लक्षणन्तथा ।
इत्ययं व्याधिनिर्देशः कृतः शास्त्रार्थतत्त्वतः ॥ ७ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे व्याधि-
निर्देशोऽष्टाविंशोऽध्यायः ॥ २८ ॥
अथैकोनत्रिंशोऽध्यायः ।
मुखरोगः ।
उपकुशस्तथा लेश्रो जिह्वास्तम्भस्तथैव च ।
अलावूकः प्रसूनश्च दन्तरोगो गलग्रहः ॥ १ ॥
४-५ । अर्दितादिभ्रामिताक्षान्ता वातव्याधिरोगविशेषाः । एषां
लक्षणादिकं वातव्याध्यधिकारे द्रष्टव्यम् ।
25

१६४ अश्ववैद्यके [२६ अध्यायः ।
मुखपाकोऽधिदन्तश्च रोहिणी चोपजिह्विका ।
गण्डरोगौष्ठरोगौ च गलशालूक एव च ॥ २ ॥
इत्येते वाजिनां रोगा मुखजाः परिकीर्त्तिताः ।
एषां निदानं वक्ष्यामि चिकित्साञ्च यथाक्रमम् ॥ ३ ॥
मुखरोगनिदानलक्षणे ।
समेभ्यो दन्तमांसेभ्यो यस्य निर्य्याति शोणितम् ।
चलदन्तस्य१ वाहस्य विद्यादुपकुशं भिषक् ॥ ४ ।
हनुदेशे यदा दन्तो भवत्यभ्यन्तराश्रयः ।
आश्लेष२ इति तं विद्यात् श्लेष्मरक्तसमुद्भवम् ॥ ५ ॥
तेनाश्वो दुर्मनात्यर्थं मन्दं पिवति खादति ।
जर्जरं कासते चैव वलाच्च परिहीयते ॥ ६ ॥
शूना३ यस्य भवेज्जिह्वा वाजिनः स्फोटकैर्युता ।
प्रक्लिन्ना वापि यस्यैव जिह्वा स्तम्भीति तं विदुः ॥ ७ ॥
मुखं दुर्गन्धिकं चैव तालुकः शूनको भवेत् ।
ग्रासविद्वेषिणोऽश्वस्य रोगं विद्यादलावुकम्४ ॥ ८ ॥
७ । शूना स्फीता ।
१ । जातदन्तस्य । खः । ३ । श्वेताः । गः ।
२ । आक्षोराद्रवितं । गः ४ । स्याद्दन्ततालुकम् ।

२६ अध्यायः।] मुखरोगविवरणम् । १८५
श्यावौष्ठतालुवक्त्रे¹ वा मन्दाहारे तथैव च ।
संशीर्णे दन्तमांसे च प्रन्नूनं व्याधिमादिशेत् ॥ ९ ॥
हन्वोश्चैव तथा गण्डे श्वयथुर्यस्य जायते ।
जिह्वामूले गले चापि तस्य विन्द्याद्गलग्रहम् ॥ १० ॥
सृक्कौष्ठतालुदेशेषु व्रणं यस्योपजायते ।
विवर्णन्तु मुखं दुष्टं मुखपाकं तमादिशेत् ॥ ११ ॥
दन्तानामुपरिष्टात्तु यदा दन्तस्य सम्भवः ।
अधिदन्तः स विख्यातो मन्दाहारस्य वाजिनः ॥ १२ ॥
यस्य शूनाक्षिकूटस्य गळे शोथः प्रलम्बते ।
यवसद्वेषिणोऽश्वस्य रोहिणीरोगमादिशेत् ॥ १३ ॥
अधस्तादथ जिह्वायाः श्वयथुर्यस्य जायते ।
तं विन्द्यादुपजिह्वाख्यं मुखरोगन्तु वाजिनाम् ॥ १४ ॥
अधिजिह्वाभिधानन्तु उपरिष्टाद् विनिर्दिशेत् ।
गण्डाभ्यन्तरगो² गण्डो गण्डरोग इति स्मृतः ॥ १५ ॥
सव्रणः पिड़काकीर्ण ओष्ठ³ उच्छून एव च ।
८। श्यावौष्ठतालुवक्त्रमित्यत्र श्यावः कृष्णवर्णः ।
१३। शूनाक्षिकूटस्य स्फीताक्षिकोटरस्य ।
१ । श्यावौष्ठतालुवक्त्रं वा मन्दाहारं तथैव च ।
२ । गण्डाभ्यन्तरयोः । गः ।
३ । ओष्ठयोः मूल एव च । गः ।

१६६ अश्ववैद्यके [२६ अध्यायः।
स्फुटितः कठिनश्चैव ओष्ठरोगोऽभिधीयते ॥ १६ ॥
गलाभ्यन्तरशोथेन¹ ग्रासमुद्गिरते हयः ।
गलशालूकितं विन्द्यात् काशार्त्तञ्च तुरङ्गमम् ॥ १७॥
सर्व्वेषां मुखरोगाणां सम्भवः श्लेष्मशोणितम्² ।
चिकित्सां तेषु वक्ष्यामि येन शाम्यन्ति वाजिनाम् ॥१८॥
मुखरोगचिकित्सा ।
विध्यत्तालुशिरां पूर्व्वं तुरङ्गरस्य विचक्षणः ।
अधिमांसं ततो विन्द्याद्यावृत्तास्यस्य शस्त्रकैः ॥ १९ ॥
जिह्वास्तम्भे तु जिह्वायाः प्रक्षालं कारयेद्भिषक् ।
प्रतिसार्य्याञ्चजिह्वान्तु लवणैः षट्चूर्णकैः ॥ २०॥
वेधकालात् समारभ्य रात्रिमेकां न दापयेत् ।
वासयन्तेन वाह्यस्य निवातस्थस्य बुद्धिमान् ॥ २१ ॥
प्रतिपानं प्रभाते तु पिप्पलोशृङ्गवेरकैः ।
पुनर्णवावचाशिग्रुकरञ्जानिम्बपञ्चकान् ॥ २२ ॥
वायमाणाविडङ्गैश्च किञ्चिल्लवणसंयुतैः ।
१८ । शस्त्रकैरिति उत्पलपत्रेण व्रीहिपत्रेण वा शस्त्रेणेत्यर्थः ।
२० । प्रक्षालमिति मार्जनम् । षड़ित्यत्र कद्विति पाठो युक्तः ।
१ । गलाभ्यन्तरतो यो वे । गः ।
२ । श्लेष्मशोणितात् । खः ।

२६ अध्यायः ।] मुखरोगविवरणम् । १८७
सुरया दापयेत् सम्यग् घासं शुष्कं तथैव च ॥ २३ ॥
करञ्जनिम्बपत्राणां कथितञ्च सुसंस्कृतम् ।
भोजयेत्तिक्तमुद्गांश्च तैलत्रिकटुकान्वितान् ॥ २४ ॥
मृदुभिर्दन्तकाष्ठैश्च कटुचूर्णावचूर्णितैः ।
गवां मुत्रेण तेषान्तु मुखप्रक्षालनं हितम् ॥ २५ ॥
शृङ्गवेरेण पिप्पल्या वचया सर्वपार्द्रकैः ।
हितं प्रलेपं कुर्व्वीत शोथेषु च विचक्षणः ॥ २६ ॥
त्रिफलाक्वाथयुक्तस्य हितं पानञ्च गुग्गुलोः ।
यवांश्च खादने दद्यान्माषादींश्च विवर्जयेत् ॥ २७ ॥
अधिदन्तन्तु सन्दंशैः कर्षयित्वा विचक्षणः ।
चिकित्सां पूर्व्वमुद्दिष्टां कुर्व्वीत तदनन्तरम् ॥ २८ ॥
कृमिभिर्भक्ष्यमाणानां दन्तानामुपकर्षणम् ।
अधिदन्ते च कुर्व्वीत आलेपञ्च विचक्षणः ॥ २९ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे मुखरोगे
एकोनत्रिंशोऽध्यायः ॥ २९ ॥
२१ । प्रतिपानं न दापयेदिति पूर्व्वेषु पाठ्यः ।

[ १६८ ]
अथ त्रिंशोऽध्यायः ।
अक्षिरोगः ।
अथातः संप्रवक्ष्यामि नेत्ररोगविनिश्चयम् ।
पूर्व्वशास्त्रानुसारेण मुनिभिः कीर्त्तितं यथा ॥ १ ॥
तोयस्रावः प्रसन्नान्धो नक्तान्धस्तिमिरस्तथा ।
मुञ्जको मुञ्जजालञ्च पटलं बुद्बुदस्तथा ॥ २ ॥
पूयस्रावश्च काचाक्षो रक्तस्रावस्तथैव च ।
चिपिटो वर्त्मरोगश्च अभिष्यन्दस्तथैव च ॥ ३ ॥
वातपित्तकफैर्दुष्टैर्नेत्ररोगा भवन्त्यमी ।
लिङ्गं चिकित्सितं तेषां प्रवक्ष्याम्यनुपूर्व्वशः ॥ ४ ॥
वातिकाक्षिरोगनिदानलक्षणानि ।
अजस्रं पश्यतां व्यस्रु स्वच्छं स्रवति चक्षुषः ।
तोयस्रावीति तं विन्द्याद्विकारं मारुतात्मकम् ॥ ५ ॥
शुद्धन्तु चक्षुषा रूपं नैव पश्यति यो हयः ।
प्रसन्नान्धः स विज्ञेयो नतु शक्यश्चिकित्सितुम् ॥ ६ ॥
दिवा पश्यति यः स्वच्छं रात्रौ चैव न पश्यति ।
नक्तान्ध इति तं विद्याद्विकारं पवनोद्भवम् ॥ ७ ॥
कदाचिदीक्षते रूपं कदाचिच्च न वोक्षते ।
तिमिरं तं विजानीयाल्लिङ्गेनानेन बुद्धिमान् ॥ ८ ॥

३० अध्यायः ।] नेत्ररोगविवरणम्। १६६
तच्चिकित्सा ।
घृतं पक्वं प्रदातव्यं देयञ्च चिफलान्वितम् ।
सन्तर्पणञ्च कुर्वीत नेचयोस्तदनन्तरम् ॥ ९ ॥
निपात्य भूमौ तुरगं दृढं बद्ध्वा सुयन्त्रितम् ।
माषचूर्णस्य कल्केन परिवार्य्याक्षि¹ सर्व्वतः ॥ १० ॥
घृतेन पयसा वापि पूरयेत्तं विचक्षणः ।
विधिरेष समुद्दिष्टो नेचसन्तर्पणः सदा² ॥ ११ ॥
अपरश्च सुखोपायो विधिः सन्तर्पणः³ स्मृतः ।
तूलं⁴ स्नेहेन सम्भाव्य⁵ नयनाभ्यन्तरे क्षिपेत् ॥ १२ ॥
तस्योपरि श्लथं पट्टं बध्नीयाद्वा⁶ दृश्रोपरि ।
बद्धपट्टं पुनर्नेचं मुहुः स्नेहेन सेचयेत् ॥ १३ ॥
उत्पलं चन्दनञ्चैव तथासौवीरकाञ्जनम् ।
वर्त्तिं कृत्वा ततः प्राज्ञस्तिमिरं नित्यमञ्जयेत् ॥ १४ ॥
९ । नेचसन्तर्पणद्वयमाह । घृतमिति ।
१२ । द्वितीयं सन्तर्पणमाह । अपर इति ।
१४ । उत्पलं नीलोत्पलं । (नीलशुन्दि) । चन्दनं रक्त-
चन्दनम् । एषां समभागं पयसा पिष्ट्वा वर्त्तिः कार्य्या । सौवीरकाञ्जनं
नीलवर्णाञ्जनविशेषः । तदुक्तं “सौवीरकं पार्व्वतेयं मेचकं नील-
मञ्जनम्” इति मुक्तावलौ ॥
१ । परिव्याप्याक्षि । खः । ४ । चूर्णं । गः ।
२ । नेचसन्तर्पणे तदा । खः । ५ । संप्राप्य । गः ।
३ । सन्तर्पणे । खः । ६ । बध्नीयादाससो भिषक् । खः ।

२०० अश्ववैद्यके [३० अध्यायः।
तोयस्रावस्य वाह्यस्य प्रसन्नान्धस्य वा पुनः ।
एतदेवाञ्जनं श्रेष्ठं तिमिरे यत्प्रकीर्त्तितम् ॥ १५ ॥
रसाञ्जनं गुडञ्चैव मधुकं क्षौद्रमेव च ।
रजन्या सहिता वर्त्तिर्नक्तान्धस्याञ्जनं परम् ॥ १६ ॥
सप्त कृत्वोष्ट कृत्वो वा शोषयित्वा पुनः पुनः ।
भावयेत्कर्पटं क्षौमं१ क्षीरेणाज्येन बुद्धिमान् ॥ १७ ॥
सुरामण्डेन तद्भूयो भावयित्वा विचक्षणः ।
वर्त्तिं कृत्वा घृताभ्यक्तां घृतदीपे प्रदापयेत् ॥ १८ ॥
प्रच्छन्ने ताम्रपात्रेण तं दीपं छादयेन्मनाक् ।
तस्मात्कज्जलमादाय ताम्रपात्राद्विचक्षणः ॥ १९ ॥
तोयस्रावं प्रसन्नान्धं नक्तान्धं तिमिरन्तथा ।
अञ्जयेन्मतिमान् वैद्यः शीषकस्य शलाकया ॥ २० ॥
१६ । मधुकं (यष्टिमधु) । रजन्या हरिद्रया । रसाञ्जनादिकं
समभागं ग्राह्यम् ।
१७ । कर्पटो वस्त्रकं (लाताकानौ) । एतं कर्पटं दुग्धघृतेन सप्त-
वारमष्टवारं वा भावयित्वा शोषयेत् । अथ सुरामण्डेन संमर्घ्य वर्त्तिः
कार्या ।
१८ । सुरामण्डः सुराभागः सुराग्रभागो वा । “सुरामण्डः
प्रसन्नः स्यात्” इति परिभाषा ।
१ । क्षौद्रम् । गः ।

३० अध्यायः।] नेत्ररोगविवरणम्। २०१
पैत्तिकाक्षिरोगलक्षणानि ।
अधोमुखस्तु यो वाजी मिलिताक्षस्तथैव च ।
सूनाभ्याञ्चैव नेत्राभ्यामुष्णमश्रु विमुञ्चति ॥ २१ ॥
लोचनं काचसङ्काशं यस्याकस्मात् प्रजायते ।
काचं पित्तात्मकं रोगं तस्य विद्वान् समादिशेत् ॥ २२ ॥
लोहितं पित्तकञ्चैव हरितं नीलकन्तथा ।
पित्तनिष्यन्दिनोऽश्वस्य नेत्रमाशु प्रजायते ॥ २३ ॥
तच्चिकित्सितम् ।
प्रपौण्डरीकं मधुकं चन्दनं लोध्रमेव च ।
एकीकृत्य जले न्यस्तं नेत्रस्योत्तानमुत्तमम् ॥ २४ ॥
यष्टीमधुकयुक्तञ्च परिषेकाय गोपयः ।
चन्दनोशीरतोयैश्च पानं दद्यात् सयष्टिकैः ॥ २५ ॥
अश्रुपाते शिरावेधो हितश्चापि हि कीर्त्तितः ।
गैरिकं मधुकं शङ्खं लोध्रमुत्पलमेव च ॥ २६ ॥
२४ । प्रपौण्डरीकं (पुण्डरिया) । चन्दनं रक्तचन्दनं । एषां
पलिको भागो जलस्य चाढ़को ग्राह्यः । उत्तानमिति उद्धतः स्थाने
विस्तारो यस्मात् सः । नेत्रविस्तारकारीत्यर्थः । गोपयो गोमूत्रं ।
२५ । गोमूत्राढ़के यष्टिमधुकपलं दत्वा तेन वारिणा नेत्रसेकः
कर्त्तव्य इत्यर्थः । परिषेकाय सेचनाय । चन्दनादीनां पलं । वारिण
आढ़कः पादशेषः कार्य्यः ।
26

२०२ अश्ववैद्यके [३० अध्यायः
आमलकया रसेनेतत् समभागं तथैव च ।
शिलामालिख्य संशोष्य तत्कल्कं चूर्णयेदधः ॥ २७॥
स्रोतोऽञ्जनं समं दद्यात्तित्तिताय न मारयेत् ।
जम्बूककुभशाखानामामलक्या वटस्य च ॥ २८ ॥
पुष्पाण्युद्धृत्य सर्व्वेषां यथाप्राप्तानि वा पुनः।
फलानि वा समाहृत्य कल्कं कृत्वा विचक्षणः ॥ २९ ॥
भोजयेद्घृतमध्वाक्तं कटुकाम्लञ्च वर्ज्जयेत् ॥ ३० ॥
प्रचारलक्षणचिकित्सितम् ।
प्रच्छादयति यद्दृष्टिं मांसं पर्यन्तवर्द्धितम्१।
प्रचारकाख्यं तं विन्द्यान्नेत्ररोगं कफात्मकम् ॥ ३१ ॥
क्षितौ निपात्य तुरगं ततो नेत्रं प्रसारयेत् ।
कृतकर्म्मा भिषग्विद्वान्२ बड़िशेनाक्षिवर्त्मनि ॥ ३२ ॥
२६-२८। गैरिकां (गिरिमाटि)। शङ्खं (शंखचूर्णं)। स्रोतोऽञ्जनं
नदीजमञ्जनं । "स्रोतोऽञ्जनं नदीजञ्च बाह्लीकञ्च जयामलम्” ॥
इति परिभाषा ॥
२८-३० । जम्ब्वादीनां पुष्पाणां फलानां वा चूर्णं मिलितं
पलं । जम्बूः (जाम)। ककुभोऽर्जुनः ।
१ । पर्य्यानुवर्द्धितम् । खः ।
२ । विद्यात्त्वरितेनाक्षिवर्त्मना । गः ।

३० अध्यायः ।] नेत्ररोगविवरणम्। २०३
ततस्तीक्ष्णेन शस्त्रेण छिन्द्यात्प्रावरकं बुधः ।
तारकस्य यथा पीड़ा जायेत न मनागपि ॥ ३३ ॥
शुद्धं तत् पूरयेन्नेचं मधुना सैन्धवेन वा ।
प्रक्षाल्य चोत्थाप्य ततः शंखजां वेधयेच्छिराम् ॥ ३४ ॥
कुष्ठेन वचया चव्या तथा चिकटुकेन च ।
प्रतिपानं प्रदातव्यं सुरया लवणैः सह ॥ ३५ ॥
निर्व्यातं विहितं स्थानं ग्रासे दूर्व्वा च पूजिता ।
गुरु भक्ष्यं न दातव्यं मधुरञ्च विशेषतः ॥ ३६ ॥
काचलक्षणचिकित्सा ।
श्लेष्माभिष्यन्दिनोऽश्वस्य नूनं साश्रु विलोचनम् ।
काचः संजायतेऽश्वस्य पाण्डुता चापि चक्षुषः १ ॥ ३७ ॥
पिप्पलीञ्चैव लोध्रञ्च तथा कटुकरोहिणीम् ।
चिफलां पिचुमर्दञ्च गवां मूत्रेण साधयेत् ॥ ३८ ॥
तेन पादावशेषेण क्षौद्रयुक्तेन बुद्धिमान् ।
गालितेन सुखोष्णेन सेचयेदाजिलोचनम् ॥ ३९ ॥
३५। अत्र कुष्ठादीनां चूर्णं मिलितं पलं। सुरायाः प्रस्थः ।
सैन्धवस्य च पलम् । एकत्र प्रतिपानं देयम् ॥
३६ । गुरुभक्ष्यमिति गुरुपाकं भोज्यद्रव्यम् ॥
३८-३९। पिप्पल्यादीनां पलं गोजलाढ़के पक्ता पादशेषः
कार्य्यः। पिचुमर्द्दो निम्बः ।
१। वातचक्षुषो । गः ।

२०४ अश्ववैद्यके [३० अध्यायः।
कटुतैलं कषायेण पाचितं चाम्बुनैव तु ।
विडङ्गकल्कसंयुक्तं नस्यार्थे च प्रकीर्त्तितम् ॥ ४० ॥
गैरिकं शृङ्गवेरञ्च अञ्जनं वृहतीफलम् ।
मरिचं पिप्पलीचैव विडङ्गं सैन्धवन्तथा ॥ ४१ ॥
एतानि समभागानि सूक्ष्मचूर्णानि कारयेत् ।
संस्थाप्य भाजने ताम्रे गवां मूत्रेण भावयेत् ॥ ४२ ॥
बहुशो भावयित्वा तु पुनः श्लक्ष्णं प्रपेषयेत् ।
चूर्णाञ्जनमिदं श्रेष्ठं नेत्ररोगे कफात्मके ॥ ४३ ॥
रक्ताक्षिरोगलक्षणानि ।
रक्ताभिष्यन्दिनेोऽश्वस्य नेत्रं भवति लोहितम् ।
सर्व्वं त्रिभागमद्धं वा स्रावरुग्दाहपीडितम् ॥ ४४ ॥
रक्तस्रावोऽथवा यस्य वाजिनो१ लोचनाद्भवेत् ।
रक्तस्रावाभिधानन्तु नेत्ररोगं समादिशेत् ॥ ४५ ॥
४० । कषायेणेति पूर्व्वोक्तपिप्पल्यादिकषायेण । अत्र विडङ्ग-
कल्कस्य स्नेहपादिको देयः ।
४१ । अञ्जनं सौवीराञ्जनं रसाञ्जनं वा ।
४४। श्रवमुद्ग्राहपीडितमिति न साधुः ॥
१। अद्य वाद्यस्य भ्राजिनः । गः ।

३० अध्यायः ।] नेत्ररोगविवरणम् । २०५
अभिघाताद्भवेऽश्वस्य१ नेत्ररोगः प्रकीर्त्तितः ।
शिरःशस्त्राभिघातश्च२ रक्तसन्धिश्च षण्डकः ॥ ४६ ॥
तच्चिकित्सा ।
चिकित्साञ्चैव वक्ष्यामि यथादृष्टां३ समासतः ।
येन शाम्यन्ति वाहानां रक्तजाश्चक्षुषो रुजः४ ॥ ४७ ॥
ऐन्द्रीं तालीशपत्रञ्च मञ्जिष्ठां मधुकं निशाम् ।
कालानुसारिवां मूर्वी वारिणा सह साधयेत् ॥ ४८ ॥
तेन शीतेन सिद्धेन५ नेत्रमाश्च्योतयेद् भिषक् ।
वर्त्त्यञ्जनमिदं कुर्याद् यथादृष्टमतन्द्रितः६ ॥ ४९ ॥
विभीतफलं लोध्रं काश्मर्य्याश्च फलं तथा ।
मधुकं शर्कराचैव गैरिकं सरसाञ्जनम् ॥ ५० ॥
४८ । ऐन्द्री (राखालशशामूल) । कालानुसारिवा (शिउलि-
छोप) वा (तगरपादुका) ।
४९ । आश्च्योतयेत् आसेचयेत् ।
५० । काश्मरी (गाम्भारी) ।
१ । अभिघातो भवेद् यस्य नेत्ररोगः प्रवर्त्तते । गः ।
२ । शिरोरोगाभिघातश्च रक्तं स्रवति चक्षुषः ॥ खः ।
३ । यथोद्दिष्टं । खः ।
४ । गदाः । गः ।
५ । तेन पृष्टेन शुद्धेन । खः ।
६ । वर्त्त्यञ्जनं ततः कुर्याद्यदुद्दिष्टमिदंबुधैः । खः ।
७ । तथाचैव रसाञ्जनम् । खः ।

२०६ अश्ववैद्यके [१० अध्यायः ।
एतानि समभागानि क्षौद्रेण सह योजयेत् ।
हन्याद्दाहञ्च रक्तञ्च वर्त्तिरेषा जलाम्विता ॥ ५१ ॥
मञ्जिष्ठां हरितालञ्च लोध्रं बालकमेव च ।
रेणुकञ्च तथा कुष्ठमूशीरञ्च मनःशिलाम् ॥ ५२ ॥
पेषयित्वोदकेनैव¹ छायायां परिशोषयेत् ।
जलसृष्टेयमश्वस्य वर्त्तिर्नेत्ररुजापहा ॥ ५३ ॥
पटललक्षणम् ।
अधस्तादुपरिष्टाद्वा पटलं यस्य जायते ।
रुणद्धि नयने सद्यः तथा नैव² क्रमेण च ॥ ५४ ॥
हरितं नीलकं पित्ताद् वाताद्वा³ लोहितं भवेत् ।
ईषत्पीतं घनं शुक्लं⁴ पटलं श्लेष्मसम्भवम् ॥ ५५ ॥
सङ्कीर्णवर्णं विज्ञेयं सन्निपातसमुद्भवम् ।
असाध्यं तं विजानीयात् कृच्छ्रसाध्यमथापि वा ॥ ५६ ॥
५४ । पटलं नेत्ररोगविशेषः । स च चतुर्विधो दृष्टेरावरकच्छ-
दिरूपः । तेषु प्रथमं वाह्यं पटलं रसरक्ताश्रयं । द्वितीयं मांसाश्रयं ।
तृतीयं मेदःसंश्रितं चतुर्थञ्च कालकास्थिसंश्रितम् । तदुक्तं सुश्रुते ।
“तेजोजलाश्रितं वाह्यं तेष्वन्यत् पिशिताश्रितं । मेदस्तृतीयं पटल-
माश्रितं त्वस्थि चापरम्” इति ॥
५६ । सङ्कीर्णवर्णं हरितादिमिश्रवर्णमित्यर्थः ।
१ । पेषयेत्सूदके चैव । गः । ३ । वाताल्लोहितकं भवेत् । गः ।
२ । चैव । खः । ४ । मुक्लं । खः ।

१० अध्यायः ।] . नेत्ररोगविवरणम् । २०७
कृष्णञ्च रक्तजं विद्यात् पटलं शास्त्रकोविदः ।
अत ऊर्द्धं प्रवक्ष्यामि यथायोगं चिकित्सितम् ॥ ५७॥
तच्चिकित्सा ।
पटलेषु च सर्वेषु शिरावेधः प्रशस्यते ।
अश्रुपाते प्रपाणे च ललाटे चैव शंखयोः ॥ ५८ ॥
श्लेष्मजस्य हितं दृष्टमञ्जनं मधुसैन्धवम् ।
पटलस्य गवां मूत्रं क्षौद्रयुक्तञ्च सैन्धवम् ॥ ५९ ॥
तुत्थकं¹ सैन्धवं चैव हरितालं मनःशिलाम् ।
गवां मूत्रेण संपिष्य मरिचञ्च विचक्षणः ॥ ६० ॥
अञ्जयेत् कफजां प्राज्ञो मधुना पटलं भिषक् ।
पटले मांसकीले च चूर्णमेतत् प्रदापयेत् ॥ ६१ ॥
एष एव प्रदातव्यो वातिके घृतसंयुतः ।
पैत्तिके रक्तजे चैव² अत ऊर्द्धं क्रियां शृणु ॥ ६२ ॥
प्रपौण्डरीकं मधुकं शंखं मुक्ता प्रवालकम् ।
एतानि समभागानि जले पिष्ट्वा विचक्षणः ॥ ६३ ॥

६२ । एष योगः इत्यर्थः ।
६३ । शंखादीनां भस्म ग्राह्यम् ।

१ । गोदन्तं । खः ।
२ । चञ्जयेच्चैव तदूर्द्धं । गः ।

२०८ अश्ववैद्यके [३० अध्यायः ॥
वर्त्तिं कृत्वा ततश्चैव शोधयेत्तां विनातपम्¹ ।
ततस्तां सलिलैः पिष्ट्वा अञ्जयेत् पटलं भिषक् ॥६४॥
चिफलां सघताञ्चैव रक्तपित्तसमुद्भवे ।
पटले पाययेदश्वं² विकाले चैव बुद्धिमान् ॥ ६५ ॥
वर्त्मजं मांसकीलञ्च पिडकञ्चैव शस्त्रकैः³ ।
उत्कृत्य⁴ खोभ्रचूर्णेन अञ्जयेत् सैन्धवेन च ॥ ६६ ॥
मुञ्जजालचिकित्सा ।
एकेन मुञ्जमाख्यातं⁵ बहुभिर्मुञ्जजालकम्⁶ ।
क्रिमिभिः पटलान्तःस्थैर्विन्द्या°न्नेत्ररुजादयम् ॥ ६७ ॥
प्रथमं तैलवर्णाभं द्वितीयं स्फटिकप्रभम् ।
रक्ताभञ्च तृतीयञ्च चतुर्थं तैलमुच्यते ॥ ६८ ॥
प्रथमं पटलं साध्यं द्वितीयञ्च तथा भवेत् ।
तृतीयं कृच्छ्रसाध्यं स्याच्चतुर्थं नैव सिध्यति ॥ ६९ ॥
६५। अत्र त्रिफलायाः पलं घृतस्य च तथा एकच पायये-
दित्यर्थः ।
१ । दिनात्यये । खः ।
२ । दापयेत् । ग० । ५ । मुञ्जिकाख्या तु । खः ।
३ । शास्त्रतः । खः । ६ । मुञ्जकाजकम् । खः ।
४ । प्रोञ्छयेत् । खः । ७ । विद्यात् । ग० ।

· १० अध्यायः ।] नेत्ररोगविवरणम् । २०६
तच्चिकित्सा ।
पातयित्वा हयं १ भूमौ कृत्वा चैव सुयन्त्रितम् ।
वर्त्मनी वेधयेत् सूच्या सूत्रे नेत्रं प्रसारयेत् ॥ ७० ॥
कर्पटेनाश्रुवेगन्तु शुष्केनैवापकर्षयेत् ।
स्थापयेद्वाजिनं तन्तु प्रत्यादित्यं विचक्षणः ॥ ७१ ॥
शस्त्रं सूत्रेण संवेष्ट्य तीक्ष्णमाचन्तु २ कारयेत् ।
कृष्णशुक्लाम्बर ३धरे। वेधयेद्वाजिनेाचने ॥ ७२ ॥
अङ्गुष्ठेन ततेा नेत्रं पीडयित्वा समाहितः ।
मुञ्जकं कर्षयित्वा तु जले क्षिप्रं प्रकाशयेत् ॥ ७३ ॥
मुञ्जमुद्धृत्य नेत्रन्तु गोमूत्रेणाऽवसेचयेत् ।
क्षौद्राज्यं पूरितं कृत्वा श्लथवस्त्रेण वेष्टयेत् ४ ॥ ७४ ॥
वहिःप्रलेपं कुर्व्वीत पञ्चवल्कलकेन तु ।
कल्केन घृतयुक्तेन त्र्यहात्पट्टं विमोक्षयेत् ५ ॥ ७५ ॥
७१ । कर्पटेन वस्त्रकेन । प्रत्यादित्यमादित्याभिमुखम् ।
७२ । शस्त्रं उत्पलपत्रं व्रीहिपत्रं वा सूत्रेण संवेष्ट्य तीक्ष्णमात्रं
धारामात्रावशिष्टं कारयेदित्यर्थः ॥
७३ । मुञ्जनिष्काशनन्तरं औषधमाह क्षौद्रेत्यादि ।
१ । ततः । गः । ४ । विशोधयेत् । खः ।
२ । नित्यमात्रम् । गः । ५ । त्र्यहादूर्द्धं प्रमोचयेत् । खः ।
३ । कृष्णशुक्लान्तरे चैव । गः ।
27

२१० अश्ववैद्यके [१० अध्यायः ।
मुञ्जकोक्तविधिः सर्व्वो मुञ्जजाले विशिष्यते ।
रूढव्रणे ततः कुर्य्यात्पूर्वोक्तां पटलक्रियाम् ॥ ७६ ॥
प्रपौण्डरीकं मधुकं तथा लोहितचन्दनम् ।
एभिः कल्कीकृतैस्तैलं पाचितं त्रिफलाम्भसा ॥ ७७ ॥
नस्यं देयमशुद्धे तु तथा चैवापतर्पणम् ।
पिप्पली सैन्धवं शुण्ठी गैरिकं वरुणत्वचः ॥ ७८ ॥
गवोष्ट्रदशना श्चैव फेनश्चौदधिकस्तथा ।
क्षौद्रपिष्टैः समैरेभिरञ्जनं मुञ्जनाशनम् ॥ ७९ ॥
वर्त्मकुन्दचिकित्सा।
विभीतकास्थि सारेण¹ मधुयुक्तेन चाञ्जनम् ।
चक्षुषो यस्य वाहस्य पूयस्रावो विजायते² ॥ ८० ॥
वर्त्मकुन्देति³ यस्य स्यात्तस्य कुर्य्यात् क्रियामिमाम् ।
७७ । तैलस्य प्रस्थः। प्रपौण्डरीकादीनां कल्कः पलचतुष्टयमितः
त्रिफलाक्वाथेन पाच्यः ॥ प्रपौण्डरीकं पुण्डरियेति लोके प्रसिद्धम् ।
७८–७९ । फेनेत्यादि। औदधिकः फेन इति उदधिसम्बन्धीयः
फेनः (समुद्रफेनः) ।
८१ । वर्त्मकुन्दे आदौ शंखादिशिरावेधः, ततो नेत्रधावनं ।
अथ प्रलेपस्य प्रयोगः ।
१ । विभीतकास्थिरेणुभ्यां । खः । ३ । वर्त्मकोऽपि । खः ।
२ । ततोभवेत् । गः ।

३१ अध्यायः ।] शिरोरोगविवरणम् । २११
शंखे चैवाश्रुपाते च ललाटे वेधयेच्छिराम् ॥ ८१ ॥
त्रिफलायाः कषायेण लोध्रयुक्तेन सेवितम् ।
सेचयेत् सततं वैद्यः प्रलेपञ्चैव कारयेत् ॥ ८२ ॥
पञ्चवल्कलकल्केन क्षौद्रयुक्तेन बुद्धिमान् ॥ ८३ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे नेत्ररोगे
त्रिंशोऽध्यायः ।
अथ एकत्रिंशोऽध्यायः ।
वातिकशिरोरोगचिकित्सा ।
वातात्पित्तात् कफाच्चैव सन्निपाताच्च लोहितात् ।
अभिघाताच्च निर्दिष्टः शिरोरोगस्य सम्भवः ॥ १ ॥
अधोमुखस्य दीनस्य¹ मन्दाहारस्य वाजिनः ।
सततं प्रोथमानस्य हृष्टरोमस्य² बुद्धिमान् ॥ २ ॥
८२ । त्रिफलायाः पलदशकं । वारि चतुराढकमितं पाद-
शिष्टं कार्यम् । लोध्रचूर्णस्य पलम् ॥
१ । लोहितात् शोणितात् । वातादिषट्कारणसम्भवात् षड्-
विधः शिरोरोगः । तलक्षणादिकं क्रमेणोच्यते ।
१ । वाहस्य । गः ।
२ । दृष्टज्ञानस्य । गः ।