अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 215, कुल 522 में से
संदर्भ में पढ़ें२८ अध्यायः ।] मुखरोगविवरणम् । १८३
उत्कर्णकोऽर्दितश्चैव मन्यास्तम्भो हनुग्रहः ।
आक्षेपो मृगजृम्भश्च मन्याचालीमृगस्तथा ॥ ४ ॥
कपोतको निषादश्च तथाचैकाङ्गसंज्ञकः ।
रोगः पृष्ठग्रहो नाम भ्रामिताक्षस्तथैव च ॥ ५ ॥
उन्मादो ग्रहदोषश्च शोषो वातवलासकः ।
व्यापदो लवणैर्धान्यैः सुरया पयसा तथा ॥ ६ ॥
विषापस्मारदोषौ च षट्पादी लक्षणन्तथा ।
इत्ययं व्याधिनिर्देशः कृतः शास्त्रार्थतत्त्वतः ॥ ७ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे व्याधि-
निर्देशोऽष्टाविंशोऽध्यायः ॥ २८ ॥
अथैकोनत्रिंशोऽध्यायः ।
मुखरोगः ।
उपकुशस्तथा लेश्रो जिह्वास्तम्भस्तथैव च ।
अलावूकः प्रसूनश्च दन्तरोगो गलग्रहः ॥ १ ॥
४-५ । अर्दितादिभ्रामिताक्षान्ता वातव्याधिरोगविशेषाः । एषां
लक्षणादिकं वातव्याध्यधिकारे द्रष्टव्यम् ।
25