अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 228, कुल 522 में से
संदर्भ में पढ़ें२०६ अश्ववैद्यके [१० अध्यायः ।
एतानि समभागानि क्षौद्रेण सह योजयेत् ।
हन्याद्दाहञ्च रक्तञ्च वर्त्तिरेषा जलाम्विता ॥ ५१ ॥
मञ्जिष्ठां हरितालञ्च लोध्रं बालकमेव च ।
रेणुकञ्च तथा कुष्ठमूशीरञ्च मनःशिलाम् ॥ ५२ ॥
पेषयित्वोदकेनैव¹ छायायां परिशोषयेत् ।
जलसृष्टेयमश्वस्य वर्त्तिर्नेत्ररुजापहा ॥ ५३ ॥
पटललक्षणम् ।
अधस्तादुपरिष्टाद्वा पटलं यस्य जायते ।
रुणद्धि नयने सद्यः तथा नैव² क्रमेण च ॥ ५४ ॥
हरितं नीलकं पित्ताद् वाताद्वा³ लोहितं भवेत् ।
ईषत्पीतं घनं शुक्लं⁴ पटलं श्लेष्मसम्भवम् ॥ ५५ ॥
सङ्कीर्णवर्णं विज्ञेयं सन्निपातसमुद्भवम् ।
असाध्यं तं विजानीयात् कृच्छ्रसाध्यमथापि वा ॥ ५६ ॥
५४ । पटलं नेत्ररोगविशेषः । स च चतुर्विधो दृष्टेरावरकच्छ-
दिरूपः । तेषु प्रथमं वाह्यं पटलं रसरक्ताश्रयं । द्वितीयं मांसाश्रयं ।
तृतीयं मेदःसंश्रितं चतुर्थञ्च कालकास्थिसंश्रितम् । तदुक्तं सुश्रुते ।
“तेजोजलाश्रितं वाह्यं तेष्वन्यत् पिशिताश्रितं । मेदस्तृतीयं पटल-
माश्रितं त्वस्थि चापरम्” इति ॥
५६ । सङ्कीर्णवर्णं हरितादिमिश्रवर्णमित्यर्थः ।
१ । पेषयेत्सूदके चैव । गः । ३ । वाताल्लोहितकं भवेत् । गः ।
२ । चैव । खः । ४ । मुक्लं । खः ।