अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 222, कुल 522 में से
संदर्भ में पढ़ें२०० अश्ववैद्यके [३० अध्यायः।
तोयस्रावस्य वाह्यस्य प्रसन्नान्धस्य वा पुनः ।
एतदेवाञ्जनं श्रेष्ठं तिमिरे यत्प्रकीर्त्तितम् ॥ १५ ॥
रसाञ्जनं गुडञ्चैव मधुकं क्षौद्रमेव च ।
रजन्या सहिता वर्त्तिर्नक्तान्धस्याञ्जनं परम् ॥ १६ ॥
सप्त कृत्वोष्ट कृत्वो वा शोषयित्वा पुनः पुनः ।
भावयेत्कर्पटं क्षौमं१ क्षीरेणाज्येन बुद्धिमान् ॥ १७ ॥
सुरामण्डेन तद्भूयो भावयित्वा विचक्षणः ।
वर्त्तिं कृत्वा घृताभ्यक्तां घृतदीपे प्रदापयेत् ॥ १८ ॥
प्रच्छन्ने ताम्रपात्रेण तं दीपं छादयेन्मनाक् ।
तस्मात्कज्जलमादाय ताम्रपात्राद्विचक्षणः ॥ १९ ॥
तोयस्रावं प्रसन्नान्धं नक्तान्धं तिमिरन्तथा ।
अञ्जयेन्मतिमान् वैद्यः शीषकस्य शलाकया ॥ २० ॥
१६ । मधुकं (यष्टिमधु) । रजन्या हरिद्रया । रसाञ्जनादिकं
समभागं ग्राह्यम् ।
१७ । कर्पटो वस्त्रकं (लाताकानौ) । एतं कर्पटं दुग्धघृतेन सप्त-
वारमष्टवारं वा भावयित्वा शोषयेत् । अथ सुरामण्डेन संमर्घ्य वर्त्तिः
कार्या ।
१८ । सुरामण्डः सुराभागः सुराग्रभागो वा । “सुरामण्डः
प्रसन्नः स्यात्” इति परिभाषा ।
१ । क्षौद्रम् । गः ।