सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 233, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 233

३१ अध्यायः ।] शिरोरोगविवरणम् । २११
शंखे चैवाश्रुपाते च ललाटे वेधयेच्छिराम् ॥ ८१ ॥
त्रिफलायाः कषायेण लोध्रयुक्तेन सेवितम् ।
सेचयेत् सततं वैद्यः प्रलेपञ्चैव कारयेत् ॥ ८२ ॥
पञ्चवल्कलकल्केन क्षौद्रयुक्तेन बुद्धिमान् ॥ ८३ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे नेत्ररोगे
त्रिंशोऽध्यायः ।
अथ एकत्रिंशोऽध्यायः ।
वातिकशिरोरोगचिकित्सा ।
वातात्पित्तात् कफाच्चैव सन्निपाताच्च लोहितात् ।
अभिघाताच्च निर्दिष्टः शिरोरोगस्य सम्भवः ॥ १ ॥
अधोमुखस्य दीनस्य¹ मन्दाहारस्य वाजिनः ।
सततं प्रोथमानस्य हृष्टरोमस्य² बुद्धिमान् ॥ २ ॥
८२ । त्रिफलायाः पलदशकं । वारि चतुराढकमितं पाद-
शिष्टं कार्यम् । लोध्रचूर्णस्य पलम् ॥
१ । लोहितात् शोणितात् । वातादिषट्कारणसम्भवात् षड्-
विधः शिरोरोगः । तलक्षणादिकं क्रमेणोच्यते ।
१ । वाहस्य । गः ।
२ । दृष्टज्ञानस्य । गः ।