अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 232, कुल 522 में से
संदर्भ में पढ़ें२१० अश्ववैद्यके [१० अध्यायः ।
मुञ्जकोक्तविधिः सर्व्वो मुञ्जजाले विशिष्यते ।
रूढव्रणे ततः कुर्य्यात्पूर्वोक्तां पटलक्रियाम् ॥ ७६ ॥
प्रपौण्डरीकं मधुकं तथा लोहितचन्दनम् ।
एभिः कल्कीकृतैस्तैलं पाचितं त्रिफलाम्भसा ॥ ७७ ॥
नस्यं देयमशुद्धे तु तथा चैवापतर्पणम् ।
पिप्पली सैन्धवं शुण्ठी गैरिकं वरुणत्वचः ॥ ७८ ॥
गवोष्ट्रदशना श्चैव फेनश्चौदधिकस्तथा ।
क्षौद्रपिष्टैः समैरेभिरञ्जनं मुञ्जनाशनम् ॥ ७९ ॥
वर्त्मकुन्दचिकित्सा।
विभीतकास्थि सारेण¹ मधुयुक्तेन चाञ्जनम् ।
चक्षुषो यस्य वाहस्य पूयस्रावो विजायते² ॥ ८० ॥
वर्त्मकुन्देति³ यस्य स्यात्तस्य कुर्य्यात् क्रियामिमाम् ।
७७ । तैलस्य प्रस्थः। प्रपौण्डरीकादीनां कल्कः पलचतुष्टयमितः
त्रिफलाक्वाथेन पाच्यः ॥ प्रपौण्डरीकं पुण्डरियेति लोके प्रसिद्धम् ।
७८–७९ । फेनेत्यादि। औदधिकः फेन इति उदधिसम्बन्धीयः
फेनः (समुद्रफेनः) ।
८१ । वर्त्मकुन्दे आदौ शंखादिशिरावेधः, ततो नेत्रधावनं ।
अथ प्रलेपस्य प्रयोगः ।
१ । विभीतकास्थिरेणुभ्यां । खः । ३ । वर्त्मकोऽपि । खः ।
२ । ततोभवेत् । गः ।