सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 216, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 216

१६४ अश्ववैद्यके [२६ अध्यायः ।
मुखपाकोऽधिदन्तश्च रोहिणी चोपजिह्विका ।
गण्डरोगौष्ठरोगौ च गलशालूक एव च ॥ २ ॥
इत्येते वाजिनां रोगा मुखजाः परिकीर्त्तिताः ।
एषां निदानं वक्ष्यामि चिकित्साञ्च यथाक्रमम् ॥ ३ ॥
मुखरोगनिदानलक्षणे ।
समेभ्यो दन्तमांसेभ्यो यस्य निर्य्याति शोणितम् ।
चलदन्तस्य१ वाहस्य विद्यादुपकुशं भिषक् ॥ ४ ।
हनुदेशे यदा दन्तो भवत्यभ्यन्तराश्रयः ।
आश्लेष२ इति तं विद्यात् श्लेष्मरक्तसमुद्भवम् ॥ ५ ॥
तेनाश्वो दुर्मनात्यर्थं मन्दं पिवति खादति ।
जर्जरं कासते चैव वलाच्च परिहीयते ॥ ६ ॥
शूना३ यस्य भवेज्जिह्वा वाजिनः स्फोटकैर्युता ।
प्रक्लिन्ना वापि यस्यैव जिह्वा स्तम्भीति तं विदुः ॥ ७ ॥
मुखं दुर्गन्धिकं चैव तालुकः शूनको भवेत् ।
ग्रासविद्वेषिणोऽश्वस्य रोगं विद्यादलावुकम्४ ॥ ८ ॥
७ । शूना स्फीता ।
१ । जातदन्तस्य । खः । ३ । श्वेताः । गः ।
२ । आक्षोराद्रवितं । गः ४ । स्याद्दन्ततालुकम् ।