अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 218, कुल 522 में से
संदर्भ में पढ़ें१६६ अश्ववैद्यके [२६ अध्यायः।
स्फुटितः कठिनश्चैव ओष्ठरोगोऽभिधीयते ॥ १६ ॥
गलाभ्यन्तरशोथेन¹ ग्रासमुद्गिरते हयः ।
गलशालूकितं विन्द्यात् काशार्त्तञ्च तुरङ्गमम् ॥ १७॥
सर्व्वेषां मुखरोगाणां सम्भवः श्लेष्मशोणितम्² ।
चिकित्सां तेषु वक्ष्यामि येन शाम्यन्ति वाजिनाम् ॥१८॥
मुखरोगचिकित्सा ।
विध्यत्तालुशिरां पूर्व्वं तुरङ्गरस्य विचक्षणः ।
अधिमांसं ततो विन्द्याद्यावृत्तास्यस्य शस्त्रकैः ॥ १९ ॥
जिह्वास्तम्भे तु जिह्वायाः प्रक्षालं कारयेद्भिषक् ।
प्रतिसार्य्याञ्चजिह्वान्तु लवणैः षट्चूर्णकैः ॥ २०॥
वेधकालात् समारभ्य रात्रिमेकां न दापयेत् ।
वासयन्तेन वाह्यस्य निवातस्थस्य बुद्धिमान् ॥ २१ ॥
प्रतिपानं प्रभाते तु पिप्पलोशृङ्गवेरकैः ।
पुनर्णवावचाशिग्रुकरञ्जानिम्बपञ्चकान् ॥ २२ ॥
वायमाणाविडङ्गैश्च किञ्चिल्लवणसंयुतैः ।
१८ । शस्त्रकैरिति उत्पलपत्रेण व्रीहिपत्रेण वा शस्त्रेणेत्यर्थः ।
२० । प्रक्षालमिति मार्जनम् । षड़ित्यत्र कद्विति पाठो युक्तः ।
१ । गलाभ्यन्तरतो यो वे । गः ।
२ । श्लेष्मशोणितात् । खः ।