अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 225, कुल 522 में से
संदर्भ में पढ़ें३० अध्यायः ।] नेत्ररोगविवरणम्। २०३
ततस्तीक्ष्णेन शस्त्रेण छिन्द्यात्प्रावरकं बुधः ।
तारकस्य यथा पीड़ा जायेत न मनागपि ॥ ३३ ॥
शुद्धं तत् पूरयेन्नेचं मधुना सैन्धवेन वा ।
प्रक्षाल्य चोत्थाप्य ततः शंखजां वेधयेच्छिराम् ॥ ३४ ॥
कुष्ठेन वचया चव्या तथा चिकटुकेन च ।
प्रतिपानं प्रदातव्यं सुरया लवणैः सह ॥ ३५ ॥
निर्व्यातं विहितं स्थानं ग्रासे दूर्व्वा च पूजिता ।
गुरु भक्ष्यं न दातव्यं मधुरञ्च विशेषतः ॥ ३६ ॥
काचलक्षणचिकित्सा ।
श्लेष्माभिष्यन्दिनोऽश्वस्य नूनं साश्रु विलोचनम् ।
काचः संजायतेऽश्वस्य पाण्डुता चापि चक्षुषः १ ॥ ३७ ॥
पिप्पलीञ्चैव लोध्रञ्च तथा कटुकरोहिणीम् ।
चिफलां पिचुमर्दञ्च गवां मूत्रेण साधयेत् ॥ ३८ ॥
तेन पादावशेषेण क्षौद्रयुक्तेन बुद्धिमान् ।
गालितेन सुखोष्णेन सेचयेदाजिलोचनम् ॥ ३९ ॥
३५। अत्र कुष्ठादीनां चूर्णं मिलितं पलं। सुरायाः प्रस्थः ।
सैन्धवस्य च पलम् । एकत्र प्रतिपानं देयम् ॥
३६ । गुरुभक्ष्यमिति गुरुपाकं भोज्यद्रव्यम् ॥
३८-३९। पिप्पल्यादीनां पलं गोजलाढ़के पक्ता पादशेषः
कार्य्यः। पिचुमर्द्दो निम्बः ।
१। वातचक्षुषो । गः ।