अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
द्वितीय भाग: ज्वर, श्वास, कास, नेत्र-रोग एवं खुर-चिकित्सा
१७ अध्यायः । ] क्षारदाहविवरणम् । १५३
मृदग्निना पचेन्मूत्रं ततो दर्व्वीविघट्टितम् ।
भेषजानि क्षिपेत्तस्मिन् दर्व्वीलेपत्वमागते ॥ ३ ॥
हिङ्गु टङ्कं यवक्षारं पञ्चैव लवणानि च ।
क्षिप्तैतानि पचेत्तावद् यावत्तच्चूर्णतां १ गतम् ॥ ४ ॥
तच्चूर्णन्तु भवेत् सिद्धं २ स्थापयेत् शीतलं कृतम् ।
वातजे ३ कफजे कुष्ठे चार्बुदे मांसकीलके ॥ ५ ॥
लोमान्युत्पाट्य दातव्यः क्षार एष ४ शलाकया । ६ ।
लौहदाहविधानम् ।
वायौ प्रकुपिते ५ ऽत्यर्थमग्निं दद्याद्विचक्षणः ।
यथाशास्त्रं भिषक् प्राज्ञो लौहकैर्मेदसापि वा ॥ ७ ॥
शलाकाभिश्च फालैश्च तप्तैर्लौहेन कीर्त्तितः ।
वर्त्तिभिर्विन्दुदाहेन ६ मेदसा समुदाहृतः ॥ ८ ॥
अग्रकायं ७ दहेल्लोहैः पश्चात्-कायन्तु ८ मेदसा ।
एवं यः कुरुते सम्यक् तस्य सिद्धिर्न दूरतः ॥ ९ ॥
८ । शलाकया वा फालेन वाग्नितप्तेन दाहो लौहदाहः की-
र्त्तितः । तथा वर्त्तिभिर्दाहेन मेदसा दाहः समुदाहृतः ॥
१ । यावत्तु । गः । ५ । बहुप्रकुपितः । खः ।
२ । तिक्तात्तुल्यन्तु । खः । ६ । वर्त्तिभिश्चैव दाहेन । खः ।
३ । वाते कफे च कुष्ठे च । गः । ७ । अग्रकाये । गः ।
४ । एव । खः । ८ । पश्चात्काये । गः ।
20
१५४ अश्ववैद्यके [१४ अध्यायः ।]
दहेत् प्रथमया लोम¹ चर्म चैव द्वितीयया ।
मांसं तृतीयया सम्यग् दहेद्विद्धा शलाकया ॥ १० ॥
समांसलेषु देशेषु फालै²र्वह्निं प्रदापयेत्।
रेखाभिर्बिन्दुभिश्चैव तथा काकपदादिभिः ॥ ११ ॥
दहेदेवं सम्यगेवं वाजिनोऽङ्गं शलाकया।
दग्ध्वा मधुककल्केन घृतमिश्रेण लेपयेत् ॥ १२ ॥
मेदोदग्धविधानम्।
पुरलाक्षामधूच्छिष्टसर्जश्रीवेष्टकैः समैः ।
मनःशिलागुडोपेतैर्वर्त्तिमष्टाङ्गुलायताम् ॥ १३ ॥
कृत्वाष्टाङ्गुलविस्तारां³ शूकरादिवसान्विताम्।
घृतप्लुतेन संवेष्ट्य कर्पटेन विनिःक्षिपेत् ॥ १४ ॥
अधोभागे दृढं विद्वा⁴ सुशिरे वेणुदण्डकैः।
प्रक्षिप्य छिद्रं कुर्व्वीत अधोभागे विचक्षणः५ ॥ १५॥
कोलास्थिमाचदण्डस्य दिहस्तस्य विचक्षणः।
यस्मिन् स्थाने स्थिता वर्त्तिस्तच दण्डं प्रवर्त्तयेत् ॥ १६ ॥
अधोभागे घृताक्तेनालक्तकेनाङ्गुलाष्टकम्।
यस्मिन् कृत्वा ततो वह्निं भृशं प्रज्वालयेद्बुधः ॥ १७ ॥
१० । पुस्तकान्तरे लोमस्थाने लोहमिति पठ्यते ॥
१ । लोहं । गः । ४ । अधोभागं दृढं वद्धं । गः।
२ । काले । गः । ५ । विचेष्टयेत् । खः ।
३ । द्वाङ्गुलविस्तारम् । खः ।
१४ अध्यायः ।] शस्त्रविधानविवरणम् । १५५
तुरङ्गाङ्गे ततो दण्डं विद्धानुपरि धारयेत् ।
द्रुताया वह्नितापेन वर्त्त्याश्छिद्रान्तरे गतैः ॥ १८ ॥
विन्दुभिर्दाहयेदश्वं सुवङ्गं पतितं क्षितौ ।
पश्चात्-कायसमुत्थेन वायुनैवं विमुच्यते ॥ १९ ॥
दाहलक्षणम्।
विल्व१मध्यसवर्णन्तु पक्वतालनिभं तथा ।
सम्यग्दग्धं विजानीयाद् विपरीतं विवर्जयेत् ॥ २० ॥
शस्त्रविधानम् ।
अर्द्धाङ्गुलन्तु विस्तीर्णं कुर्याच्छस्त्रं षडङ्गुलम्२ ।
नाम्ना ब्रोहिमुखं सम्यक् तथा चोत्पलपत्रकम् ॥ २१ ॥
त्र्यङ्गुलं वृद्धिपत्रञ्च क्षुराकारं प्रकीर्त्तितम् ।
पक्वशोथादिषु प्राज्ञः पाटनं तेन कारयेत् ॥ २२ ॥
शस्त्रेणोत्पलपत्रेण ब्रीहिपत्रेण वा भिषक् ।
शिरावेधविधिं सम्यग् दृष्टकर्मा प्रयोजयेत् ॥ २३ ॥
इति श्रीमन्महासामन्तजयदत्तकृतेऽश्वशास्त्रे क्षाराग्नि-
शस्त्रविधाने चतुर्दशोऽध्यायः ।
२१ । ब्रीहिमुखं ब्रीहिमुखसदृशत्वात् । उत्पलपत्रमपि उत्पल-
दलाकारत्वात् । तथा वृद्धिपत्रं नाम चुरसदृशं । एतानि सुश्रुतोक्त-
विंशतिविधशस्त्राणामन्यतमानि । तेषु केन किं साधनीयमित्याह ।
ब्रीहिमुखं व्यधने वृद्धिपत्रमुत्पलपत्रञ्च छेदने भेदने च व्यवह्रियते ॥
१ । चित्त । खः । २ । षड़ायतम् । खः ।
अथ पञ्चदशोऽध्यायः ।
शिरावेध-कालनिरूपणम् ।
अतःपरं प्रवक्ष्यामि शिरावेधविनिश्चयम् ।
प्रधानं वाजिनामेतद्भेषजं गदितं¹ बुधैः ॥ १ ॥
औषधैर्नैव² सिध्यन्ति रोगा रक्तसमुद्भवाः ।
यतो वेधेन सिध्यन्ति स्निग्धस्विन्नस्य वाजिनः ॥ २ ॥
देहस्य रुधिरं मूलं तदालम्बं हि जीवितम्³ ।
तस्मान्नवाहयेच्छुद्धं दुष्टञ्चैव न धारयेत् ॥ ३ ॥
शरत्काले निदाघे च विकाले⁴ वेधयेच्छिराम् ।
अदुर्द्दिने च वर्षासु शीते मध्यन्दिने तथा ॥ ४ ॥
२। स्निग्धस्विन्नस्येति पूर्वदिने पायितघृतस्य, स्विन्नस्य दत्त-
धूपस्येत्यर्थः ॥
३। देहस्य रुधिरमूलत्वाच्छरदादिषु च पित्तादिप्रकोपेण
रुधिरदोषजननाद्दुष्टादुष्टरक्तज्ञानपुरःसरं शिरावेधविधानमाह । अत्र
नकुलः,—“रक्तदोषात्तदा वाजी प्राप्नोत्येव महामयान् । तस्मात्
सर्वप्रयत्नेन रक्तं ज्ञेयं विचक्षणैः”—इति ॥
१। तूदितं । गः । ३। जीविनाम् । गः ।
२। औषधैश्च । गः । ४। विकाशे ।
१५ अध्यायः ।] शोणितविवरणम्। १५७
शिशिरे च वसन्ते च स्वेदं कृत्वा विचक्षणः।
शीतकाले¹ च मध्याह्ने शिरावेधं प्रयोजयेत् ॥ ५ ॥
शोणितविवरणम्।
शब्दवत्फेनिलं यच्च तद्रक्तं वातजं² स्मृतम् ।
श्यावञ्च नीलकं वापि ज्ञेयं पित्तेन दूषितम् ॥ ६ ॥
सान्द्रञ्च पिच्छिलं पाण्डु श्लैष्मिकं परिकीर्त्तितम् ।
द्विरूपं द्वन्द्वसम्भूतं सङ्कीर्णं सन्निपातजम् ॥ ७ ॥
शशशोणितसङ्काशं यच्च सिन्दूरसन्निभम् ।
तद्विशुद्धं भवेद्रक्तं शिरावेधविनिर्गतम् ॥ ८ ॥
४–५ । शिरावेधकालमाह शरदित्यादि । शरद्ग्रीष्मयोः
विकाले, वर्षासु अमेघाच्छन्नदिनेषु शीतादौ च मध्याह्ने शिरावेधः
कार्य्यः । उक्तञ्च नकुलेन,—“आषाढ़समये प्राप्ते शिरामोक्षञ्च कार-
येत् । तेन संशोध्यते रक्तं वाजिनां दोषसम्भवम्” इत्यादि ॥
६–८ । पित्तादिदूषितरक्तानां लक्षणमाह शब्दवदित्यादि ।
एतदप्रतीकारे दोषं रोगसम्भवञ्चाह नकुलः,—“यदि रक्ताधिको
वाजी शस्यं नाश्नाति कर्हिचित् । रक्तात्संजायते पित्तं ततो नाश-
मवाप्नुयात् ॥ रक्ताधिकश्चाप्तपुटः स्नेहाद्यैः शस्यमत्ति चेत् । संप्राप्य
श्लेष्ममचिराद्भूयो नाशमवाप्नुयात् ॥ तच्चेदं लक्षणं प्रोक्तं रक्तकोपसमुद्भवं ।
धातूनामपि सर्वेषां ज्ञेयं चिह्नं विचक्षणैः ॥ पित्तरक्तप्रकोपेण यदा
१ । समे काले । खः । २ । वातिकं । खः ।
[१५८] अश्ववैद्यके [ १५ अध्यायः ।
शरावशकलं दत्वा शस्त्रवेधमुखे बुधः¹।
कर्पटेन दृढं बद्ध्वा रुधिरं संनिवारयेत् ॥ ६॥
अतिवेगात्² प्रवृत्तन्तु यद्येवं नैव तिष्ठति ।
शिरावेधं तदा प्राज्ञो माषकल्केन लेपयेत् ॥ १० ॥
'महावेगं यदारक्तमनेनापि न तिष्ठति ।
ततः शस्त्रमुखं प्राज्ञो दहेल्लोहशलाकया ॥ ११॥
वेधस्थानकथनम्।
वामे वा दक्षिणे वापि देशे चैवाङ्गुलान्तरे ।
अग्रे वलित्रयं त्यक्त्वा वेद्धव्या तालुकी शिरा ॥ १२ ॥
संपीड्यते हयः । तदा कण्डूतिमासाद्य कर्षते सततं पुनः। छायां
वाञ्छति यत्नेन विशेषेण जलाश्रयम्”—इत्यादि । “पित्तासृग्दूषितो
वाजी यदि चाश्रूणि मुञ्चति । नेत्रान्ते पाण्डुरत्वञ्च सद्यो मृत्युमवा-
प्नुयात् । श्लेष्मरक्तप्रकोपेण यथा संपीड्यते ह
१५ अध्यायः ।] वेधस्थानकथनम् । १५६
शंखजा चैव विस्राव्या अपाङ्गाद्द्यङ्गुलान्तरे¹ ।
अश्रुपातगता चैव त्यङ्गुले चक्षुषोरधः ॥ १३ ॥
कण्ठे बद्ध्वा दृढं प्राज्ञः शिरां विस्रावयेत्ततः ।
नासिकाया अधस्ताच्च द्यङ्गुले प्रोथजां शिराम् ॥ १४ ॥
ऊर्द्धन्तु द्यङ्गुले चापि बाहुसन्धेर्विचक्षणः ।
उरसश्चाधरे² भागे तथा वै चतुरङ्गुले ॥ १५ ॥
ग्रीवामुत्क्षिप्य दूरन्तु उरो निःसार्य्य वाजिनः ।
औरसीं वेधयेद्वैद्यः शिरां संलक्ष्य तत्त्वतः ॥ १६ ॥
किणजाभन्तरे विद्वान् पारकीमुपलक्षयेत् ।
किणाधो द्यङ्गुले तान्तु त्यङ्गुले चापि वेधयेत् ॥ १७ ॥
ऊर्द्धञ्चैवाक्षिकूटात्तु लालाटीं वेधयेत् शिराम् ।
स्तुवजा चैव वेध्या स्याद्द्यङ्गुले स्तुवसन्धितः ॥ १८ ॥
द्यङ्गुले कर्णमूलात्तु³ कर्णजान्ताडयेद्भिषक् ।
१३ । एतत्तु नेत्रशिरावेधनं सर्वविधपटलमुञ्चकादिनेत्ररोगशा-
न्त्यर्थम् ॥
१६ । उरोगतरक्तदोषशान्त्यर्थं औरशीशिरावेधनम् । एवं स्तुव-
मन्येषिकाकूर्चतलकचकोष्ठपृष्ठापाण्ड्युरपुच्छ।दिशोणितजनितपीडा-
शान्त्यर्थं तत्तत्स्थानीयाशिरावेधः क्रमेणोक्तः ॥
१७ । पारकीमिति पाठो न सङ्गच्छते ।
१ । वंशाद्यर्द्धाङ्गुलान्तरे । खः ॥ ३ । कर्णमूलन्तु । गः ।
२ । ह्यावर्त्तादधरे भागे ॥ खः ।
१६० अश्ववैद्यके [१५ अध्यायः ।
वेधव्या चैव मन्या तु ग्रीवामध्यगता शिरा ॥ १८ ॥
ऊर्द्धं कूर्च्चात्तु वेधव्या ईषिका चतुरङ्गुले ।
अङ्गुलैः षट्प्रमाणैस्तु¹ अधस्ताच्चैव जानुनः ॥ २० ॥
षडङ्गुलं खुरादूर्द्धं कूर्च्चां वेधयेच्छिराम् ।
रोमान्त्या² चैव वेधव्या द्यङ्गुले खुरसन्धितः ॥ २१ ॥
मण्डूकाग्रञ्च संशोध्य तलजां वेधयेद्बुधः ।
कक्षजा चैव वेधव्या कक्षात्तश्चतुरङ्गुले ॥ २२ ॥
वामदक्षिणभागेतु नाभिजा³ष्टाङ्गुलान्तरे ।
कोष्ठजां ताड़येद्वैद्यः शिरां शस्त्रेण बुद्धिमान् ॥ २३ ॥
पृष्ठजामासनाभ्यासे द्यङ्गुलेनैव पार्श्वयोः ।
बद्ध्वा कर्पटकं यत्र⁴ शिरां विस्रावयेद्बुधः ॥ २४ ॥
ऊरुसन्धेरधस्तात्तु विसृज्य चतुरङ्गुले ।
ऊरुकाभ्यन्तरे चैव अपाण्डीं वेधयेच्छिराम् ॥ २५ ॥
जङ्घासन्धेरधश्चैव स्थौरिकीं चतुरङ्गुले ।
द्यङ्गुले पुच्छमूलाच्च पुच्छजां ताड़येच्छिराम् ॥ २६ ॥
पश्चात्कायसमुत्थानां शिराणां जानुनोरधः ।
तलजानाञ्च कर्त्तव्यं प्राक् प्रयुक्तञ्च वेधयेत् ॥ २७ ॥
सर्व्वेषां शोणितप्रस्थं गालयेच्छास्त्रकोविदः ।
१ । अङ्गुलैकप्रमाणैः । ख । ३ । नाभितः । खः ।
२ । रोमान्त्यस्यैव वेध्यः स्यात् । खः । ४ । यन्त्रं । गः ।
२१ अध्यायः ।] वेधस्थानकथनम् । १६१
गुरुलाघवदोषेण बहु चैवाल्पमेव च ॥ २८ ॥
वामाङ्गुष्ठेन संपीड्य सिरां शस्त्रेण ताड़येत् ।
श्रान्तं भीतं कृशं वृद्धं बालञ्चैव न वेधयेत् ॥ २६ ॥
प्रदेशे लोमशे नित्यं लोमान्युत्पाट्य१ वेधयेत् ।
प्रमाणार्थञ्च पात्रेण रक्तं गृह्णाति बुद्धिमान् ॥ ३० ॥
तालुशंखहनुप्रोथललाटस्तनकर्णजाः२ ।
कृत्वा यवसमं शस्त्रं शिरा विस्रावयेद्बुधः ॥ ३१ ॥
उरोजां पेचिकाञ्चैव कूर्च्चजां कोष्ठजां तथा ।
अर्द्धाङ्गुलेन शस्त्रेण तलजाञ्चैव ताड़येत् ॥३२॥
औपाण्डीं३ स्थौरिकीं वापि कक्षकोष्ठभवां तथा ।
पूर्व्वोक्तेनैव शस्त्रेण पुच्छजामपि ताड़येत् ॥ ३३ ॥
अङ्गुलं प्रक्षिपेच्छस्त्रं पृष्ठजायां तथैव च ।
बाहुजायाञ्च मन्यायां वेधकाले विचक्षणः ॥३४॥
सूत्रकेण४ च संवेष्ट्य मुखं शस्त्रस्य बुद्धिमान् ।
यथाप्रमाणं संस्थाप्य ततो विस्रावयेत् शिराम् ॥ ३५ ॥
असम्यक् ताड़िते भीते वाहे वा विषमस्थिते ।
क्षीणासृक्-शिशिरे तोयादुत्थिते५ च विशेषतः ॥३६॥
न वहन्ति सिरा ह्येवं तस्मात् कार्य्या६ प्रतिक्रिया ।
१ । उत्कृत्य । खः । ४ । माषकेण च । गः ।
२ । स्तुवकर्णजाः । खः । ५ । तोये दुःस्थिते । गः ।
३ । अपाण्डीं । खः । ६ । कर्म्मणा । खः ।
21
१६२ अश्ववैद्यके [१६ अध्यायः।
हयस्य वमनं नास्ति तथा चैव विरेचनम्।
वमनं रेचनं नास्ति रक्तस्रावणमुत्तमम् ॥ ३७॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे शिरावेधे
पञ्चदशोऽध्यायः।
अथ षोडशोऽध्यायः।
नेत्रनिर्माणविवरणम्।
अथानुवासनविधिस्तथैवास्थापनस्य च।
प्रवक्ष्यामि यथायोगं शास्त्रदृष्टेन वर्त्मना ॥ १॥
काष्ठैर्दण्डैरयोभिश्च शृङ्गवंशनलादिभिः।
द्वादशाङ्गुलदीर्घन्तु परिणाहे षडङ्गुलम् ॥ २ ॥
कोलास्थिमात्राच्छिद्रन्तु कुर्यान्नेत्रं विचक्षणः।
मूलादनुक्रम' श्लक्ष्ण मसृणन्तु विशेषतः ॥ ३ ॥
त्यक्त्वाङ्गुलानि चत्वारि कर्णिकान्तस्य कारयेत् ।
पुटकस्य प्रबन्धाय मूले द्वे चापि कर्णिके ॥ ४ ॥
४। कर्णिकान्तस्य नेत्रपुष्करप्रान्तस्य मूले चत्वारि अङ्गुलानि
त्यक्त्वा पुटकस्याच्छादनस्य प्रबन्धाय बन्धनाय द्वे कर्णिके च कारयेत् ॥
१। अनुक्रमे दच्क्ष्णो मसृणन्तु । गः। २ । यस्थिकान्तस्य । गः।
१६ अध्यायः।] अनुवासनविवरणम्। ४६३
अनेनास्थापनं कुर्यादनुवासनमेव च।
यथायोग्यं१ भिषक् प्राज्ञः सर्व्वरोगोपशान्तये ॥ ५ ॥
अनुवासनविवरणम्।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा।
भोजयित्वा हयं प्राज्ञो रसस्नेहभोजनैः ॥ ६ ॥
भोजितं भोजनाक्तेन दिनान्ते चानुवासयेत् ।
निरूहयेदनाहारमपराह्णे विचक्षणः ॥ ७॥
त्रिभिर्वारैः प्रदातव्यो निरूहः शास्त्रकोविदैः ।
ईषत्तीक्ष्णः प्रयोक्तव्यः२ प्रथमं पुटकोविदैः३ ॥ ८ ॥
द्वितीयश्च तृतीयश्च तीक्ष्णौ चैव प्रकीर्त्तितौ ।
एवमास्थापिते वाहे निवृत्ते च निरूहणे ॥९॥
क्षीरस्य पुटकं पश्चादेकं दद्याद्विचक्षणः ।
ततो विस्त्रावयेद्वैद्यस्त्वेकवारं तुरङ्गमम् ॥ १० ॥
विस्त्रावितं स्नापयित्वा पायसैर्भोजयेत्ततः४ ।
स्नेहानुवासनं तस्य विकाले५ च प्रदापयेत् ॥ ११ ॥
५। आस्थापनम् आस्थापनवस्तिम् ।
७ भोजनाक्तेन द्रव्येणेति शेषः ।
८। पुटकः। (पिच्किरि)।
१। यथायोगं। खः। ३। पुटको बुधैः। गः।
२। प्रदातव्यः। खः। ४। भोजयेत्पाययेत्ततः। गः।
५। दिकाले। गः।
१६४ अश्ववैद्यके [१६ अध्यायः ।
स्तोका दूर्व्वा क्षुधार्त्ताय तस्यां रात्रौ हिता स्मृता ।
त्र्यहं वापि हितं दृष्टं भोजनं सानुवासनम् ॥ १२ ॥
यथाकालं यथाव्याधि भोजनं संप्रदापयेत् ।
एवं रोगाः प्रशाम्यन्ति वाजिनां देहसम्भवाः ॥ १३ ॥
निरूहविवरणम् ।
पञ्चमूलद्वयं दन्ती कुष्ठञ्चैव शतावरी¹ ।
अनन्ता चिवृता श्यामा बले द्वे च पुनर्णवा ॥ १४ ॥
गुडूची गोक्षुरं विम्बी कुक्कुटैरण्डवासकाः ।
यवाः कुलत्था वदरं तथारग्वधशिग्रुकम् ॥ १५ ॥
एतान्यादाय सर्व्वाणि यथालब्धानि वा पुनः ।
मूलानि सलिले क्षिप्त्वा क्वाथयित्वा विचक्षणः ॥ १६ ॥
पादशेषं कषायेण निरूहं संप्रदापयेत् ।
द्विपञ्चमूलीनिःक्वाथः सः प्रधाने निरूहणे ॥ १७॥
१४-१७। पञ्चमूलद्वयं विल्वादिवशमूलं । अनन्ता (अनन्तमूल)
श्यामा (श्यामालता) चिवृत् (तेउड़ी) बले द्वे दूति श्वेता पीता
च (वेलेड़ा)। विम्बी (तेलाकुचा)। कुक्कुटा (छिपकली)।
एषां पञ्चमूलद्वयादिशिग्रुपन्तानां समस्तानां यथालब्धानां वा द्रव्याणां
मूलानि मिलित्वा दशपलानि चतुराढ़कमिते जले पक्त्वा पादशेषः
क्वाथः कर्त्तव्यः। एतस्याढ़केन कषायेण निरूहयेत्।
१ । पाठा दन्ती चैव शतावरी। खः ।
२। द्विपञ्चमूली निःक्वाथ्य सप्रधाना। खः ।
२६ अध्यायः।] निरूहविवरणम्। १५५
कषायं खरसञ्चैव गोमूत्रं काञ्जिकन्तथा ।
कल्कञ्चैव प्रदातव्यं भेषजैर्व्वक्ष्यमाणकैः ॥ १८ ॥
चिफला मधुकं रास्ना मदनं गौरसर्षपाः ।
एला चिकटुकं कुष्ठं शतपुष्पा हरेणुकम् ॥ १९ ॥
हरिद्रे द्वे समञ्जिष्ठे¹ तथा लवणपञ्चकम् ।
यथाप्राप्तं समस्तं वा वर्गमेतं प्रदापयेत् ॥ २० ॥
कफोल्बणेषु रोगेषु तथा वातोल्बणेषु च ।
निरूहः संप्रदातव्यस्तुरङ्गस्य विपश्चिता ॥ २१ ॥
कषाये कल्कमालोड्य निरूहं संप्रदापयेत् ।
नैवात्यन्ततनुं² धीमान् नैवात्यन्तघनं तथा ॥ २२ ॥
पित्ते निरूहः कर्त्तव्यः क्षीरेणेक्षुरसेन वा ।
सिन्धुसर्पिःसमायुक्तः शर्करामधुसंयुतः ॥ २३ ॥
१८। तुरङ्गानां कफोल्बणेषु वातोल्बणेषु वा रोगेषु एष निरू-
हो देयः । चिफलादीनां समस्तानां यथालब्धानां वा कषायार्थं
दशपलानि कल्कार्थञ्च पलं यथासंख्यं ग्राह्यम् । अथ चतुराढ़के
जले पक्त्वा पादावशिष्टे कषाये उक्तं कल्कं मिश्रयित्वा निरूहो देयः।
एवञ्च खरसगोमूत्रकाञ्जिकानां प्रत्येकमाढ़के प्रत्येकं चिफलादि कल्क-
पलं मिश्रयित्वा निरूहो देयः । एष चतुर्विधो निरूहः ॥
२३। पित्ते निरूहमाह पित्तइत्यादि । इक्षुरसस्य क्षीरस्य वा-
ढ़कं सैन्धवस्य पलं घृतस्य च प्रस्थः । मधुनः शर्करायाश्च पलं पलम् ॥
१ । दे च मञ्जिष्ठा । गः । २ । नैवात्यन्तं ततो । गः ।
१६६ अश्ववैद्यके [१६ अध्यायः ।
चतुर्वर्षस्य वाहस्य गुदे नेत्रं प्रवेशयेत् ।
चतुरङ्गुलं भिषक् प्राज्ञो वाजिशास्त्रविशारदः ॥ २४ ॥
द्वे च¹ द्विवर्षजातस्य त्रिवर्षे चाङ्गुलत्रयम् ।
षाण्मासिके² वर्षजाते एकमेवाङ्गुलं भवेत् ॥ २५ ॥
उदङ्मुखं प्राङ्मुखं वा कृत्वा वाहं सुयन्त्रितम् ।
घृताभ्यक्तेन हस्तेन पुरीषमपकर्षयेत् ॥ २६ ॥
स्वयं³ कृत्वा पुरीषे वा दद्याच्चैवानुवासनम् ।
निरूहश्च प्रदातव्यः पुच्छं नीत्वा प्रदक्षिणम् ॥ २७ ॥
दद्रुशोफकफश्वासग्रहणीकुष्ठरोगिणाम् ।
तृषार्त्तस्य⁴ च गर्भिण्याः कृशवृद्धस्य वाजिनः ॥ २८ ॥
क्षुत्तृष्णाश्रमयुक्तानां मद्यं पीतवतामपि ।
वर्जितो वाजिनां वस्तिस्तथाश्वे व्याधिपीडिते ॥ २९ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे निरूहा-
नुवासने षोडशोऽध्यायः ।
२४-२५। अश्वानां वयोविशेषेण नेत्रप्रवेशननियममाह चतु-
वर्षस्येत्यादि ।
२६-२७। कथं निरूहयेत्तदाह उदङ्मुखमित्यादि ।
२८-२९ । येषां निरूहनिषेधस्तदाह दद्वित्यादि ।
१ । द्वये । गः ।
२ । षण्मासे वर्षजाते च । खः । ३ । स्वायं । खः ।
४ । क्षुधार्त्तस्यचगर्भिण्याः क्रुद्धवृद्धप्रवासिनाम् । खः ।
[ १६७ ]
अथ सप्तदशोऽध्यायः।
───•:0:•───
नस्यविधिः।
ऊर्द्धं^१ वक्त्रस्य दोषोऽस्ति' तथाचाधोमुखस्य च ।
तस्मान्नस्यं तुरङ्गस्य ईषदुन्नाम्य दापयेत् ॥ १ ॥
वामाङ्गुष्ठेन संपीड्य एकं नासापुटं बुधः ।
दद्यान्नस्यं तुरङ्गस्य लघुहस्तः सुमाचया ॥ २ ॥
नाड्यातिश्लक्ष्णया^२ वैद्यो यथा नोद्विजते हयः ।
अन्यथा जायते शीघ्रं नाडीव्यापत् सुदारुणा ॥ ३ ॥
तीक्ष्णैर्वा पूरये^३न्नाड्या देयं नस्यं विजानता ।
चन्दनाशीरयष्ट्याह्वक्षीरतोयैः सशर्करैः^४ ॥ ४ ॥
नस्यं दद्याद् भिषक् प्राज्ञो नाद्या दोषहिताय वै ।
१ । नासाग्राह्यं यदौषधं तन्नस्यं । तच्च द्विविधं रेचनं स्नेहनञ्च ।
तयोः रेचनं कफादीनां कर्षणम् । स्नेहनं बृंहणञ्चेति । तदुक्तं परि-
भाषायां “नस्यभेदो द्विधा प्रोक्तो रेचनं स्नेहनं तथा । रेचनं कर्षणं
प्रोक्तं स्नेहनं बृंहणं मतम् ॥ नस्यं तत्कथ्यते धीरैः नासाग्राह्यं यदौ-
षधम् । नावनं नस्तकर्म्मेति तस्य नामद्वयं मतम्”—इति ॥
२ । अथ कथं नस्यं प्रयोज्यं तदाह । वामाङ्गुष्ठेनेति । सुमाचया
कर्षमितेनेत्यर्थः ।
───────────────────────────
१ । ऊर्द्धं वक्त्रे च दोषः स्यात् । खः ।
२ । दद्यात् श्लक्ष्णतया वैद्यः । गः ।
३ । परया । खः ।
४ । क्षीरतोयैस्तु दापयेत् । गः ।
१६८ अश्ववैद्यके [१७ अध्यायः ।
शरत्कालोचिताः कार्याः स्नानपानादिपूर्व्विकाः ॥ ५ ॥
क्रियाः सर्व्वाः समासेन वाजिनां हितमिच्छता ।
वाते स्निग्ध' कफे चोष्णं पित्ते वै स्वादुशीतलम् ॥ ६ ॥
कफे रूक्षञ्च तीक्ष्णञ्च नस्यं प्रोक्तं तपोधनैः ।
चिवट्चूर्णं तथा तैलसर्पिषा वसया तथा ॥ ७ ॥
स्निग्धमेतत् स्मृतं नस्यं वाते वापि प्रशस्यते ।
जीवनीयौ समधुकौ शर्कराक्षीरवारिणा ॥ ८ ॥
५। शरत्कालिकं नस्यमाह नकुलः,—“शिलाचन्दनतोयादि-
स्त्रिक्काक्षाणि ? वाजिनां । शर्करामाक्षिकं सैरं पटोलं पलसम्मितम् ॥
नस्यं शरदि सप्तीनां जायते रोगशान्तये”—इति ।
६। नकुलोऽपि वाताद्यधिके स्निग्धादिनस्यमाह,—“देयं वा-
ताधिके स्निग्धं रौक्षं तिक्तं कफाधिके । पित्ताधिके तु मधुरं तुरङ्गे
संप्रयोजितम्” ॥ एषां द्विपञ्चाशत् श्रेष्ठं, अष्टोत्तरविंशति मध्यमं,
षड्विंशत्यधमं नस्यं नकुलेन प्रयोजितम् ॥
७। वाते स्निग्धं नस्यमाह चिवदिति । चिवट्चूर्णस्य कर्षः तैल-
घृतवसानां कुडवार्द्धं संमिश्य देयम् । वातेऽपि नस्यमाह नकुलः,—
“शुण्ठी घृतञ्च दुग्धञ्च रजःसारं तथैव च। वातदोषविनाशाय नस्य-
मेतत् प्रयोजयेत्”—इत्यादि ॥
८। पित्ते नस्यमाह जीवनीयाविति । जीवकर्षभकौ मेदामहामेदे
च। मधुकं (यष्टिमधु) । अत्रापि नकुलः,—“माक्षिकं शर्करामिश्रं
चन्दनं केशराणि च। नस्योऽयं वारिणा सद्यः पित्तनाशकरः सदा” ॥
पातेऽपि नस्यमाह स एव, - "गुडूची शुण्ठी मुस्ता च तगरं Line 13:सितसर्षपम् । सन्निपाते तु नस्योऽयं वारिणा क्रमकारकः ॥ कुंकुमं Line 14:सघृतं चैव माक्षिकं सितसर्षपाः । सन्निपाते सपित्तेऽयं नस्यः Line 15:स्याज्जीवरेचकः ॥ अभया पुत्रिणी एला एला लाक्षा शतावरी । Line 16:सन्निपातेऽनिलाधिक्ये नस्योऽयं चेमकारकः ॥ मरिचं पिप्पलीमूलं Line 17:वचाशारङ्गिकाभयः । सन्निपाते कफाधिक्ये नस्यं सप्रेः सुखप्रदम्"- Line 18:इति ॥ Line 19:22`
Let's double check १७ अध्यायः ।]:
Wait, is the digit in header १० or १७?
Look at the left: १७ अध्यायः ।]. The digit ७ is clear.
Wait,
[ १७० ]
अथाष्टादशोऽध्यायः ।
स्वेदविधानः ।
यच्च क्वाथेन यः स्वेदो गुरुः स्वेदः स उच्यते ।
वालुकापुटकैः स्वेदः पुटस्वेद उदाहृतः ॥ १ ॥
शकृता महिषाश्वानां गोमयेन तथैव च ।
अग्नितप्तेन यः स्वेदः शङ्करस्वेद उच्यते ॥ २ ॥
अतसीभिः शणैर्माषैर्बीजैः काश्मर्य्यसम्भवैः ।
गोधूमैस्तिलयवैश्चैव कुलत्थैर्धान्यसम्भवैः ॥ ३॥
वर्षाभूगोक्षुरैरण्डैर्धान्याम्लक्वथितैः समैः ।
सर्व्ववातहरः स्वेदः पुटाख्यो गात्रसम्भवः ॥ ४ ॥
सुतप्तकाञ्जिकैः स्विन्नं वृषं बद्ध्वा पुटं भिषक् ।
तुषस्वेदं तुरङ्गस्य धान्यैर्वापि प्रदापयेत् ॥ ५ ॥
कफे रूक्षं प्रशंसन्ति स्वेदं शास्त्रविदो जनाः ।
आभ्राज्य वाते तैलेन सर्पिषा वा प्रदापयेत् ॥६॥
३ । अतसी (मसिना) । काश्मर्य्यसम्भवैः गाम्भारीजातैः बीजै-
रिति शेषः । (गामारवीज) । वर्षाभूः पुनर्नवा (श्वेतपुन्या) । धान्या-
म्लक्वथितैः काञ्जिकपाचितैः। अतस्यादीनां समो भागो ग्राह्यः ॥
१८ अध्यायः।] स्वेदविवरणम् । १७१
वातश्लेष्मणि वाते वा कफे वा स्वेद उच्यते ॥ ७ ॥
पित्तरोगातुरः श्रान्तः क्षुधार्त्तश्च पिपासितः ।
अस्वेद्यः कीर्त्तितो वाजी वडवा चैव गर्भिणी ॥ ८ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे स्वेदवि-
धानेऽष्टादशोऽध्यायः ॥
अथैकोनविंशोऽध्याय ।
स्नेहप्रयोगः ।
स्नेहप्रयोगो द्विविधः पिण्डः पेयश्च१ वाजिनाम् ।
पिण्डो भोजनसंयुक्तः पाने पेयः स उच्यते ॥ १ ॥
शरत्काले प्रधानस्तु प्रयोगः सर्पिषो मतः ।
हेमन्ते शिशिरे चैव तैलस्य समुदाहृतः ॥ २ ॥
पलपञ्चकमारभ्य त्रीणि त्रीणि विवर्द्धयेत् ।
पूर्णः प्रस्थो भवेद्यावदश्वपाने२ त्वयं विधिः ॥ ३ ॥
३। प्रथमदिने पलपञ्चकमारभ्य प्रतिदिनं यावत्-प्रस्थपूरणं पल-
त्रयमात्रं वर्द्धयेत् । अश्वपान इति वाजिघृतपानविषये ॥
१। पानश्च। खः । २। अच्छपाने। गः ॥
१७२ अश्ववैद्यके [१८ अध्यायः।
अश्वपानाच्च१ दातव्यमर्द्धं स्नेहस्य पण्डितैः।
प्रभाते वा विकाले वा पिण्डं दद्याद्भिषक् तथा ॥ ४ ॥
एकेनाह्ना न दातव्यं प्रस्थादूर्द्धं घृतं बुधैः।
आढकादपरो नैव प्रयोगस्तस्य शस्यते ॥ ५ ॥
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा।
दशाहं द्वादशाहं वा दद्यात् स्नेहं निरन्तरम् ॥ ६ ॥
क्षुधिते यवसं दूर्व्वां तस्मै दद्याद्विचक्षणः।
सुखोष्णं सलिलञ्चैव प्रशस्तं परिकीर्त्तितम् ॥ ७ ॥
स्निग्धता सर्व्वगात्राणां वर्चः स्निग्धमसंहतम्।
सम्यक्स्निग्धस्य वाहस्य उत्साहश्चैव जायते ॥ ८ ॥
अरुचिर्दीनता चैव पादानां श्वयथुस्तथा।
अतिभिन्नपुरीषञ्च अतिस्निग्धस्य लक्षणम् ॥ ६ ॥
अस्निग्धस्य२ भवेद्वर्चो रूक्षवर्त्तितमेव३ च।
तस्मै वातो भिषक् प्राज्ञः पुनः स्नेहं प्रदापयेत् ॥ १० ॥
सम्यक्स्निग्धं प्रशंसन्ति मुनयः शास्त्रकोविदाः।
अतिस्निग्धश्च रूक्षश्च द्वावेतौ निन्दितौ स्मृतौ ॥ ११ ॥
४। अश्वपानाच्चेत्यत्र अश्वपानायेति पाठः साधीयान् ।
५। यस्मिन्दिने घृतप्रस्थो दीयते तस्मिन्दिने द्रव्यान्तराणा
माढकादूर्द्धं न देयमित्यर्थः॥
१। अश्छमानाच्च । गः। ३। बद्धचर्चितम्। गः॥
२। अतिस्निग्धं। खः॥