अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 189, कुल 522 में से
संदर्भ में पढ़ें१८ अध्यायः।] स्वेदविवरणम् । १७१
वातश्लेष्मणि वाते वा कफे वा स्वेद उच्यते ॥ ७ ॥
पित्तरोगातुरः श्रान्तः क्षुधार्त्तश्च पिपासितः ।
अस्वेद्यः कीर्त्तितो वाजी वडवा चैव गर्भिणी ॥ ८ ॥
इति श्रीमहासामन्तजयदत्तकृतेऽश्वशास्त्रे स्वेदवि-
धानेऽष्टादशोऽध्यायः ॥
अथैकोनविंशोऽध्याय ।
स्नेहप्रयोगः ।
स्नेहप्रयोगो द्विविधः पिण्डः पेयश्च१ वाजिनाम् ।
पिण्डो भोजनसंयुक्तः पाने पेयः स उच्यते ॥ १ ॥
शरत्काले प्रधानस्तु प्रयोगः सर्पिषो मतः ।
हेमन्ते शिशिरे चैव तैलस्य समुदाहृतः ॥ २ ॥
पलपञ्चकमारभ्य त्रीणि त्रीणि विवर्द्धयेत् ।
पूर्णः प्रस्थो भवेद्यावदश्वपाने२ त्वयं विधिः ॥ ३ ॥
३। प्रथमदिने पलपञ्चकमारभ्य प्रतिदिनं यावत्-प्रस्थपूरणं पल-
त्रयमात्रं वर्द्धयेत् । अश्वपान इति वाजिघृतपानविषये ॥
१। पानश्च। खः । २। अच्छपाने। गः ॥