अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 188, कुल 522 में से
संदर्भ में पढ़ें[ १७० ]
अथाष्टादशोऽध्यायः ।
स्वेदविधानः ।
यच्च क्वाथेन यः स्वेदो गुरुः स्वेदः स उच्यते ।
वालुकापुटकैः स्वेदः पुटस्वेद उदाहृतः ॥ १ ॥
शकृता महिषाश्वानां गोमयेन तथैव च ।
अग्नितप्तेन यः स्वेदः शङ्करस्वेद उच्यते ॥ २ ॥
अतसीभिः शणैर्माषैर्बीजैः काश्मर्य्यसम्भवैः ।
गोधूमैस्तिलयवैश्चैव कुलत्थैर्धान्यसम्भवैः ॥ ३॥
वर्षाभूगोक्षुरैरण्डैर्धान्याम्लक्वथितैः समैः ।
सर्व्ववातहरः स्वेदः पुटाख्यो गात्रसम्भवः ॥ ४ ॥
सुतप्तकाञ्जिकैः स्विन्नं वृषं बद्ध्वा पुटं भिषक् ।
तुषस्वेदं तुरङ्गस्य धान्यैर्वापि प्रदापयेत् ॥ ५ ॥
कफे रूक्षं प्रशंसन्ति स्वेदं शास्त्रविदो जनाः ।
आभ्राज्य वाते तैलेन सर्पिषा वा प्रदापयेत् ॥६॥
३ । अतसी (मसिना) । काश्मर्य्यसम्भवैः गाम्भारीजातैः बीजै-
रिति शेषः । (गामारवीज) । वर्षाभूः पुनर्नवा (श्वेतपुन्या) । धान्या-
म्लक्वथितैः काञ्जिकपाचितैः। अतस्यादीनां समो भागो ग्राह्यः ॥