अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] चतुर्थ कोशस्थानम्
मिथ्यादृष्टिर्भवति । आदिमात्रं तु श्लोके दर्शितम् । एवंलक्षणा एते दश कर्मपथाः ।
कर्मपथा इति कोऽर्थः ?
त्रयो ह्यत्र पन्थानः, सप्त कर्म च ॥ ७८ ॥
अभिध्यादयो हि त्रयः कर्मणः पन्थान इति कर्मपथाः । तत्सम्प्रयोगिणी
हि चेतना तेषां वाहेन वहति, तेषां गत्या गच्छति; तद्वशेन तथाभिसंस्करणात् ।
सप्त तु प्राणातिपातादयः कर्म च; कायवाक्कर्मस्वभावत्वात्¹ । कर्मणश्च
पन्थान इति कर्मपथाः; तत्समुत्थानचेतनायास्तानधिष्ठाय प्रवृत्तेरिति ।
कर्मपथाश्च कर्म च कर्मपथाश्चेति कर्मपथाः; असरूपाणामप्येकशेषसिद्धेः ।
सुचरितदुश्चरितानां कर्मणां फलविपाकः, नास्त्ययं लोकः, नास्ति परलोकः,
नास्ति माता, नास्ति पिता, नास्ति सत्त्व उपपादुकः, न सन्ति लोकेऽर्हन्तः”
इति । तत्र नास्ति दत्तं यावन्नास्ति दुश्चरितमिति कर्मापवादिका । तथा
नास्ति माता, नास्ति पितेति कर्मापवादिकेव । नास्ति सुचरितदुश्चरितानां
कर्मणां फलविपाकः, नास्त्ययं लोकः, नास्ति परलोकः, तथा नास्ति सत्त्व
उपपादुक इति फलापवादिका । न सन्ति लोकेऽर्हन्त इत्यार्यापवादिका ।
आदिमात्रं तु श्लोके दर्शितमिति । “नास्तिदृष्टिः शुभाशुभे” इति उदा-
हरणमात्रत्वात् ।
कर्मणः पन्थान इति । चेतनाख्यस्य कर्मणः पन्थानः । कथम् ? इत्याह—
तत्सम्प्रयोगिणी हि चेतना । अभिध्यादिसम्प्रयोगिणी । तेषामभिध्यादीनां वाहेन
गत्या वहति गच्छतीत्यर्थः । तद्वशेन तथाभिसंस्करणात् । यस्मादभिध्यादीनां
यथाक्रमं सक्तिप्रतिकूलमिथ्यानीतिरणाकाराणां वशेन । तदनुरूपा चेतनाभि-
संस्करोति । चेतयत इत्यर्थः । अतस्तेषां वाहेन वहति ।
कर्म च, कायवाक्कर्मस्वभावत्वात् । कर्मणश्च चेतनाख्यस्य पन्थान इति
कर्मपथाः । तत्समुत्थानचेतनायाः कायवाक्कर्मसमुत्थान चेतनायाः । तानधिष्ठाय ।
तान् प्राणातिपातादीनधिष्ठाय प्रवृत्तेः । असरूपाणामप्येकशेषसिद्धेरिति । शब्द-
सरूपाणामर्थसरूपाणां वा एकशेष इष्यते, यथा—वृक्षश्च वृक्षश्च वृक्षौ, वक्रश्च
कुटिलश्च वक्राविति । इह तु कर्म च कर्मपथश्चेति न कर्मशब्दस्य कर्मपथ-
शब्दस्य च सारूप्यं शब्दतः, नाप्यर्थतः, कर्मार्थस्य कर्मपथार्थस्य च भिन्नत्वा-
देकशेषो न प्राप्नोति; यस्मात्त्वसरूपाणां साकल्येनेकदेशेन तु सरूपाणामेकशेषः
सिध्यति । इष्यत इत्यर्थः । तद्यथा—“गुणो यङ्लुकोः” (पा० सू० ७.४.८२) ।
१. ०कर्मत्वात्—का० ।
६९६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
एवमनभिध्यादयः प्राणातिपातविरत्यादयश्च ज्ञेयाः ।
प्रयोगपृष्ठानि कर्माणि कर्मपथाः; यस्मात् तदर्थं तन्मूलिका च तेषां प्रवृत्तिः ।
“तदौदारिकसंग्रहात्”१ ( अभि० को० ४.६६ ) इत्युक्तं प्राक् । येषां
चोत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षापकर्षौ लोके भवतः ।
ये तर्हि दार्ष्टान्तिका अभिध्यादीनेव मनस्कर्मेच्छन्ति, तेषां ते कथं कर्म-
पथाः ? त एव२ प्रष्टव्याः । अपि तु शक्यं वक्तुम्—कर्म च ते पन्थानश्च
इति यङ् च यङ्लुक् यङ्लुकौ, तयोरिति ? न शक्यते वक्तुम्—यङ् च लुक्
च यङ्लुकौ इत्ययम्, लुकोऽनिष्टत्वात्, एकदेशसारूप्यात् तु यङो यङ्लुगेक-
देशस्य च यङ् इति सारूप्यात् सिध्यत्येकशेषो यङ्लुकोरिति । अतो ज्ञापकात्
अयमपि सिध्यति—कर्म च कर्मपथाश्च कर्मपथा इति, पश्चात् पुनः सरूपैकशेषः ।
कर्मपथाश्चाभिध्यादयः, कर्मपथाश्च प्राणातिपातादय इति कर्मपथाः । अथवैवं
योजना—कर्मणः पन्थानः कर्मपथाः, कर्म च ते कर्मपथाश्च कर्मकर्मपथाः ।
कर्मपथाश्चाभिध्यादयः, कर्मकर्मपथाश्च प्राणातिपातादयः कर्मपथा इति ।
एवमनभिध्यादय इति विस्तरः । कुशला अपि कर्मपथा एवमेव योज्याः ।
अनभिध्यादयो हि कर्मणः पन्थान एव । प्राणातिपातविरत्यादयश्च । कर्म च
कर्मणश्च पन्थान इति ।
यस्मात्तदर्थं इति विस्तरः । यस्मान्मौलकर्मपथार्थं तेषां तत्प्रयोगाणां
प्रवृत्तिः । यस्माच्च मौलकर्मपथमूलिका तेषां तत्पृष्ठानां प्रवृत्तिः; अतो न
तानि कर्मपथाः । यद्यपि कर्मपथोऽपि कर्मपथस्य प्रयोग उक्तः, स तु मौलत्वात्
कर्मपथः, न तु प्रयोगपृष्ठभूतत्वादिति । तदौदारिकसंग्रहादित्युक्तं३ प्रागिति ।
“तदौदारिकसंग्रहाद्वा कर्मपथा उक्ताः” ( अभि० को० ४.६६) इति वचनात् ।
यानि प्रयोगपृष्ठानि तानि न संगृहीतानि । येषां चेति विस्तरः । येषां मौलाना-
मुत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षापकर्षौ लोके भवतः । न तु प्रयोग-
पृष्ठानाम् । अतस्त एव कर्मपथाः । तेषां चोत्कर्षापकर्षेण तदुत्कर्षापकर्षेण
तदुत्कर्षापकर्षं वक्ष्यति—'सर्वेऽधिपतिनिष्यन्दविपाकफलदा मताः' ( अभि०
को० ४.८५ ) इत्यत्र । अतो न तानि प्रयोगपृष्ठानि कर्मपथाः ।
तेषां ते कथं कर्मपथा इति । न हि तेषामभिध्यादिभ्योऽन्यत् मनस्कर्मास्ति
चेतना, यस्य कर्मणस्तेऽभिध्यादयः पन्थान इति कर्मपथाः स्युः । त एव
प्रष्टव्या इति । तैरेव परिहारो वक्तव्यो य एवं मन्यन्ते । अपि तु शक्यमिति
१. यथौदारिक च ग्रहणादि—का० । २. एव हि—का० ।
३. यथौदारिकसंग्रहादि०—मू० पाठः ।
निर्देशः ] चतुर्थं कोशस्थानम् ६९७
सुगतिदुर्गतीनामिति कर्मपथाः । इतरेतरावाहनाद् वा ॥ ७८ ॥
य एते दशाकुशलाः कर्मपथाः सर्वे एतेऽकुशलानां १ कर्मणां समुदाचार-
विरोधिनः ।
मूलच्छेदस्त्वसद्दृष्ट्या
कुशलमूलच्छेदस्तु मिथ्यादृष्ट्या भवत्यधिमात्रपरिपूर्णया ।
किं २ तर्हि शास्त्र उक्तम्—“कतमान्यधिमात्राण्यकुशलमूलानि ? यैरकुशल-
मूलैः कुशलमूलानि समुच्छिनत्ति कामवैराग्यं चानुप्राप्नुवन् यानि तत् प्रथमत
उपलिखति” इति ? अकुशलमूलाध्याहृतत्वात् मिथ्यादृष्टेस्तेष्वेव तत्कर्मोपदेश
एष क्रियते । तद्यथाग्निरैव ग्रामं दहति, चौरास्तु तस्याध्याहारका इति चौरैर्ग्रामो
दग्ध इत्युच्यते ।
कतमेषां कुशलमूलानां समुच्छेदो भवति ?
कामाप्तोत्पत्तिलाभििनाम् ।
कामावचराणि कुशलमूलानि समुच्छिद्यन्ते; रूपारूप्यावचरैरसंमन्वा-
गतत्वात् ।
विस्तरः । स्वमतेन तत्पक्षं समर्थयति—इतरेतरावाहनाद् वेति । किम् ?
शंऽभिध्यादयः कर्मपथा इति प्रकृतम् । अभिध्या व्यापादमिथ्यादृष्टी आवाह-
यति । ते च तामिति, कर्म च ते । कर्मणश्चेषामेकतरस्य पन्थान इति
कर्मपथाः ॥ ७८ ॥
मिथ्यादृष्ट्या कुशलमूलसमुच्छेद इत्येतमर्थं वक्तुकाम उपोद्घातं ब्रवीति—
सर्व एतेऽकुशलानामिति विस्तरः । अधिमात्रपरिपूर्णयेति । अधिमात्राधिमात्र-
येत्यर्थः ।
किन्तर्हि शास्त्र उक्तमिति । यदि मिथ्यादृष्ट्या कुशलमूलसमुच्छेदो नाकुशल-
मूलैः । यत्तच्छास्त्र उक्तम् । यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्तीत्यादि । तानि
हि लोभादिस्वभावानि । न मिथ्यादृष्टिस्वभावानीत्यर्थः । अकुशलमूलाध्या-
हृतत्वादिति विस्तरः । अकुशलमूलैर्लोभादिभिरधिमात्रैर्मिथ्यादृष्टिरध्याहृता
अपनीता, तस्माद् अकुशलमूलाध्याहृतत्वाद् मिथ्यादृष्टेः । तेष्वेव तत्कर्मो-
पदेशः । तेष्वेवाकुशलमूलेषु । मिथ्यादृष्टेः कुशलमूलसमुच्छेदकं यत् कर्म
तस्योपदेशः ।
१. एते कुशलानां—का० । २. यत्—का० ।
६९८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
प्रज्ञप्तिभाष्यं तर्हि कथं नीयते—"इयता अनेन पुद्गलेन त्रैधातुकानि
कुशलमूलानि समुच्छिन्नानि भवन्ति" इति ? तत्प्राप्तिदूरीकरणमभिसन्धायै-
तदुक्तम्; सन्ततेस्तद्भाजनत्वापादनात् ।
उपपत्तिप्रतिलाभिकान्येव च समुच्छिद्यन्ते; प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् ।
किमालम्बनया मिथ्यादृष्ट्या समुच्छिद्यन्ते ?
फलहेत्वपवादिन्या,
या च हेतुमपवदते—नास्ति सुचरितं नास्ति दुश्चरितमिति, या च
फलम्—नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाक इति ।
आनन्तर्यविमुक्तिमार्गस्थानीये एते इत्यपरे ।
सास्रवालम्बनयैव नानास्रवालम्बनया, सभागधात्वालम्बनयैव च न विसभा-
गधात्वालम्बनया; सम्प्रयोगमात्रानुशयित्वेन दुर्बलत्वादित्येके ।
प्रज्ञप्तिभाष्यं तर्हि कथं नीयते । यदि कामावचराणि कुशलमूलानि समु-
च्छिद्यन्ते । रूपारूप्यावचरैरसमन्वागतत्वादिति वर्ण्यन्ते । तत्प्राप्तिदूरीकरण-
मिति । रूपारूप्यावचराणां प्राप्तेर्दूरीकरणमभिप्रेत्य तस्य पुद्गलस्य एतदुक्तम्—
त्रैधातुकानि कुशलमूलानि समुच्छिन्नानीति । कथं च पुनस्तत्प्राप्तिदूरीकरणम् -
सन्ततेस्तदभाजनत्वापादनात् । यस्मादसौ तत्सन्ततिः पूर्वं भाजनभूता तत्प्रा-
प्तीनाम् । कुशलमूलसमुच्छेदादिदानीं तत्प्राप्तीनामभाजनमापादितेति । अतस्तत्-
प्राप्तिर्दूरीकृता भवति ।
प्रायोगिकेभ्यः पूर्वं परिहीणत्वादिति । श्रुतचिन्ताभावनामयेभ्यः प्रायोगिकेभ्यः
पूर्वमेवासौ मृदुमृद्ववस्थायां तेभ्यः परिहीणः । तदैव तस्य प्राप्तिच्छेद इत्यर्थः ।
आनन्तर्यविमुक्तिमार्गस्थानीये इति । हेत्वपवादिनी आनन्तर्यमार्गस्थानीया ।
फलापवादिनी विमुक्तिमार्गस्थानीया । तदुक्तं भवति—उभे अपि एते हेतुफला-
पवादिन्यौ मिथ्यादृष्टी कुशलमूलसमुच्छेदे व्याप्रियेते, नैकेवेति ।
अपरः पक्षः—सास्रवालम्बनयैवेति । दुःखसमुदयालम्बनया । नानास्रवालम्ब-
नया निरोधमार्गालम्बनया इत्यर्थः । सभागधात्वालम्बनयैव चेति । कामधात्वा-
लम्बनयैवेत्यर्थः । न विसभाकधात्वालम्बनया । न रूपारूप्यधात्वालम्बनया ।
कुशलमूलानि समुच्छिद्यन्त इत्यधिकृतम्, कस्माद् ? इत्याह—सम्प्रयोगमात्रानु-
शायित्वेन दुर्बलत्वादिति । अनास्रवालम्बना विसभाकधात्वालम्बना च या
मिथ्यादृष्टिः सा सम्प्रयोगमात्रेण सम्प्रयुक्तेषु धर्मेष्वनुशेते, नालम्बनतः । तस्मा-
दसौ दुर्बला भवति, अतो न तया समुच्छिद्यन्ते ।
निर्देशः ] चतुर्थं कोशस्थानम् ६९९
एवं तु वर्णयन्ति—
सर्वथा १
नवप्रकाराण्यपि कुशलमूलानि सकृत् समुच्छिद्यन्ते ।
दर्शनप्रहातव्या २ इवेत्येके२ । एवं तु वर्णयन्ति—
क्रमशः,
नवप्रकार्या मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते ।
भावनाहेयक्लेशवत् यावदधिमात्राधिमात्रया मृदुमृदूनिति ।
एवमयं ग्रन्थः पालितो भवति—“कतमान्यणुसहगतानि कुशलमूलानि ?
आह—यैरकुशलमूलैः कुशलानि समुच्छिन्नानि सर्वपश्चात् विजहाति, यैः विशीर्णैः
समुच्छिन्नकुशलमूल इति संख्यां गच्छति” ( ) इति ।
अस्य तर्हि ग्रन्थस्य को नयः—“कतमान्यधिमात्राण्यकुशलमूलानि ?
यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति” ( ) इति ?
समाप्तिमेतत् सन्धायोक्तम्; तैर्निरवशेषच्छेदात् ।
एवं तु वर्णयन्ति । वैभाषिकाः । “सर्वथा” इति । या च हेतुमपवदते या च
फलम्, या च सभागं धातुमालम्बते या च विसभागम्, या च सास्रवं या
चानास्रवमालम्बते, सर्वथैव तया समुच्छिद्यन्ते ।
दर्शनप्रहातव्या इवेति । यथा दुःखादिदर्शनहेयाः क्लेशा नवप्रकारा अपि
दुःखादिसत्यदर्शनात् सकृत् प्रहीयन्ते, तद्वन्नवप्रकाराण्यपि कुशलमूलानि सकृत्
समुच्छिद्यन्त इत्येके ।
भावनाहेयक्लेशवदिति । यथा नवप्रकारेण मार्गेण नवप्रकारः क्लेशः
प्रहीयते । मृदुमृदुना मार्गेण अधिमात्राधिमात्रक्लेशप्रकारः प्रहीयते, यावदधि-
मात्राधिमात्रेण मृदुमृद्वया मिथ्यादृष्ट्या अधिमात्राधिमात्रः कुशलमूलप्रकारः
समुच्छिद्यते । यावदधिमात्राधिमात्रया मृदुमृदुः कुशलमूलप्रकार इति । एवमयं
ग्रन्थः परिपालितो भवति । यदि भावनाहेयक्लेशवद् यथोक्तं तानि समुच्छिद्यन्ते ।
अणुसहगतानि । मृदुमृदूनि । यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्तीति । अधि-
मात्रैरकुशलमूलैः कुशलमूलसमुच्छेद उक्तः, न मृदुमृद्वादिभिरित्यभिप्रायः । यदि
क्रमशः समुच्छिद्यन्ते, अस्य तर्हीत्यादि कथम् ? समाप्तिमेतत् सन्धायोक्तमिति ।
१. सर्वथा—का० । २-२. ०तव्यवदित्येके—का० ।
अभि० को० २ : २१
एकोऽपि हि प्रकारस्तेषामसमुच्छिन्नः सर्वेषां पुनरुत्पत्तौ हेतुः स्यादिति ।
दर्शनमार्गवदभ्युत्थानेन छिन्दन्तीत्येके । एवं तु वर्णयन्ति—उभयथेति ।
पूर्वं संवरं विजहाति पश्चात् कुशलमूलानि समुच्छिनत्तीत्येके । एवं तु
वर्णयन्ति—यस्य चित्तस्य फलसंवरस्तत्त्यागात् तस्य त्याग इति ।
अथ कुशलमूलानि समुच्छिद्यन्ते
नृषु ॥ ७९ ॥
मनुष्येष्वेव नापायेषु; क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृढत्वात् । न देवेषु; कर्मफले¹
प्रत्यक्षत्वात्¹ । त्रिषु द्वीपेषु, नोत्तरकुरौ ।
अपापाशयत्वात् जम्बूद्वीप एवेत्यपरे । तेषामयं ग्रन्थो विरुध्यते—
“जाम्बूद्वीपकः सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः । एवं पौर्व-
कुशलमूलसमुच्छेदसमाप्तिं सन्धाय कतमानि अधिमात्राणीति विस्तरेण एत-
दुक्तम् । मृदुमृद्वादिसमुच्छेदस्त्वनुक्तोऽपि ग्रहीतव्यः । तस्मात् समाप्तिमेव सन्धा-
येतदुक्तम् । तैर्निरवशेषच्छेदात् । यस्मात्तैर्नवभिर्मिथ्यादृष्टिप्रकारैः कुशलमूलानां
निरवशेषच्छेदो भवति ।
एकोऽपि हि प्रकारस्तेषामसमुच्छिन्न इति । मृदुमृदुनवमः प्रकारः सर्वेषां नवा-
नामपि प्रकाराणां पुनरुत्पत्तौ हेतुः स्यादिति । अतः समाप्तिमेततत् सन्धायोक्तम् ।
उभयथेति² । व्युत्थानेन च, अव्युत्थानेन च । तत्त्यागात् तस्य त्याग इति ।
यो मृदुमृदुना चित्तेन संवरः समात्त आसीत्, तस्य मृदुमृदोश्चित्तस्य मृदु-
मृदुकुशलमूलसम्प्रयुक्तस्य त्यागे समुच्छेदे तस्य संवरस्य त्यागो भवति । एवं
यावद् योऽधिमात्राधिमात्रेण चित्तेन समात्तः संवरः । तत्त्यागात् तस्य
त्याग इति ।
कर्मफले प्रत्यक्षत्वादिति । अचिरोपपन्नस्य देवपुत्रस्य त्रीणि चित्तानि
समुदाचरन्ति—कुतोऽहं च्युतः, कुत्रोपपन्नः, केन कर्मणेति । एवं कर्मफलप्रत्यक्ष-
त्वान्न देवेषु कुशलमूलानि समुच्छिद्यन्ते ।
जम्बूद्वीप एवेति । तत्र विशेषेण तार्किकत्वादित्यभिप्रायः । सर्वाल्पैरष्टाभि-
रिन्द्रियैः समन्वागतः । पञ्चभिर्वेदनेन्द्रियैः कायजीवितमनइन्द्रियैश्च । समुच्छिन्न-
कुशलमूल एव । तस्य हि श्रद्धादीनि समुच्छिन्नानि । पृथग्जनत्वाच्च नाज्ञा-
१-१. कर्मफल०—का० । २. उभयेनेति—मुद्रितः पाठः ।
निर्देशः ] चतुर्थं कोशस्थानम् ७०१
विदेहको¹ गौदानीयकः²" ( ) इति ॥ ७९ ॥
तानि पुनः
छिनत्ति स्त्री पुमान्,
स्त्री च समुच्छिनत्ति, पुरुषश्च; मन्दच्छन्दवीर्यप्रज्ञत्वात् ।
न स्त्रीत्यपरे ।
अयं ग्रन्थो विरुध्येत—"यः स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभि-
रिन्द्रियैः समन्वागतः" ( ) इति ?
तेषामपि तृष्णाचरितो न समुच्छिनत्ति; चलाशयत्वात् । कस्तर्हि !
दृष्टिचरितः,
दृढगूढपापाशयत्वात् । अत एव न षण्ढादयः³; तृष्णाचरितपक्षत्वात्⁴ ।
आपायिकवच्च ।
किंस्वभावः कुशलमूलसमुच्छेदः ?
सोऽसमन्वयः ।
स्वामीन्द्रियाणि सन्ति । चक्षुरादीन्यपि न सन्ति । वैकल्ययोगे, क्रममरणा-
वस्थायां वा । एवं पूर्वविदेहको गौदानीयक इति । अतिदेशादस्त्यनयोरपि
कुशलमूलसमुच्छेद इति दर्शयति ॥ ७९ ॥
"छिनत्ति स्त्री पुमान्" इति । स्त्री पुमांश्चेति च-शब्दो लुप्तनिर्दिष्टः । यः
स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभिरिन्द्रियैः समन्वागतः । चतुर्भिर्वेदने-
न्द्रियैः, त्रिभिश्च कायजीवितमनइन्द्रियैः, स्त्रीन्द्रियेणाष्टमेन। श्रद्धादीनि समुच्छिन्न-
कुशलमूलावस्थायां व्यभिचारयन्त इत्यभिप्रायः । अयमेव चात्रार्थो विरुध्यते ।
चक्षुरादीन्यपि व्यभिचार्यन्ते पूर्ववत् ।
तेषामपीति । तेषामपि समुच्छेत्तॄणामुक्तानां तृष्णाचरितो न समुच्छिनत्ति ।
दृढगूढपापाशयत्वादिति । दृढो गूढः पापश्चाशयोऽभिप्रायोऽस्येति समासः ।
दृढः = स्थिरः । गूढः = प्रच्छन्नः । पापः = अकल्याणः । तृष्णाचरितपक्षत्वादिति ।
तृष्णाचरितजातीयत्वादित्यर्थः । यथा तृष्णाचरितश्चलाशयः, तद्वत्ते षण्ढादय
इति । आपायिकवच्च । यथा—आपायिकाः क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृढत्वात् न
कुशलमूलानि समुच्छिन्दन्ति, एवं षण्ढादयः ।
१. पूर्व०—का० । २. गोदानीक—का० ।
३ षण्ढा०—का० । ४. ०चरिते पक्षात्वात्—का० ।
७०२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
यदा हि कुशलमूलानां प्राप्तिर्न पुनरुत्पद्यते, अप्राप्तिरप्युत्पद्यते । तस्मिन्न-
समन्वागम उत्पन्ने समुच्छिन्नानि कुशलमूलान्युच्यन्ते ।
तेषां समुच्छिन्नानां कथं पुनः प्रतिसन्धिः ?
सन्धिः काङ्क्षास्तिदृष्टिभ्यां
यदा अस्य हेतुफले विचिकित्सा चोत्पद्यते, अस्तिदृष्टिर्वा, सम्यग्दृष्टिरित्यर्थः,
तदा पुनः तत्प्राप्तिसमुत्पादात् प्रतिसन्धितानि कुशलमूलान्युच्यन्ते । नवप्रकाराणां
युगपत् प्रतिसन्धानं क्रमेण तु सम्मुखीभावः, आरोग्यबललाभबललाभवत् । स पुनस्तेषां
प्रतिसन्धिः ।
नेहानन्तर्यकारिणः ॥ ८० ॥
अन्यस्यैवेह स्यात्, आनन्तर्यकारिणस्तु नेह स्यात् । तमेव सन्धायोक्तम्-
“अभव्योऽयं पुद्गलो दृष्ट एव धर्मे कुशलमूलानि प्रतिसन्धातुम्, नियतमयं
नरकेभ्यश्च्यवमानो वा उपपद्यमानो वा कुशलमूलानि प्रतिसन्धास्यति” ( )
इति । उपपद्यमानोऽन्तराभवस्थः, च्यवमानश्च्युत्यभिमुखः । तत्र पुर्नयो हेतुबलेन
समुच्छिनत्ति स च्यवमानः प्रतिसन्दधाति, यः प्रत्ययबलेन स उपपद्यमानः । एवं
यः स्वबलेन परबलेन ।
पुनराह-य आशयविपन्नः समुच्छिनत्ति स दृष्टे धर्मे प्रतिसन्दधाति ।
य आशयप्रयोगविपन्नः स भेदात् कायस्येति । एवं यो दृष्टिविपन्नो दृष्टिशील-
प्रतिसन्धितानीति । प्रतिसन्धिकृतानि प्रतिसन्धितानि । प्रातिपदिकधातुः ।
प्रतिसंहितानीत्यपरे पठन्ति । आरोग्यबललाभभवदिति । यथा आरोग्यं पूर्वं भवति
क्रमेणैव तु बल-लाभो भवति, तद्वत् ।
“नेहानन्तर्यकारिणः” इति । आनन्तर्यकारिण एव नेह प्रतिसन्धिर्भवतिं-
अर्थत एतदुक्तम्-अनानन्तर्यकारिण इह प्रतिसन्धिर्भवतीति । अन्तराभवस्थ
इति । नरकगमनायान्तराभवस्थः । च्युत्यभिमुख इति । नरकात् च्युत्यभि-
मुखः । हेतुबलेनेति । सभागहेतुबलेन । यस्माद् येषां मिथ्यादृष्टी स्वयं रोचते ।
प्रत्ययबलेनेति । परतो घोषबलेन । यस्माद् येषां मिथ्यादृष्टी रोचते; हेतुबलस्य
सारत्वात् । एवं यः स्वबलेनेति । यः स्वतर्कबलेन । स च्यवमानः । यः परबलेन ।
परतः श्रुतबलेन । स उपपद्यमानः । य आशयविपन्न इति । मिथ्यादृष्टिसम्मुखीभावेन
विपन्नो विनष्टः । स दृष्टे धर्मे जन्मनि प्रतिसन्दधाति । य आशयप्रयोगविपन्नः । यो
निर्देशः ] चतुर्थं कोशस्थानम् ७०३
विपन्न इति ।
स्यात् समुच्छिन्नकुशलमूलो न मिथ्यात्वनियत इति चतुष्कोटिकम् ।
प्रथमा कोटिः—पूरणादयः । द्वितीया—अजातशत्रुः । तृतीया—देवदत्तः ।
चतुर्थी—एतानाकारान् स्थापयित्वा ।
कुशलमूलसमुच्छेदिकाया मिथ्यादृष्टेरवीचौ विपाकः । आनन्तर्यकारिणां
तु तत्र वा, अन्यत्र वा नरके ॥ ८० ॥
कर्मपथप्रसङ्ग एवायं वर्तते । तत्र वक्तव्यम्—कतिभिः कर्मपथैः सह
चेतना युगपदुत्पन्ना वर्तत इति ?
युगपद् यावदष्टाभिरशुभैः सह वर्तते ।
चेतना,
एकेन तावत् सह वर्तते । विना ऽन्येनाभिध्यादिसम्मुखीभावे अक्लिष्टचेतसो
वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने ।
मिथ्यादृष्टिसम्मुखीभावेनानन्तर्यक्रियया च विपन्नः । स भेदात् कायस्य प्रतिसन्द-
धाति । अत्र च यः स्वबलेन परबलेनेति पूर्वोक्तस्यैवायं पर्यायः । एवं या दृष्टि-
विपन्नो यो दृष्टिशीलविपन्न इति अनन्तरपूर्वोक्तस्यैवायं पर्याय इत्यवगन्तव्यम् ।
पूरणादय इति । आदिशब्देन षट् शास्तारो गृह्यन्ते । तद्यथा—
मस्करी गोशालीपुत्रः, सञ्जयो वैरटीपुत्रः, अजितः केशकम्बलः, ककुदः
कात्यायनः, निर्ग्रन्थो ज्ञातिपुत्र इति । ते समुच्छिन्नकुशलमूलाः; नास्तिकत्वात् ।
न मिथ्यात्वनियताः, अनानन्तर्यकारित्वात् । आनन्तर्यकारिगो हि मिथ्यात्व-
नियताः । अजातशत्रुस्तु मिथ्यात्वनियत:; आनन्तर्यकारित्वात् । न समु-
च्छिन्नकुशलमूलः; सम्यग्दृष्टिकत्वात् । देवदत्तः समुच्छिन्नकुशलमूलश्च मिथ्यात्व-
नियतश्च; सङ्घभेदकत्वात्, तथागतदुष्टचित्तरुधिरोत्पादकत्वाच्च । चतुर्थ्येताना-
कारान् स्थापयित्वेति । अस्मदादयः ॥ ८० ॥
विनान्चेनाभिध्यादिममुखीभाव इति । विनान्येन कर्मपथेन प्राणातिपाता-
दिनाऽभिध्यादीनामन्यतमसम्मुखीभावे । सा चेतना एकेन कमपथेन सहं वर्तत ।
अभिध्यया वा, व्यापादेन वा, मिथ्यादृष्ट्या वा । आक्लिष्टचेतसो वेति । कुशला-
व्याकृतचित्तस्य । तस्य प्रयोक्तुः प्रयोगेण । रूपिणां प्राणातिपातानां काम-
मिथ्याचारवर्ज्यानामन्यतमस्य निष्ठापने । तेनेकेन सह चेतना वर्तते । अभिध्या-
दिव्यतिरिक्तक्लिष्टचित्तस्य वेति वक्तव्यम् । तस्यापि ह्ययं विधिः सम्भवति ।
७०४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
द्वाभ्यां सह वर्तते । व्यापन्नचित्तस्य प्राणिवधे, अभिध्याविष्टस्य वाऽदत्ता-
दाने, काममिथ्याचारे, सम्भिन्नप्रलापे च¹ ।
त्रिभिः सह वर्तते । व्यापन्नचित्तस्य प्राणिमारणापहरणे² युगपत् । न
तर्हीदानीमदत्तादानस्य लोभेनैव निष्ठा सिध्यति ? अनन्यचित्तस्य तत्परिसमाप्तौ³
स नियमो ज्ञेयः । अभिध्याद्याविष्टस्य च तत्प्रयोगेण रूपिद्वयनिष्ठागमने
त्रिभिरेव ।
व्यापन्नचित्तस्य प्राणिवध इति विस्तरः । व्यापादेन प्राणातिपातेन 'चेति
द्वाभ्यां सह वर्तते । काममिथ्याचारे, सम्भिन्नप्रलापे च द्वाभ्यां सह वर्तते । अभि-
ध्यया काममिथ्याचारेण चेति द्वाभ्याम् । सम्भिन्नप्रलापेनाभिध्यादीनां चान्यत
मेन चेति द्वाभ्यामेव ।
इदं चोद्यते—व्यापन्नचित्तस्य प्राणिवध इत्यभिध्याविष्टस्य चादत्तादान
इति, किमिदं स्वयं कुर्वत उच्यते ? उताहो परेण कारयतः ? यदि स्वयं
कुर्वतः; व्यापन्नचित्तस्याभिध्याविष्टस्य चेति विशेषणं न युज्यते; प्राणिवधे
व्यापादस्यावश्यकत्वात्, अदत्तादाने चाभिध्यायाः, व्यभिचारे हि विशेषण-
मिष्यते ? अथ परेण कारयतः; अभिध्याव्यापादमिथ्यादृष्ट्यन्यतमचित्तस्य
प्राणिवधे, अदत्तादानकाममिथ्याचारसम्भिन्नप्रलापेषु वेति वक्तव्यम् ? उच्यते—
स्वयं कुर्वत इति । ननु चोक्तं विशेषणं न युज्यत इति ? नैष दोषः; न हीदं
विशेषणमुच्यते, किं तर्हि ? स्वरूपाख्यानमेतत् । व्यापादाभिध्ययोर्द्वितीय-
भूतयोस्तत्रास्तित्वं कथ्यत इति । एवमप्यभिध्याद्यन्यतरचित्तस्य तान् प्राणा-
तिपातादीन् कारयतो द्वाभ्यां सह चेतना वर्तत इति सम्भवेत्, तस्मात्तदपि
वक्तव्यम् ? सत्यं वक्तव्यमेतत् । उदाहरणमात्रं त्वेतदुक्तमित्यदोषः ।
व्यापन्नचित्तस्य प्राणिमारणापहरणे युगपदिति । यत्र मारणेनेवापहरणं
सिध्यति, तत्र हि व्यापादप्राणिवधादत्तादानकर्मपथा युगपद् भवन्तीति । न
तर्हीति विस्तरः । यदि परकीयद्रव्यापहरणकाले व्यापादो भवति । न तर्ही-
दानीमदत्तादानस्य लोभेनैव निष्ठा सिध्यतीति । लोभद्वेषयोर्युगपदभावात् ।
अनन्यचित्तस्येति विस्तरः । अपहरणचित्तस्यैव तत्परिसमाप्तावदत्तादानपरि-
समाप्तौ स नियमो ज्ञेयः । "लोभतः परस्त्रीगमनाभिध्यादत्तादानसमापनम्"
( अभि० को० ४.७० ) इति । अन्यचित्तस्य तु मारणचित्तस्य नायं नियमः ।
१. वा०—का० । २. परकीयप्राणि०—का० ।
३. तत्समाप्तौ—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् ७०५
चतुर्भिः सह वर्तते—भेदाभिप्रायस्यानृतवचने, परुषवचने वा। तत्र हि
मानस एको भवति, वाचिकास्त्रयः।
अभिध्यादिगतस्य वा तत्प्रयोगेणान्यरूपित्रयनिष्ठागमने।
एवं पञ्चषट्सप्तभिर्योजयितव्या।
अष्टाभिः सह वर्तते। षट्सु प्रयोगं कृत्वा स्वयं काममिथ्याचारं कुर्वतः
समं निष्ठागमने। एवं तावदकुशलैः।
दशभिर्यविच्छुब्धैः,
कुशलैः पुनः कर्मपथैर्यावद् दशभिः सह चेतना वर्तत इति।
उत्सर्गं कृत्वाऽपवादं करोति—
नैकाष्टपञ्चभिः ॥ ८१ ॥
भेदाभिप्रायस्यानृतवचन इति। भेदाभिप्रायत्वात् तदेवानृतं पैशुन्यं भवति।
तदेव सम्भिन्नप्रलापः, "सर्वं क्लिष्टं सम्भिन्नप्रलापिता" (अभि० ४.७६) इति
सिद्धान्तात्। एवं भेदाभिप्रायत्वात्तदेव परुषवचनं पैशुन्यं तथैव च सम्भिन्न-
प्रलाप इति। चतुर्भिः सह वर्तते। कथम् ? इत्याह—तत्र हि मानस एको
भवति, वाचिकास्त्रय इति। अनृतवचनेऽभिध्याव्यापादो वा भवेत्। वाचिका-
स्त्रयः—मृषावादपैशुन्यसम्भिन्नप्रलापाः। परुषवचनेऽपि मानस एको व्यापादः,
वाचिकास्त्रयः—पारुष्यपैशुन्यसम्भिन्नप्रलापाः। नामत एवं त्रयो भवन्ति, न
तु स्वभावतः। तदेव ह्यनृतवचनं पैशुन्यं सम्भिन्नप्रलाप इति चोच्यते। न तु
त्रयः स्वभावा भवन्ति। एवं परुषवचनमपि त्रिनामकं भवतीति योज्यम्।
अपरे पुनर्व्याचक्षते—स्वभावभेदोऽप्यस्तीति। मृषावादपैशुन्यसम्भिन्न-
प्रलापाविज्ञप्तयो हि भिद्यन्ते, तथा पारुष्य-पैशुन्य-सम्भिन्नप्रलापाविज्ञप्तयो
भिद्यन्त इति। अभिध्यादिगतस्येति विस्तरः। अभिध्यादिगतस्य वा चतुर्भिः
सह वर्तते। तत्र मानस एकोऽभिध्यादीनामन्यतमः। तत्प्रयोगेणाभिध्यादिगत-
प्रयोगेणायं कर्मपथत्रयस्य प्राणिवधादिकस्य निष्ठागमने समाप्तिकाले।
एवं पञ्चषट्सप्तभिर्योजयितव्या। का? चेतना। कथम्? पञ्चभिस्तावत्
सह वर्तते। अभिध्यादिगतस्य तत्प्रयोगेणान्यच्चतुष्टयनिष्ठागमने। एवमभिध्यादि-
गतस्यान्यपञ्चषट्निष्ठागमने षड्भिः, सप्तभिश्च सह वर्तते।
अष्टाभिः सह वर्तते। षट्सु प्राणातिपातादिषु प्रयोगं कृत्वा अभिध्यागतस्य
स्वयं काममिथ्याचारं कुर्वतः समं निष्ठागमने। नवभिः सह वर्तत इति नास्त्ये-
तत्; मानसानां कर्मपथानां युगपदसम्भवात्।
७०६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
एकेनाष्टाभिः पञ्चभिश्च कर्मपथैः सह न वर्तते ।
तत्र द्वाभ्यां सह वर्तते—कुशलेषु पञ्चसु विज्ञानेषु, आरूप्यसमाप्तौ च
क्षयानुत्पादज्ञानयोः ।
त्रिभिः— सम्यग्दृष्टिसम्प्रयुक्ते मनोविज्ञाने ।
चतुर्भिः—अकुशलाव्याकृतचित्तस्योपासकश्रामणेरसंवरसमादाने ।
"नैकाष्टपञ्चभिः" इति । नैकेनैव मानसेन; कुशले चेतस्यनभिध्याव्यापाद-
योरवश्यम्भावात् । नापि रूपिणैकेन संवरसंगृहीतेन कर्मपथेन सह चेतना
वर्तते; क्लिष्टाव्याकृतचित्तावस्थायामपि उपासकसंवरादिषु प्राणातिपाता-
दत्तानकाममिथ्याचारमृषादानानामवश्यं सहभावात् । न पञ्चभिरेव;
कुशले चेतस्यनभिध्याव्यापादयोर्द्वयोरवश्यं सहभावात् । संवरसंगृहीतानां च
प्राणातिपातादीनामेषां चतुर्णामवश्यं सहभावात् । नाष्टाभिरेव; भिक्षुसंवर-
संगृहीतानां कायिकवाचिनां क्लिष्टाव्याकृतावस्थायां सप्तानामेव सम्भवात् ।
कुशलचित्तावस्थायां च नवानां दशानां वा सम्भवात् । पारिशेष्याद् द्व्यादिभिः
सह वर्तते इत्युक्तं भवति ।
तत्र द्वाभ्यामिति विस्तरः । तत्र द्वाभ्यां सह वर्तते । कुशलेषु पञ्चसु विज्ञाने-
ष्वनभिध्या चाव्यापादश्च स्तः, न सम्यग्दृष्टिः । 'पञ्चविज्ञानसहजा धीर्न दृष्टि-
रतीरणात्" ( अभि० १.४१ ) इति सिद्धान्तात् । अतोऽनभिध्याव्यापादाभ्यां
द्वाभ्यामेवात्र सह वर्तते । आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोरिति । आरूप्य-
समापत्तिसंगृहीतयोश्च क्षयानुत्पादज्ञानयोराभ्यामेव द्वाभ्यां सह वर्तते; 'क्षया-
नुत्पादधीर्न दृक्” ( अभि० ७ १ ) इति तत्र सम्यग्दृष्ट्यभावात् । आरूप्य-
समापत्तिग्रहणं ध्यानासमापत्तिसंगृहीतयोः क्षयानुत्पादज्ञानयोः सप्तविधकायिक-
वाचिकानास्रवसंवरस्वभावकर्मपथनिवृत्त्यर्थम् । क्षयानुत्पादज्ञानग्रहणं सम्य-
ग्दृष्टिनिरासार्थं च; क्षयानुत्पादज्ञानयोरसम्यग्दृष्टिस्वभावत्वात् ।
त्रिभिः सह वर्तते । सम्यग्दृष्टिसम्प्रयुक्ते मनोविज्ञाने । रूपिकर्मपथाभाव इति
वाक्यशेषः । तत्र ह्यनभिध्याव्यापादसम्यग्दृष्टय एव त्रयः कर्मपथा भवन्तीति ।
चतुर्भिरिति विस्तरः । अकुशलाव्याकृतचित्तस्येति विशेषणान्मानसा न
सन्तीति दर्शितं भवति । उपासकश्रामणेरसंवरसमादाने च । प्राणातिपातादत्ता-
दानकाममिथ्याचारमृषावादविरतिलक्षणाश्चत्वार एव कर्मपथा. भन्ति;
मद्यपानादिविरतीनां दशकर्मपथानन्तर्भावात् । पैशुन्यविरत्यादीनां चोपासक-
श्रामणेरसंवरासंग्रहात् । श्रामणेरसंवरसमादानवचनात् चोपवाससंवर-
निर्देशः ] चतुर्थं कोशस्थानम् ५७७
षड्भिः—कुशलेषु पञ्चसु विज्ञानेषु¹, तत्समादाने।
सप्तभिः—कुशले मनोविज्ञाने, तत्समादान एव, अकुशलाब्याकृतचित्तस्य
च भिक्षुसंवरसमादाने।
नवभिः—कुशलेषु पञ्चसु विज्ञानेषु, तत्समादाने, क्षयानुत्पादज्ञानसम्प्रयुक्ते
च मनोविज्ञाने, तस्मिन्नेव च ध्यानसंगृहीते।
दशभिः—ततोऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव।
सर्वा च ध्यानानास्रवसंवरसहवर्तिनी चेतना, अन्यत्र क्षयानुत्पादज्ञाना-
भ्याम्। संवरनिर्मुक्तेन त्वेकेनापि सह स्यादन्यचित्तस्यैकाङ्गविरतिसमादाने।
समादानमुक्तंरूपमवगन्तव्यम्। श्रामणेरसंवरसमादाने त्वब्रह्मचर्याद् विरति-
स्तृतीयः कर्मपथः। तत्र च काममिथ्याचारोऽन्तर्भूत एव।
षड्भिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने। उपासकश्रामणेरसंवर-
समादाने तैश्चतुर्भिर्यथोक्तैरनभिध्याव्यापादाभ्यां चेति षड्भिः; पञ्चसु
विज्ञानेषु सम्यग्दृष्ट्यभावात्।
सप्तभिः कुशले मनोविज्ञाने तत्समादान एव। उपासकश्रामणेरसंवरसमा-
दान एव तैरेव यथोक्तैः सम्यग्दृष्ट्या च सप्तमेन कर्मपथेन। मनोविज्ञाने हि
कुशले सम्यग्दृष्टिरस्तीति। अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने
सप्तभिरेव रूपिभिः, न मानसैः; अकुलाव्याकृतचित्तत्वात्।
नवभिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने। भिक्षुसंवरसमादाने। सम्य-
ग्दृष्टेरेवाभावात्। क्षयानुत्पादज्ञानसम्प्रयुक्ते च मनोविज्ञाने तैरेव नवभिः सह
वर्तते; तत्रापि सम्यग्दृष्ट्यभावात्। तस्मिन्नेव चेति। क्षयानुत्पादज्ञानसम्प्रयुक्त
एव ध्यानसंगृहीते मनोविज्ञाने। नवभिरेव + ध्यानसंवरसंगृहीते रूपिभिः
सप्तभिः, अनभिध्याव्यापादाभ्यां च।
दशभिस्ततोऽन्यत्रेति। क्षयानुत्पादज्ञानवर्जिते कुशले मनोविज्ञाने भिक्षुसंवर-
समादान एव। सर्वा चेति विस्तरः। सर्वा च ध्यानास्रवसंवरसहवर्तिनी क्षयानु-
त्पादज्ञानासम्प्रयुक्ता चेतना सप्तभिः कायिकवाचिकैर्ध्यानानास्रवसंवरसंगृहीतैः,
त्रिभिश्च मानसेरिति दशभिः सह वर्तते। संवरसंगृहीतैः कर्मपथैः सहैव चेतना
वर्तत इति दर्शितम्।
संवरनिर्मुक्तेन तु। अष्टविधसंवरनिर्मुक्तेन तु। एकेनापि सह स्यात्। कथम्?
इत्याह—अन्यचित्तस्येति। तत्संवरनिर्मुक्तकुशलकर्मपथसमुत्थापकाच्चित्तादन्य-
१. विज्ञानकायेषु—का०।
पञ्चाष्टाभिरपि स्यात्, कुशले मनोविज्ञाने द्विपञ्चाङ्गसमादाने युगपत् ॥ ८१ ॥
कस्यां गतौ कति कर्मपथा अकुशलाः कुशला वा सम्मुखीभावतः,
समन्वागमतो वा ?
सम्भिन्नालापपारुष्यव्यापादा¹ नरके द्विधा ।
इत्येते त्रयः कर्मपथा नरके द्वाभ्यां सप्रकाराभ्यां सन्ति—सम्मुखीभावतः,
समन्वागमभावतश्च । परिवेदनात् सम्भिन्नप्रलापः । परस्परपरितापनात् पारुष्यं
रूक्षसन्तानतया । परस्परद्वेषाद् व्यापादः ।
समन्वागमतोऽभिध्यामिथ्यादृष्टी,
न सम्मुखीभावतः । रञ्जनीयवस्त्वभावात्, कर्मफलप्रत्यक्षत्वाच्च । कर्मक्षयेण
मरणान्न प्राणातिपातः, द्रव्यस्त्रीपरिग्रहाभावान्नादत्तादानकाममिथ्याचारौ, प्रयोजन-
भावान्न मृषावादः । अत एव न पैशुन्यम्; नित्यभिन्नत्वाच्च ।
कुरौ त्रयः ॥ ८२ ॥
'समन्वागमतः' इति वर्तते । अभिध्याव्यापादमिथ्यादृष्टयो न सम्मुखीभावतः ।
अममपरिग्रहत्वात्² स्निग्धसन्तानत्वादाघातवस्त्वभावादपापाशयत्वाच्च ॥ ८२ ॥
चित्तस्य । क्लिष्टाव्याकृतचित्तस्येत्यर्थः । एकाङ्गविरतिसमादाने । प्राणातिपाता-
ङ्गविरतेः, अदत्तादानविरतेर्वा समादाने । तेनैकेन कर्मपथेन सह वर्तते । पञ्चाष्टा-
भिरपीति । कुशलमनोविज्ञानस्य पुद्गलस्य द्वयङ्गसमादाने युगपन्मानसैस्त्रिभिः ।
रूपिभ्यां द्वाभ्यामिति पञ्चभिः । पञ्चाङ्गसमादाने । युगपत्तैश्च रूपिभिः पञ्चभिः ।
मानसेश्च त्रिभिरित्यष्टाभिः । उदाहरणरूपं चेतदुक्तम् । अतोऽन्यथापि शक्यते
वक्तुम्—क्लिष्टाव्याकृतचित्तस्य संवरासंगृहीतपञ्चाङ्गसमादाने पञ्चभिः सह
वर्तते इति ॥ ८१ ॥
रञ्जनीयवस्त्वभावादिति । नरके रञ्जनीयवस्त्वभावात् न सम्मुखीभावतोऽ-
भिध्यास्ति । कर्मफलप्रत्यक्षत्वाच्च न मिथ्यादृष्टिः । अत एवेति । प्रयोजनाभा-
वान्न पैशुन्यम् । नित्यभिन्नत्वाच्च । अन्योन्यसौहार्दाद्यभावतः ।
अममपरिग्रहत्वान्न कुरौ सम्मुखीभावतोऽस्त्यभिध्याकर्मपथः । स्निग्ध-
सन्तानत्वादाघातवस्त्वभावाच्च न व्यापादः । अपापाशयत्वाच्च न मिथ्यादृष्टिः ।
त्रयोऽप्येतेऽभिध्यादयो न सन्ति ॥ ८२ ॥
१. भिन्नप्रला०—का० । २. अममा०—का० ।
निर्देशः ] चतुर्थे कोशस्थानम् ७०१
सप्तमः स्वयमप्यत्र,
असम्भिन्नप्रलापः सम्मुखीभावतोऽप्यास्त । ते हि क्लिष्टचित्ताः कदाचिद्
गायन्ति । अपापाशयत्वात् न प्राणातिपातादयः । नियतायुष्कत्वाद्, द्रव्यस्त्रीपरि-
ग्रहाभावात्, प्रयोजनाभावाच्च ।
कथमेषामब्रह्मचर्यम् ? ते खलु यया स्त्रिया सार्धं रन्तुकामा भवन्ति तां बाहौ
गृहीत्वा वृक्षमूलमुपसर्पन्ति । गम्या चेद्, वृक्षश्छादयतितां ते गच्छन्ति । अगम्या
चेन्न छादयति, तां ते न गच्छन्ति ॥
कामेऽन्यत्र दशाशुभाः ।
‘स्वयमपि’ इति वर्तते : नरकोत्तरकुरुभ्यामन्यत्र कामधातौ दशाकुशलाः
कर्मपथाः सम्मुखीभावतोऽपि विद्यन्ते । तिर्यक्प्रेतदेवेष्वसंवरनिर्मुक्ताः । मनुष्येष्व-
संवरसंगृहीता अपि ।
यद्यपि देवो देवं न मारयति, अन्यगतिस्थं तु मारयति ।
देवा अपि शिरोमध्यच्छेदाद् म्रियन्त इत्यपरे ।
उक्ता अशुभाः ॥
शुभास्त्रयस्तु सर्वत्र सम्मुखीभावलाभतः ॥ ८३ ॥
पञ्चसु गतिषु त्रैधातुके सर्वत्रानभिध्याऽव्यापादसम्यग्दृष्टयः सम्मुखीभावतः
समन्वागमतश्च विद्यन्ते ॥ ८३ ॥
“स्वयमपि” इति । अस्य सम्मुखीभावत इति व्याख्यानम् । अपापाशयत्वान्न
प्राणातिपातादयः । षडपि सम्मुखीभावतः सन्ति । नियतायुष्कत्वात् न प्राणाति-
पातः । द्रव्यस्त्रीपरिग्रहाभावाद् यथाक्रमं नादत्तादानम्, काममिथ्याचारश्च ।
प्रयोजनाभावाच्च न मृषावादपैशुन्यपारुष्याणि ।
यदि परिग्रहो नास्ति कथमेषामब्रह्मचर्यमिति पृच्छति ।
संवरनिर्मुक्ता इति । नैवसंवरसंगृहीता इत्यर्थः । अन्यगतिस्थं तु मारयतीति ।
प्रेतादिगतिस्थम् ।
देवा अपि शिरोमध्यच्छेदान्म्रियन्त इति । शिरश्छेदान्मध्यच्छेदाद् देवा अपि
म्रियन्ते । ‘देवो देवं न मारयति’ इत्युक्ते अवध्या देवा इत्यभिप्रेतम् । देवानां
ह्यङ्गप्रत्यङ्गानि छिन्नानि छिन्नानि पुनर्जायन्ते । यद्यप्येवम्, तथापि शिरोमध्य-
च्छेदाच्छिरश्छेदान्मध्यच्छेदाच्च न पुनः प्रतिसन्धानमित्यस्ति देवानां वधः
इत्यभिप्रायः ॥ ८३ ॥
Here is the line-by-line transcription of the Sanskrit text from the image:
७१० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
आरूप्यासज्ञिसत्त्वेषु लाभतः सप्त,
कायिकवाचिकाः सप्त कुशला आरूप्येष्वसंज्ञिसत्त्वेषु समन्वार्गमत एव ।
आरूप्योपपन्नानामार्याणामतीतानागतानास्रवसंवरसमन्वागमात् । असंज्ञिसत्त्वानां
च ध्यानसंवरसमन्वागमात् ।
यद्भूभ्याश्रयमार्येणानास्रवं शीलमुत्पादितं निरोधितं भवति, तेनारूप्येष्व-
तीतेन समन्वागतो भवति । पञ्चभूम्याश्रयेण त्वनागतेन ।
शेषिते ।
सम्मुखीभावतश्चापि हित्वा सनरकान् कुरून् ॥ ८४ ॥
शेषः कृतः शेषिता । योऽन्यो धातुः शेषिता गतिर्वा, तत्रैते सप्त कुशलाः
कर्मपथाः सम्मुखीभावतोऽपि संविद्यन्ते, अन्यत्र नरकोत्तरकुरुभ्यः । ते पुन-
स्तिर्यक्प्रेतेषु संवरनिर्मुक्ता रूपधातौ तु संवरसंगृहीताः, अन्यत्रोभयथा ॥ ८४ ॥
त एते दशाकुशलाः कर्मपथाः कुशलाश्च
सर्वैर्धिपतिनिष्यन्दविपाकफलदा मताः ।
अकुशलैस्तावत् सर्वैरेवासेवितभावितबहुलीकृतैः नरकेषूपपद्यते । तदेषां
विपाकफलम् । स चेद्दित्यन्त्वमागच्छति मनुष्याणां सभागतां प्राणातिपातेनाल्पा-
युर्भवति, अदत्तादानेन भोगव्यसनी भवति, काममिथ्याचारेण ससपत्नदारः,
मृषावादेनाभ्याख्यानबहुलः, पैशुन्येन मित्रभेदोऽस्य भवति, पारुष्येणामनोज्ञ-
यद्भूभ्याश्रयमिति विस्तरः । पञ्च भूमयो यावच्चतुर्थध्यानभूमिः । यद् भूमि-
राश्रयोऽस्येति यद्भूभ्याश्रयम् । अनास्रवं शीलमार्येणोत्पादितं निरोधितम् ।
उत्पादितं वर्तमानमध्वानं गमितम् । निरोधितमतीतमध्वानं गमितम् । एक-
भूम्याश्रयं यावच्चतुर्भूभ्याश्रयं वा । तेनारूप्येष्वतीतेन समन्वागतो भवति । पञ्च-
भूम्याश्रयेण त्वनागतेन । कामावचराश्रयेण यावच्चतुर्थध्यानाश्रयेण च । यत्रोप-
पन्नो यत्र वा नोपपन्नस्तदाश्रयेण ।
अन्यत्र नरकोत्तरकुरुभ्य इति । तत्र समादानशीलाभावात् । अन्यत्रोभयथेति ।
अन्यत्र कामधातौ देवेषूत्तरकुरुवर्ज्येषु च मनुष्येषु उभयथा—संवरनिर्मुक्ताः,
संवरगृहीताश्च । त्रिविधः संवरः—प्रातिमोक्षसंवरः, ध्यानसंवरः, अनास्रव-
संवरश्च यथासम्भवं ग्रहीतव्यः ॥ ८४ ॥
आसेवितभावितबहुलीकृतैरिति । प्रयोग-मौल-पृष्ठावस्थासु ।
'निर्देशः ] चतुर्थं कोशस्थानम् ७११
शब्दश्रवणम्, सम्भिन्नप्रलापेनानादेयवाक्यः, अभिध्यया तीव्ररागः, व्यापादेन
तीव्रद्वेषः, मिथ्यादृष्ट्या तीव्रमोहः । तस्या मोहभूयस्त्वात् । इदमेषां
निःष्यन्दफलम् ।
अल्पमप्यायुर्मनुष्येषु कुशलफलम् । तत् कथं प्राणातिपातस्य निःष्यन्दफलं
भवति ? नोच्यते तदेवायुस्तस्य फलम्, किं तर्हि ? तेनाल्पायुर्भवतीति । अतो-
ऽन्तरायहेतुः प्राणातिपातस्तस्यायुषो भवतीति वेदितव्यम् । प्राणातिपातेनात्या-
सेवितेन बाह्या भावा अल्पौजसो भवन्ति । अदत्तदानेनाशनिरजोबहुलाः,
काममिथ्याचारेण रजोऽवकीर्णाः, मृषावादेन दुर्गन्धाः, पैशुन्येनोत्कूलनिकूलाः,
पारुष्येणोषरजङ्गला प्रतिकृष्टाः पापभूमयः, सम्भिन्नप्रलापे विषमर्तुपरिणामाः,
अभिध्यया शुष्कफलाः, व्यापादेन कटुकफलाः, मिथ्यादृष्ट्या अल्पफला अफला
वा । इदमाधिपत्यफलम् ।
किं तेनैव कर्मणायमिहाल्पायुर्भवति, अथान्येन ? तेनैवेत्येके । तद् विपाक-
फलम्, इदं निष्यन्दफलमिति ।
तत्र प्रयोगेनेह मौलेनेत्येके ।
किं तर्हि । तेनाल्पायुर्भवतीति । आयुषोऽल्पत्वात् निष्यन्दफलमिति दर्शयति ।
बाह्या भावाः । ओषधिभूम्यादयः । अल्पौजसः अल्पवीर्याः । अशनिरजोबहुला
इति । अशनिः शिलावर्षम् । रजो धूलिवृष्टिः, क्षारवृष्टिर्वा, यतः शस्यादिविनाशः ।
रजोऽवकीर्णा इति । धूलिव्युत्थिताः । उत्कूलनिकूलाः । उन्नतनिम्नाः । उषरजङ्गलाः ।
ऊषराश्च जङ्गलाश्च ते । बाह्या भावा इत्यधिकृताः । ता भूमय इहाभिप्रेताः ।
प्रतिकृष्टा विगर्हिताः । विषमर्तुपरिणामा इति । विषम ऋतुपरिणाम एषामिति
विषमर्तुपरिणामाः शस्यादय ओषधयः । यस्मिन्नृतौ वर्षितव्यं तत्र न वर्षति,
यस्मिन् शीतेन भवितव्यं तस्मिन् न शीतम्, यस्मिन्नुष्णेन भवितव्यं तन्न तन्न
भवतीति योज्यम् ।
तद्विपाकफलमिति सत्त्वसन्ताने । इदं निष्यन्दफलमिति । बाह्यं तद्वस्त्विति
न तद्विपाकफलम् ।
तत्र प्रयोगेनेति विस्तरः । नरके प्राणातिपातप्रयोगेण तीव्रं दुःखमनुभवति ।
प्राणातिपातप्रयोगेण हि वध्यस्य प्राणिनोऽतीव-तीव्रं दुःखं भवति । इह मौलेना-
ल्पायुर्भवति । यथा तस्य वध्यस्य प्राणिन आयुरुपद्रूत इति, तादृशमेवैतत् ।
७१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
परे सपरिवारग्रहणात्तु प्राणातिपातेनेत्युक्तमिति ।
यदप्येतन्निष्यन्दफलमुक्तं नैतद् द्वयमतिवर्तते—विपाकफलमधिपतिफलं च ।
सादृश्यविशेषात्तु तथोक्तम् ।
किं पुनः कारणमेषां कर्मपथानामेतत् त्रिविधफलमभिनिर्वर्तते ? प्राणातिपातं
हि तावत् कुर्वता मार्यमाणस्य दुःखमुत्पादितम्, मारितम्, ओजो नाशितम्,
अतोऽस्य
दुःखान्मारणादोजोनाशनात् त्रिविधं फलम् ॥ ८५ ॥
परस्य दुःखनाद् विपाकफलेन नरके दुःखितो भवति । मारणान्निष्यन्द-
फलमल्पायुर्भवति । ओजोनाशनादधिपतिफलेनाल्पौजसो बाह्या ओषधयो
भवन्ति । एवमन्येष्वपि योज्यम् ।
क्षणिको हि मौलः कर्मपथः । तत्र च न दुःखा वेदनास्तीति युक्तमिह मौलेनेति
वक्तुम् ? आह—यदि तत्र प्रयोगेणेह मौलेन, कस्मादेवमुक्तम्—प्राणातिपातेना-
सेवितेन भावितेन बहुलीकृतेन नरकेषूपपद्यते, प्राणातिपातेन मौलेनेति सूत्रार्थं
पश्यन्नेवं पृच्छति । सपरिवारग्रहणादिति । मौल एव प्राणातिपातः, तस्य प्रयोगः
परिवारः । तस्मिन् प्रयोगे प्राणातिपातोपचारं कृत्वैवमुक्तम्—प्राणातिपातेनेति
विस्तरः ।
नैतद् द्वयमतिवर्तते । विपाकफलम्, अधिपतिफलं चेति । स्वसन्ताने विपाक-
फलमन्यत्राधिपतिफलमिति कृत्वा । सादृश्यविशेषात्तु तथोक्तमिति । इष्ट-
जीवितोपच्छेद भोगव्यसनादिलक्षणात् सादृश्यविशेषात्तु तथोक्तम् । स चेदित्य-
न्त्वमागच्छति मनुष्याणां सभागतां प्राणातिपातेनाल्पायुर्भवत्यदत्तादानेन भोग-
व्यसनो भवतीति विस्तरेण । भवति ह्यत्र हेतुविपाकफलयोः सादृश्यमिति ।
एवं कुशलेष्वपि वक्तव्यम् । निष्यन्दफलं फलद्वयं नातिवर्तते । सादृश्यविशेषात्तु
तथोक्तम् । स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतां प्राणातिपातविरत्यां
दीर्घायुर्भवतीति विस्तरेण ।
ओजो नाशितमिति । ओजो हृदयप्रदेशे भवति । एवमन्येषामपि योज्यमिति ।
अदत्तादानं हि कुर्वता द्रव्यस्वामिनो दुःखमुत्पादितम्, भोगव्यसनं कृतम्, ओजो
नाशितम् । अतोऽस्य दुःखनाद्, भोगत्यजनाद्, ओजोनाशनाच्च त्रिविधं फलम् ।
कथमोजो नाशितम् ? तद्धेतुनाशनात्, भोगव्यसनेन च तस्योपघातात् ।
अत एवोक्तम्—अदत्तादानेनाशनिरजोबहुला इति तेन तदोजसः सोपघातता
भवतीति । एवं परदारमभिगच्छता परस्य दुःखमुत्पादितम्, ससपत्नदारता,
कृता, ओजो नाशितम् । येनौजसा तेजस्वीति लोके निरुच्यते । अत एवोक्तम्—
निर्देशः ] चतुर्थं कोशस्थानम् ७१३
एवं कुशलानामपि कर्मपथानां फलत्रयं वेदितव्यम् । प्राणातिपातविरत्या
आसेवितया भावितया बहुलीकृतया देवेषूपपद्यते । स चेदित्थन्त्वमागच्छति
मनुष्याणां सभागतां दीर्घायुर्भवतीत्यकुशलविपर्ययेण सर्वं योजयितव्यम् ॥ ८५ ॥
यद् भगवता—"मिथ्यावाङ्मिथ्याकर्मान्तो मिथ्याजीवः” इत्युक्तम्,
कोऽयमन्यस्ताभ्यां मिथ्याजीवः ? नायमन्योऽस्ति । तदेव तु
लोभजं कायवाक्कर्म मिथ्याजीवः,
द्वेषमोहजौ तु कायवाक्कर्मान्तौ । स चैष ताभ्याम्
पृथक् कृतः ।
दुःशोधत्वात्,
हारी हि लोभधर्मः । तत्समुत्थात् कर्मणश्चित्तं न सुरक्ष्यम् । अत आजीवो
दुःसशोध इत्यादरोत्पादनार्थं तत्रासौ पृथङ्निर्दिष्टः । आह चात्र—
“दुःशोधा गृहिणां दृष्टिनित्यं विविधदृष्टिना ।
आजीवो भिक्षुणा चैव परेष्वायत्तवृत्तिना ॥ ( ) इति ।
काममिथ्याचारेण रजोऽवकीर्णा इति । एवमन्येषामपि योज्यम् । एषा दिक् ।
अकुशलविपर्ययेण सर्वं योजयितव्यमिति । कथम् ? अदत्तादानाद्विरत्यासेवितया
भावितया बहुलीकृतया देवेषूपपद्यते । स चेदित्थन्त्वमागच्छति मनुष्याणां
सभागतां स न भोगव्यसनो भवतीति । एवं काममिथ्याचारविरत्यासेवितया
भावितयेति विस्तरेणोक्त्वा यावन्मनुष्याणां सभागतां नाभ्याख्यानबहुलो
भवतीति अनया दिशा सर्वं योजयितव्यम् । प्राणातिपाताद् विरमता—परस्य
दुःखं नोत्पादितम्, न मारितः, नौजो नाशितमित्यतस्त्रिविधं फलम् । एवमदत्ता-
दानात् प्रतिविरमता—नार्थस्वामिनो दुःखमुत्पादितम्, न भोगव्यसनं कृतम्,
नौजो नाशितमतोऽस्य त्रिविधं फलम् । काममिथ्याचाराद् विरमता—न परस्य
दुःखमुत्पादितम्, न ससपत्नदारः कृतः, नाप्योजो भ्रंसितम् । अतोऽस्य त्रिविधं
फलम् । एवमन्यत्रापि योजयितव्यम् ॥ ८५ ॥
विविधदृष्टिनेति । कौतुकमङ्गलतिथिमूहूर्तनक्षत्रादिदृष्टिना । परेष्यायत्तवृत्ति-
नेति । कायस्थितिहेतवश्चीवरपिण्डपातशयनासनादयो भिक्षोः परप्रतिबद्धाः ।
पिण्डपातं निःश्रित्येति वचनात् । तस्य पराधीनवृत्तेर्भिक्षोर्मिथ्याजीवा भवेयुः—
कुहना, लपना, नैमित्तिकता, नैष्पेषिता, लाभेन लाभनिश्रिकीर्षा च । तें
दुःशोधा भवन्ति । आजीवयोगा इति ।
७१४ भाष्यस्फुटार्थसहितमभिधर्मकोशे [ कर्म-
परिष्कारलोभोत्थं चेत्,
यो मन्यते—जीवित :भोत्थमेव कायवाक्कर्म मिथ्याजीवः,
नान्यत् ; न ह्यात्मरतिनिमित्तं नृत्तगीतादि आजीवयोग इति, तत्
न सूत्रतः ॥ ८६ ॥
शीलस्कन्धिकायां हि भगवता हस्तियुद्धदर्शनादीन्यपि मिथ्याजीवे
न्यस्तानि । किं कारणम् ? मिथ्याविषयपरिभोगात् ॥ ८६ ॥
गतमेतत् ॥
यानि पूर्वं पञ्च फलान्युक्तानि, तेषां कतमत् कर्म कतिभिः फलैः प्रहाणम् ?
प्रहाणमार्गे समले सफलं कर्म पञ्चभिः ।
प्रहाणार्थं मार्गः, प्रहीयन्ते वाऽनेन क्लेशा इति प्रहाणमार्ग आनन्तर्य-
मार्गः, तस्मिन् सास्रवे यत् कर्म तत् पञ्चभिः फलैः सफलम् । तस्य हि
शीलस्कन्धिकायामिति । शीलस्कन्धिका नाम निपातः । तत्रोक्तम्—"यथा
त्रिदण्डिन् एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधदर्शनसमारम्भानुयोग-
मनुयुक्ता विहरन्ति । तद्यथा—हस्तियुद्धे, अश्वयुद्धे, रथयुद्धे, पत्तियुद्धे, यष्टियुद्धे,
मुष्टियुद्धे, सारसयुद्धे, वृषभयुद्धे, महिषयुद्धे, अजयुद्धे, मेषयुद्धे, कुक्कुटयुद्धे,
वर्तकयुद्धे, लावकयुद्धे१, स्त्रीयुद्धे, पुरुषयुद्धे, कुमारयुद्धे, कुमारिकायुद्धे, इङ्गल-
वशे, उत्सक्तिकायाम्, ध्वजाग्रे, बलाग्रे, सेनाव्यूहे, अनीकसन्दर्शने, महासमाजं
वा प्रत्यनुभवन्त्येके । इत्यप्येवंरूपाच्छ्रमणो विविधदर्शनसमारम्भानुयोगात्
प्रतिविरतो भवति । तथापि तत्र त्रिदण्डिन् एके श्रमणब्राह्मणाः श्रद्धादेयं परि-
भुज्य विविधशब्दश्रवणसमारम्भानुयोगयुक्ता विहरन्ति, तद्यथा—हस्तिशब्दे,
अश्वशब्दे, रथशब्दे, पत्तिशब्दे, शङ्खशब्दे, भेरीशब्दे, आडम्बरशब्दे, नृत्यशब्दे,
गीतशब्दे, शय्याशब्दे, अच्छटशब्दे, पाणिस्वरे, कुम्भतूणीरे, खचिते, चित्राक्षरे,
चित्रपदव्यञ्जने, लोकायतप्रतिसंयुक्ते, आख्यायिका वा श्रोतुमिच्छन्त्येके ।
इत्यप्येवंरूपाच्छ्रमणो विविधशब्दश्रवणसमारम्भानुयोगात् प्रतिविरतो भवति'
( ) इत्येवमादि । मिथ्याविषयपरिभोगात् । असम्यग्विषयपरिभोगात् ॥ ८६ ॥
यानि पूर्वं पञ्च फलान्युक्तानीति । अधिपतिफलम्, पुरुषकारफलम्, निस्यन्द-
फलम्, विपाकफलम्, विसंयोगफलञ्च । प्रहाणार्थं मार्ग इति । भावसाध-
नम्—प्रहाणाय मार्गः प्रहाणमार्ग इति । प्रहीयतेऽनेनेति । करणसाधनम् ।
१. लोचकयुद्धे—इति मुद्रितः पाठः ।