अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 717, कुल 1258 में से
संदर्भ में पढ़ें६९८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
प्रज्ञप्तिभाष्यं तर्हि कथं नीयते—"इयता अनेन पुद्गलेन त्रैधातुकानि
कुशलमूलानि समुच्छिन्नानि भवन्ति" इति ? तत्प्राप्तिदूरीकरणमभिसन्धायै-
तदुक्तम्; सन्ततेस्तद्भाजनत्वापादनात् ।
उपपत्तिप्रतिलाभिकान्येव च समुच्छिद्यन्ते; प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् ।
किमालम्बनया मिथ्यादृष्ट्या समुच्छिद्यन्ते ?
फलहेत्वपवादिन्या,
या च हेतुमपवदते—नास्ति सुचरितं नास्ति दुश्चरितमिति, या च
फलम्—नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाक इति ।
आनन्तर्यविमुक्तिमार्गस्थानीये एते इत्यपरे ।
सास्रवालम्बनयैव नानास्रवालम्बनया, सभागधात्वालम्बनयैव च न विसभा-
गधात्वालम्बनया; सम्प्रयोगमात्रानुशयित्वेन दुर्बलत्वादित्येके ।
प्रज्ञप्तिभाष्यं तर्हि कथं नीयते । यदि कामावचराणि कुशलमूलानि समु-
च्छिद्यन्ते । रूपारूप्यावचरैरसमन्वागतत्वादिति वर्ण्यन्ते । तत्प्राप्तिदूरीकरण-
मिति । रूपारूप्यावचराणां प्राप्तेर्दूरीकरणमभिप्रेत्य तस्य पुद्गलस्य एतदुक्तम्—
त्रैधातुकानि कुशलमूलानि समुच्छिन्नानीति । कथं च पुनस्तत्प्राप्तिदूरीकरणम् -
सन्ततेस्तदभाजनत्वापादनात् । यस्मादसौ तत्सन्ततिः पूर्वं भाजनभूता तत्प्रा-
प्तीनाम् । कुशलमूलसमुच्छेदादिदानीं तत्प्राप्तीनामभाजनमापादितेति । अतस्तत्-
प्राप्तिर्दूरीकृता भवति ।
प्रायोगिकेभ्यः पूर्वं परिहीणत्वादिति । श्रुतचिन्ताभावनामयेभ्यः प्रायोगिकेभ्यः
पूर्वमेवासौ मृदुमृद्ववस्थायां तेभ्यः परिहीणः । तदैव तस्य प्राप्तिच्छेद इत्यर्थः ।
आनन्तर्यविमुक्तिमार्गस्थानीये इति । हेत्वपवादिनी आनन्तर्यमार्गस्थानीया ।
फलापवादिनी विमुक्तिमार्गस्थानीया । तदुक्तं भवति—उभे अपि एते हेतुफला-
पवादिन्यौ मिथ्यादृष्टी कुशलमूलसमुच्छेदे व्याप्रियेते, नैकेवेति ।
अपरः पक्षः—सास्रवालम्बनयैवेति । दुःखसमुदयालम्बनया । नानास्रवालम्ब-
नया निरोधमार्गालम्बनया इत्यर्थः । सभागधात्वालम्बनयैव चेति । कामधात्वा-
लम्बनयैवेत्यर्थः । न विसभाकधात्वालम्बनया । न रूपारूप्यधात्वालम्बनया ।
कुशलमूलानि समुच्छिद्यन्त इत्यधिकृतम्, कस्माद् ? इत्याह—सम्प्रयोगमात्रानु-
शायित्वेन दुर्बलत्वादिति । अनास्रवालम्बना विसभाकधात्वालम्बना च या
मिथ्यादृष्टिः सा सम्प्रयोगमात्रेण सम्प्रयुक्तेषु धर्मेष्वनुशेते, नालम्बनतः । तस्मा-
दसौ दुर्बला भवति, अतो न तया समुच्छिद्यन्ते ।