सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 725, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 725

७०६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
एकेनाष्टाभिः पञ्चभिश्च कर्मपथैः सह न वर्तते ।
तत्र द्वाभ्यां सह वर्तते—कुशलेषु पञ्चसु विज्ञानेषु, आरूप्यसमाप्तौ च
क्षयानुत्पादज्ञानयोः ।
त्रिभिः— सम्यग्दृष्टिसम्प्रयुक्ते मनोविज्ञाने ।
चतुर्भिः—अकुशलाव्याकृतचित्तस्योपासकश्रामणेरसंवरसमादाने ।
"नैकाष्टपञ्चभिः" इति । नैकेनैव मानसेन; कुशले चेतस्यनभिध्याव्यापाद-
योरवश्यम्भावात् । नापि रूपिणैकेन संवरसंगृहीतेन कर्मपथेन सह चेतना
वर्तते; क्लिष्टाव्याकृतचित्तावस्थायामपि उपासकसंवरादिषु प्राणातिपाता-
दत्तानकाममिथ्याचारमृषादानानामवश्यं सहभावात् । न पञ्चभिरेव;
कुशले चेतस्यनभिध्याव्यापादयोर्द्वयोरवश्यं सहभावात् । संवरसंगृहीतानां च
प्राणातिपातादीनामेषां चतुर्णामवश्यं सहभावात् । नाष्टाभिरेव; भिक्षुसंवर-
संगृहीतानां कायिकवाचिनां क्लिष्टाव्याकृतावस्थायां सप्तानामेव सम्भवात् ।
कुशलचित्तावस्थायां च नवानां दशानां वा सम्भवात् । पारिशेष्याद् द्व्यादिभिः
सह वर्तते इत्युक्तं भवति ।
तत्र द्वाभ्यामिति विस्तरः । तत्र द्वाभ्यां सह वर्तते । कुशलेषु पञ्चसु विज्ञाने-
ष्वनभिध्या चाव्यापादश्च स्तः, न सम्यग्दृष्टिः । 'पञ्चविज्ञानसहजा धीर्न दृष्टि-
रतीरणात्" ( अभि० १.४१ ) इति सिद्धान्तात् । अतोऽनभिध्याव्यापादाभ्यां
द्वाभ्यामेवात्र सह वर्तते । आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोरिति । आरूप्य-
समापत्तिसंगृहीतयोश्च क्षयानुत्पादज्ञानयोराभ्यामेव द्वाभ्यां सह वर्तते; 'क्षया-
नुत्पादधीर्न दृक्” ( अभि० ७ १ ) इति तत्र सम्यग्दृष्ट्यभावात् । आरूप्य-
समापत्तिग्रहणं ध्यानासमापत्तिसंगृहीतयोः क्षयानुत्पादज्ञानयोः सप्तविधकायिक-
वाचिकानास्रवसंवरस्वभावकर्मपथनिवृत्त्यर्थम् । क्षयानुत्पादज्ञानग्रहणं सम्य-
ग्दृष्टिनिरासार्थं च; क्षयानुत्पादज्ञानयोरसम्यग्दृष्टिस्वभावत्वात् ।
त्रिभिः सह वर्तते । सम्यग्दृष्टिसम्प्रयुक्ते मनोविज्ञाने । रूपिकर्मपथाभाव इति
वाक्यशेषः । तत्र ह्यनभिध्याव्यापादसम्यग्दृष्टय एव त्रयः कर्मपथा भवन्तीति ।
चतुर्भिरिति विस्तरः । अकुशलाव्याकृतचित्तस्येति विशेषणान्मानसा न
सन्तीति दर्शितं भवति । उपासकश्रामणेरसंवरसमादाने च । प्राणातिपातादत्ता-
दानकाममिथ्याचारमृषावादविरतिलक्षणाश्चत्वार एव कर्मपथा. भन्ति;
मद्यपानादिविरतीनां दशकर्मपथानन्तर्भावात् । पैशुन्यविरत्यादीनां चोपासक-
श्रामणेरसंवरासंग्रहात् । श्रामणेरसंवरसमादानवचनात् चोपवाससंवर-