अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 723, कुल 1258 में से
संदर्भ में पढ़ें७०४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
द्वाभ्यां सह वर्तते । व्यापन्नचित्तस्य प्राणिवधे, अभिध्याविष्टस्य वाऽदत्ता-
दाने, काममिथ्याचारे, सम्भिन्नप्रलापे च¹ ।
त्रिभिः सह वर्तते । व्यापन्नचित्तस्य प्राणिमारणापहरणे² युगपत् । न
तर्हीदानीमदत्तादानस्य लोभेनैव निष्ठा सिध्यति ? अनन्यचित्तस्य तत्परिसमाप्तौ³
स नियमो ज्ञेयः । अभिध्याद्याविष्टस्य च तत्प्रयोगेण रूपिद्वयनिष्ठागमने
त्रिभिरेव ।
व्यापन्नचित्तस्य प्राणिवध इति विस्तरः । व्यापादेन प्राणातिपातेन 'चेति
द्वाभ्यां सह वर्तते । काममिथ्याचारे, सम्भिन्नप्रलापे च द्वाभ्यां सह वर्तते । अभि-
ध्यया काममिथ्याचारेण चेति द्वाभ्याम् । सम्भिन्नप्रलापेनाभिध्यादीनां चान्यत
मेन चेति द्वाभ्यामेव ।
इदं चोद्यते—व्यापन्नचित्तस्य प्राणिवध इत्यभिध्याविष्टस्य चादत्तादान
इति, किमिदं स्वयं कुर्वत उच्यते ? उताहो परेण कारयतः ? यदि स्वयं
कुर्वतः; व्यापन्नचित्तस्याभिध्याविष्टस्य चेति विशेषणं न युज्यते; प्राणिवधे
व्यापादस्यावश्यकत्वात्, अदत्तादाने चाभिध्यायाः, व्यभिचारे हि विशेषण-
मिष्यते ? अथ परेण कारयतः; अभिध्याव्यापादमिथ्यादृष्ट्यन्यतमचित्तस्य
प्राणिवधे, अदत्तादानकाममिथ्याचारसम्भिन्नप्रलापेषु वेति वक्तव्यम् ? उच्यते—
स्वयं कुर्वत इति । ननु चोक्तं विशेषणं न युज्यत इति ? नैष दोषः; न हीदं
विशेषणमुच्यते, किं तर्हि ? स्वरूपाख्यानमेतत् । व्यापादाभिध्ययोर्द्वितीय-
भूतयोस्तत्रास्तित्वं कथ्यत इति । एवमप्यभिध्याद्यन्यतरचित्तस्य तान् प्राणा-
तिपातादीन् कारयतो द्वाभ्यां सह चेतना वर्तत इति सम्भवेत्, तस्मात्तदपि
वक्तव्यम् ? सत्यं वक्तव्यमेतत् । उदाहरणमात्रं त्वेतदुक्तमित्यदोषः ।
व्यापन्नचित्तस्य प्राणिमारणापहरणे युगपदिति । यत्र मारणेनेवापहरणं
सिध्यति, तत्र हि व्यापादप्राणिवधादत्तादानकर्मपथा युगपद् भवन्तीति । न
तर्हीति विस्तरः । यदि परकीयद्रव्यापहरणकाले व्यापादो भवति । न तर्ही-
दानीमदत्तादानस्य लोभेनैव निष्ठा सिध्यतीति । लोभद्वेषयोर्युगपदभावात् ।
अनन्यचित्तस्येति विस्तरः । अपहरणचित्तस्यैव तत्परिसमाप्तावदत्तादानपरि-
समाप्तौ स नियमो ज्ञेयः । "लोभतः परस्त्रीगमनाभिध्यादत्तादानसमापनम्"
( अभि० को० ४.७० ) इति । अन्यचित्तस्य तु मारणचित्तस्य नायं नियमः ।
१. वा०—का० । २. परकीयप्राणि०—का० ।
३. तत्समाप्तौ—का० ।