अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] चतुर्थं कोशस्थानम् ५८५
समर्था भवन्ति"। इदमभिसन्धायोक्तं भवेद्—“अभिवर्धत एव पुण्यमुपजायत
एव पुण्यम्” इति।
अथ मतम्--कथमिदानीं सन्तानान्तरविशेषादन्यमनसोऽपि सन्तानान्तरस्य
परिणामः सेत्स्यतीति ? एतदविज्ञप्तौ समानम्।
कथमिदानीं सन्तानान्तरविशेषात् सन्तानान्तरे धर्मान्तरमविज्ञप्तिः सेत्स्य-
तीति निरौपधिकेष्विदानीं पुण्यक्रियावस्तुषु कथं भविष्यतीति ? अभीक्ष्णं तदा-
लम्बनचेतनाभ्यासात् स्वप्नेष्वपि ता अनुषङ्गिण्यो भवन्ति। अविज्ञप्तिवादिनस्तु
निरौपधिके यत्र विज्ञप्तिर्नास्ति तत्र कथमविज्ञप्तिः स्यात् !
यच्च¹ औपधिकेष्वप्येवमभीक्ष्णम्², तदालम्बनचेतनाभ्यासादित्यपरे²।
यत्तर्हि सूत्रमुक्तम्³—“यस्योग्रभिक्षुः शीलवान् कल्याणधर्मा पिण्डकं
परिभुज्याप्रमाणं चेतःसमाधिं कायेन साक्षात्कृत्वोपसम्पद्य विहरति, अप्रमाणस्तन्नि-
दानदायकस्य दानपतेः पुण्याभिस्यन्दः कुशलाभिस्यन्दः सुखास्वादधारः प्रति-
प्राप्नुवन्ति। कथं भविष्यतीति। बहुतरफलाभिनिष्पत्तये कथं भविष्यतीत्यभि-
प्रायः। नह्यत्र दातॄणां दाया परिभुज्यन्ते, यत्परिभोगात् भोक्तॄणां गुण-
विशेषादनुग्रहविशेषाच्चान्यमनसामपि दातॄणामिति विस्तरेण यावत् समर्था
भवन्ति यावदुपजायत एव पुण्यमिति वा।
तदालम्बनचेतनाभ्यासादिति। तथागततच्छ्रावकालम्बनचेतनाभ्यासात्
सन्ततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति। येनायत्यां बहुंतरफलाभिनिष्पत्तये
समर्था भवन्ति। चरतस्तिष्ठतो जाग्रतो युक्तम्, एवं स्वपतस्तु कथम् ? इत्यत
आह-स्वप्नेष्वपि ताश्चेतना अनुषङ्गिण्यो भवन्तीति। अविज्ञप्तिवादिनस्तु वैभाषिकस्य
निरौपधिके पुण्यक्रियावस्तुनि यत्र विज्ञप्तिर्नास्ति, केवलं तं श्रुत्वाधिगच्छति प्रीति-
प्रामोद्यमुदारं कुशलम्, तत्र कथमविज्ञप्तिः स्यात्; तस्य श्रोतुर्विज्ञप्तिसमाध्यो-
रसम्भवात्। अविज्ञप्तिर्हि विज्ञप्तेः समाधेर्वा सम्भवेत्।
औपधिकेष्वपीति विस्तरः। आरामादानादिष्वपि तदालम्बनचेतनाभ्यासात्।
प्रतिग्राहक आलम्बनमस्याश्चेतनाया इति पूर्ववत्। आह—यच्चौपधिकेष्व-
प्येवमभीक्ष्णं तदालम्बनचेतनाभ्यासात्।
यत्तर्हि सूत्रमिति विस्तरः। अप्रमाणं चेतःसमाधिमिति। मैत्र्यादिसम्प्रयुक्तं
१-१. औपधिकेष्वप्यमी०—का०। २. तदालम्बने—का०।
३. सूत्रे उक्तम्—का०।
ङ्काङ्क्षितव्यः” इति, अत्र तदानीं दातुः कश्चेतनाविशेषः ? तस्मात् सन्तति-
परिणामविशेष एव न्याय्यः ।
यदप्युक्तम्—"कारयतः कथं कर्मपथाः सेत्स्यन्ति" इति ? तत्राप्येवं वर्ण-
यन्ति—तत्प्रयोगेण परेषामुपघातविशेषात् प्रयोक्तुः सूक्ष्मः सन्ततिपरिणामविशेषो
जायते, यत आयत्यां समन्तेऽपि बहुतरफलाभिनिर्वर्त्तनसमर्थो भवतीति ।
स्वयमपि च कुर्वतः क्रियाफलपरिसमाप्तावेष एव न्यायो वेदितव्यः ।
सोऽसौ सन्ततिपरिणामविशेषः 'कर्मपथः' इत्याख्यायते; कार्ये कारणो-
पचारात् । कायिकवाचिकत्वं तु तस्य¹ तत्क्रियाफलत्वाद्, यथा अविज्ञप्तिवादि-
नामविज्ञप्तिरिति² ।
उपात्तेषु स्कन्धेषु त्रिकाल्या चेतनया प्राणातिपातावद्येन स्पृश्यते घातक³
इति भदन्तः । 'हनिष्यामि', 'हन्मि', 'हतम्' इति चास्य यदा भवतीति ।
न त्वियता कर्मपथः परिसमाप्यते । मा भूदहतेऽपि मात्रादौ हताभिमानिना-
चेतनाविशेष इति । एतदालम्बनचेतनस्यापि दायकस्याप्रमाणः पुण्याभिष्यन्दो-
ऽस्तीति दर्शयति ।
क्रियाफलपरिसमाप्ताविति । मौलकर्मपथप्रयोगः क्रिया। मौलकर्मपथफलं
तस्य परिसमाप्तौ । एष एव न्याय इति । स्वयं प्रयोगेण परेषामुपघातविशेषात्
कर्तुः सूक्ष्मः सन्ततिपरिणामविशेषो जायत इति सर्वम् ।
कार्ये कारणोपचारादिति । सन्ततिपरिणामविशेषः कर्मपथो भवतीति ।
सन्ततिपरिणामविशेषः कार्यम्, कर्मपथः कारणम् । योऽसौ कायवाचोः प्रयोगः,
स हि चेतनालक्षणस्य कर्मणः पन्था इति । तस्मिन् कार्ये कर्मपथ इति कारणो-
पचारः । कायिकवाचिकत्वं तु तस्य सन्ततिपरिणामविशेषस्य तत्क्रियाफलत्वात् ।
कायवाक्क्रियायाः फलत्वादित्यर्थः । यथा अविज्ञप्तिवादिनाम् अविज्ञप्तिरिति ।
यथा वैभाषिकाणामविज्ञप्तिवादिनामविज्ञप्तिः कर्मपथ इत्याख्यायते; कार्यकारणो-
पचारात् । कायिकवाचिकत्वं तु तत्क्रियाफलत्वादिति ।
अविज्ञप्तिरद्रव्यमिति प्रकारान्तरेण दर्शयन् भदन्त आह—उपात्तेषु स्कन्धे-
ष्विति विस्तरः । सत्त्वसंख्यातेषु वर्तमानेषु स्कन्धेषु त्रिकाल्या चेतनया प्राणा-
तिपातावद्येन स्पृश्यते घातक इति । कथं त्रिकाल्या ? इत्याह—हनिष्यामि हन्मि
हतमिति चास्य यदा भवतीति । तदेवमत्र चेतनैव कर्मेत्युक्तं भवति । आचार्यो
भदन्तमतं केनचिद् भागेनाभिप्रेतं केनचिद्भागेनानभिप्रेतं दर्शयन्नाह—न त्वियेतति
१. का० पुस्तके नास्ति । २. ०मविज्ञप्तेरिति—का० । ३. का० पुस्तके नास्ति ।
, it is definitely "विज्ञाप्यभावाद्" or "विज्ञप्यभावाद्"? Look at the stroke: it has an aa-matra: "विज्ञाप्यभावाद्".
Line 11:
विज्ञप्तेरभावः ।
Line 12:
यदप्युक्तम्—"धर्मायतनस्यारूपित्वं यस्मान्नोक्तम्" इति ? तद्यदेवात्र रूप-
Line 13:
विस्तरः । यदि कश्चिद्देवं प्रयोजयेत्—मन्मातरं मारयेति । उच्चलिते च मारके
Wait, "कश्चिद्देवं" or "कश्चिदेवं"?
Look at line 13:
क (ka) श्चि (ści) द्दे (dde) वं (vaṃ) -> कश्चिद्देवं! Yes, 'द्दे'!
Line 14:
तस्यैवं भवेद्—हृता तेन मन्मातेति । तस्य हताभिमानिन आनन्तर्यकर्म स्यात् ।
Wait, "हृता" or "हता"?
Look at line 14:
हृ (hṛ) or ह (ha)?
Wait, "हता तेन मन्मातेति" - wait, the letter is ह with a bottom curve?
Look at "हता तेन" vs "हृता तेन":
Wait, the first word after भवेद्—:
मनिदर्शनमप्रतिघं चोक्तम्, तदेवास्तु धर्मायतनपर्यापन्नम् ।
यदप्युक्तम्—अष्टाङ्ग आर्यमार्गो न स्यादिति? अङ्ग१ तावदाचक्ष्व—कथं
मार्गसमापन्नस्य सम्यग्वाक्कर्मान्ताजीवा भवन्तीति ! किमसौ वाचं भाषते, क्रियां
वा करोति, चीवरादीन् वा पर्येषते ? नेत्याह । किं तर्हि ? तद्रूपामनास्रवाम-
विज्ञप्तिं प्रतिलभते । यस्याः प्रतिलम्भाद् व्युत्थितोऽपि न पुनर्मिथ्यावागादिषु
प्रवर्तते, सम्यग्वागादिषु च प्रवर्तते । अतो निमित्ते नैमित्तिकोपचारादविज्ञप्तौ
तदा२ व्याक्रियते२ ।
यद्येवम्, इहाप्येवं किं न गृह्यते—मार्गसमापन्नो विनाप्यविज्ञप्त्या तद्रूपमाशयं
च आश्रयं च प्रतिलभते, यस्य प्रतिलम्भात् व्युत्थितोऽपि न पुनर्मिथ्यावागादिषु
प्रवर्तते, सम्यग्वागादिषु च प्रवर्तते । अतो निमित्ते नैमित्तिकोपचारं कृत्वा
अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्त इति ?
अपरस्त्वाह—तदक्रियामात्रमत्राङ्गमुक्तं स्यात् । यदसावार्यमार्गसामर्थ्याद-
क्रियानियमं प्रतिलभते, तच्चानास्रवमार्गसन्निश्रयलाभादनास्रवं स्यात् ।
न हि सर्वत्र द्रव्यमन्तो धर्माः परिसंख्यायन्ते । तद्यथा अष्टौ लोकधर्माः—
त्वादि । तदेवास्तु धर्मायतनपर्यापन्नमिति। यद्ध्यायिनां समाधिविषयो रूपं
समाधिप्रभावादुत्पद्यत इत्युक्तं तद्धयनिदर्शनं चाप्रतिघं च ।
अङ्ग तावदाचक्ष्वेति । अङ्गाप्रतिलोम्य इति पठ्यते । हन्त तावदाचक्ष्वेति ।
एहि तावदाचक्ष्वेत्यर्थ इत्यपरे । अतो निमित्त इति विस्तरः । यत एवम्,
अतो निमित्तेऽविज्ञप्तौ नैमित्तिकोपचारात् सम्यग्वागाद्युपचारात् अविज्ञप्तौ तदा
व्याक्रियते । सम्यग्वाक्कर्मान्ताजीवाख्या क्रियत इत्यर्थः ।
आशयं चाश्रयं चेति । आशयः प्राणातिपाताद्यकरणाशयः, श्रद्धाद्याशयो
वा । आश्रय आश्रयपरावृत्तिः । अतो निमित्ते आशये च नैमित्तिकोपचारम् ।
सम्यग्वागाद्युपचारं कृत्वाष्टौ मार्गाङ्गानि व्यवस्थाप्यन्त इति ।
तदक्रियामात्रमिति । मिथ्यावागाद्यक्रियामात्रम् । कतमत्तद् ? इत्याह—यद-
साविति विस्तरः । यद्यक्रियामात्रमङ्गं कथं तदनास्रवम् ? इत्याह—तच्चानास्रव-
मार्गसन्निश्रयलाभादनास्रवमिति । यद्यक्रियामात्रमङ्गम्, तथाऽद्रव्यसत् ।
कथमष्टावङ्गानि भवन्ति ? इत्याह—न हि सर्वत्रेति विस्तरः । विधिपूर्व-
१. अङ्गं—का० ।
२-२. तदाख्याक्रियते—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् ५८९
लाभः, अलाभः, यशः, अयशः, निन्दा, प्रशंसा, सुखम्, दुःखमिति । न चात्र
चीवरादीनामलाभो नामास्ति द्रव्यानन्तरम् । प्रातिमोक्षसंवरोऽपि स्यात्, यया
चेतनया विधिपूर्वं कृत्वाऽभ्युपगमः प्रतिषिद्धात् कर्मणः कायवाचौ संवृणोति ।
अन्यचित्तो न संवृतः स्यादिति चेत् ? न; तद्भावनया क्रियाकाले स्मरतः
तत्प्रत्युपस्थानात् सेतुभावोऽपि स्यादक्रियां प्रतिज्ञां संस्मृत्य लज्जितो दौःशील्या-
करणात् इत्यर्थमेव¹ तस्याः समादानम् । यदि पुनरविज्ञप्तिरेव दौःशील्यं
प्रतिबध्नीयात्, न कश्चित् मुषितस्मृतिः शिक्षां भिन्द्यात् ।
अलं विस्तरेण, अस्त्येव द्रव्यानन्तरमविज्ञप्तिरूपमिति वैभाषिकाः ।
यद्यस्ति, तच्च महाभूतान्युपादायेत्युक्तम्, तत् किं विज्ञप्तिमहाभूतान्येवोपा-
दायाविज्ञप्तिरुत्पद्यते ? अथान्यानि ? अन्यान्येव सा महाभूतान्युपादायोत्पद्यते ।
न हि सैव सामग्री सूक्ष्मफला चौदारिकफला च युज्यते । किं खलु !
यदातनी विज्ञप्तिस्तदातान्येव सा महाभूतान्युपादाय वर्तते । सर्वमुपादायरूपं
मिति । शीलग्रहणविधिपूर्वम् । अन्यचित्तो न संवृतः स्यादिति चेत् । यदि सा
चेतना संवरः, तस्माच्चेतनाचित्तादन्यचित्तो न संवृतः स्यात् । यया² चेतनया²
कायवाचौ संवृणोति नासौ तदानीमस्तीति । न तद्भावनयेति विस्तरः । नैत-
देवम्; तद्भावनया चित्तसन्तानभावनया क्रियाकाले प्राणातिपातादिचित्ते
प्रत्युपस्थिते स्मरतः अहं प्राणातिपातादिभ्यः प्रतिविरत इति प्रत्युपस्थितस्मृतेः ।
तत्प्रत्युपस्थानाद् यया चेतनया कायवाचौ संवृणोति; तस्याः सम्मुखीभावात् ।
इत्यर्थमेव तस्याः समादानमिति । कथम् ? अयमक्रियाप्रतिज्ञां संस्मृत्य दौःशील्यं
कुर्यादिति । न कश्चिन्मुषितस्मृतिः शिक्षां भिन्द्यादिति । यासावविज्ञप्तिः सेतुभूता
दौःशील्यं प्रतिबध्नाति सा तदानीं विद्यत इति ।
न हि सैव सामग्रीति विस्तरः । न सैव पृथिवीधात्वादीनां महाभूतानां
विज्ञप्त्याश्रयाणां सामग्री सूक्ष्मफला चानिदर्शनाप्रतिघा अविज्ञप्तिफलत्वात्, औदा-
रिकफला च सनिदर्शनसप्रतिघविज्ञप्तिफलत्वाद् युज्यते । तस्मादन्यान्येव महा-
भूतानि उपादायाविज्ञप्तिरुत्पद्यते ।
यदातनी विज्ञप्तिरिति विस्तरः । यदा भवा विज्ञप्तिः यदातनी विज्ञप्तिः ।
एवं तदातनानि महाभूतानि । यत्कालसम्भूता विज्ञप्तिः किं तत्कालसम्भूतान्येव
महाभूतान्युपादाय विज्ञप्तिरुत्पद्यते । सर्वमुपादाय रूपं विज्ञप्तिरविज्ञप्तिर्भियानास्रव-
१. ०मेव च—का० । २-२. यथा चेतना या—मुद्रितः पाठः ।
५९० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
प्रायेणैवम्, किञ्चिद्¹ वर्तमानमनागतं चातीतानि महाभूतान्युपादाय ।
किं पुनस्तदिति ?
क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा ॥ ४ ॥
प्रथमात् क्षणादूर्ध्वमविज्ञप्तिः कामावचरी अतीतानि महाभूतान्युपादा-
योत्पद्यते । तान्यस्या आश्रयार्थेन सम्भवन्ति² । प्रत्युत्पन्नानि शरीरमहाभूतानि
सन्निश्रयार्थेन; प्रवृत्त्यनुवृत्तिकारणत्वाद् यथाक्रमम् । चक्रस्येव भूमौ सपरिवर्तमानस्य
पाण्यावेध-भूमिप्रदेशौ ॥ ४ ॥
अथ कुतस्त्यानि महाभूतान्युपादाय कुतस्त्यं कायवाक्कर्म ?
स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम् ।
कामावचरं कायवाक्कर्म कामावचराण्येव महाभूतान्युपादाय । एवं
यावच्च चतुर्थध्यानभूमिकं तद्भूमिकान्येवोपादाय ।
संगृहीता चक्षुःश्रोत्ररूपशब्दादि चैवं समानकालान्येव महाभूतान्युपादाय वर्तते ।
प्रायेणेतिग्रहणं किञ्चित्कामावचर्यविज्ञप्तिनिरासार्थम् । अत एवाह—किञ्चिद्
वर्तमानमनागतमतीतानि महाभूतान्युपादायेति । किञ्चिदुपादाय रूपं वर्तमान-
मतीतानि महाभूतान्युपादाय वर्तते, किञ्चिदनागतमुपादायरूपमतीतानि महा-
भूतान्युपादाय वर्तते ।
किं पुनस्तदुपादायरूपं यदेवं भूतमिति दर्शयन्नाह—
“क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा” इति । कामावचरसंवरादि-
ग्रहणकालेऽविज्ञप्तिः सहजानि महाभूतान्युपादायोत्पद्यते । एवमन्याप्यविज्ञप्ति-
स्तान्येवोपादायोत्पद्यते; यस्मात् तान्यस्या आश्रयार्थेन सम्भवन्ति । यथान्येषामुपा-
दायरूपाणां प्रत्युत्पन्नानि महाभूतान्याश्रयः, एवं तस्यातीतान्याश्रयः । प्रवृत्त्य-
नुवृत्तिकारणत्वात् यथाक्रममिति । अतीतानि महाभूतानि प्रवृत्तिकारणत्वात्
आक्षेपकारणत्वात् आश्रयार्थेन भवन्ति । प्रत्युत्पन्नानि शरीरमहाभूतान्यनुवृत्ति-
कारणत्वादधिष्ठानकारणत्वात् सन्निश्रयार्थेन भवन्ति । चक्रस्येवेति विस्तरः ।
यथा चक्रस्य पाण्यावेधः । एवमस्याः प्रवृत्तिकारणम् । यथा भूमिप्रदेशः ।
एवमनुवृत्तिकारणम् ॥ ४ ॥
कालनियममुक्त्वा भूमिनियमं पृच्छति—अथ कुतस्त्यानीति विस्तरः ।
यावच्च चतुर्थध्यानभूमिकमिति । आरूप्येषु भूतभौतिकानामभावात् ।
१. किञ्चित्—का० । २. भवन्ति—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् ५०१
अनास्रवं यत्र जातः,
अनास्रवं तु कायवाक्कर्म यस्यां भूमौ जातस्तदुत्पादयति, तद्भूमिकान्यु-
पादाय तद् वेदितव्यम् । धात्वपतितत्वाद्, अनास्रवाणां च महाभूतानामभावात् १,
तद्बलेन चोत्पत्तेः । तत्र विज्ञप्त्यविज्ञप्त्याख्यकर्मणी वेदितव्ये ।
अविज्ञप्तिरनुपात्तिका ॥ ५ ॥
नैःष्यन्दिकी च सत्त्वाख्या,
किञ्च —
निष्यन्दोपात्त भूतजा ।
नैःष्यन्दिकान्येव भूतान्युपादाय चित्तचैत्तानि चोपादायाविज्ञप्तिर्भवति ।
असमाहितभूमिकाया एष प्रकारः ॥
समाधिजौपचयिकानुपात्ताभिन्नभूतजा ॥ ६ ॥
ध्यानानास्रवसंवरो विज्ञप्तिः समाधिजा । सा समाधिसम्भूतान्यौपचयि-
धात्वपतितत्वादिति । अनास्रवस्य कायवाक्कर्मणोः धात्वप्रतिसंयुक्तत्वात् ।
नास्ति नियमत इत्यभिप्रायः । अनास्रवाणि तर्हि महाभूतान्युपादाय कस्मान्न
भवति ? इत्यत आह—अनास्रवाणाञ्च महाभूतानामभावादिति । किं पुनरस्या
महाभूतैः कार्यम् ? इत्यत आह—तद्बलेन चोत्पत्तेरिति । महाभूतबलेन चोत्पत्ते-
रित्यर्थः । अथ चित्तबलेनैव तदुत्पत्तिः कस्मान्न भवति ? अनुपादायरूपत्व-
प्रसङ्गात् ।
"अविज्ञप्तिरनुपात्तिका" इति । अमूर्तत्वान्चित्तचेत्ताधिष्ठानभावायोगाद् ॥५॥
"नैष्यन्दिकी च" इति । कुशलाकुशलत्वात् । न विपाकजा; "नाव्याकृता-
स्त्यविज्ञप्तिः" ( अभि० ४.७ ) इति वचनात् । विपाकजस्य चाव्याकृतत्वाद्
"विपाकोऽव्याकृतो धर्मः" ( अभि० को० २.५७ ) इति वचनात् । नौपचयिकी
उपचयाभावात् । परिशेष्यान्नैष्यन्दिकी ।
"सत्त्वाख्या" सत्त्वसन्तानपतितत्वात् ।
"निष्यन्दोपात्तभूतजा" इति । नैष्यन्दिकोपात्तमहाभूतजा; समुत्थापक-
चित्तापेक्षत्वात्, असमाहितचित्तविज्ञप्त्यधिकाराच्च । न स्वप्नसमाध्याक्षोप-
चयिकमहाभूतजा । अत एव च न विपाकजमहाभूतजा ।
"समाधिजा" इति विस्तरः । सास्रवानास्रवसमाधिजत्वात् । ध्यानानास्र-
१. भूतानाम०—का० ।
५९२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
कानि, अनुपात्तानि च महाभूतान्युपादायोत्पद्यते । अभिन्नानि च, यान्येव च
भूतान्युपादाय प्राणातिपाताद् विरतिरुत्पद्यते तान्येव यावत् सम्भिन्नप्रलापात् । किं
कारणम् ! चित्तवद् भूतभेदात् ।
प्रातिमोक्षसंवरे त्वन्यान्यानि महाभूतान्युपादाय सप्ताविज्ञप्तयो भवन्ति ।
विज्ञप्तिस्तु नैःष्यन्दिकी । उपात्ता तु कायिकी ।
किं पुनरियं विज्ञप्तिरुत्पद्यमाना पूर्वकस्य संस्थानस्य सन्तानं बाधित्त्वोत्पद्यते ?
उताहो न ?
किञ्चातः यदि बाधित्त्वोत्पद्यते ? न; विपाकरूपस्योच्छिन्नस्य पुनः प्रबन्धा-
द्वैभाषिकीयं प्राप्नोति ।
अथाबाधित्वा ? कथमेकस्मिन् भूतसङ्घाते संस्थानद्वयं सिध्यति । अन्यान्येव
तानि नैःष्यन्दिकानि तदानीमुपजायन्ते यान्युपादाय विज्ञप्तिर्भवति ?
वजसंवराविज्ञप्तिः समाधिजेत्युच्यते । अनुपात्तानि च महाभूतान्युपादायेति ।
समाहितचित्तवशेन तत्र शरीरे चित्तानुवृत्तित्वात् । उपात्तानि हि महाभूतानि
निरोधसमापत्त्याद्यवस्थासु चित्तमन्तरेणापि वर्तन्ते । यावत्सभिन्नप्रलापादिति ।
यावच्छब्देन अदत्तादानात् काममिथ्याचारान्मृषावादात् पैशुन्यात् पारुष्यात्
सम्भिन्नप्रलापादिति । चित्तवद् भूतभेदात् । यथा तदुत्पादकं चित्तमभिन्नम्, एवं
भूतान्यपि तदुत्पादकान्यभिन्नान्येव । न चाधारार्थनाविज्ञप्तेर्महाभूतान्याश्रयः,
किं तर्हि ? तत्प्रवर्तनार्थेन । तस्मादभिन्नभूतजेति वचनं न विरुध्यते ।
प्रातिमोक्षसंवरे त्वन्यान्यानीति । अचित्तानुपरिवर्तनीयत्वात् । विज्ञप्तिस्तु
नैष्यन्दिकीति । आक्षेपवशेनोनुवृत्तेः । उपात्ता तु कायिकीति । न वाचिकीत्यर्थः ।
कायिकी हि कायमहाभूतावनिर्भागवर्तित्वात् तदाश्रयभूतानामुपात्ता । न
तु वाचिकी; तद्विर्निभागवर्तित्वात् ।
अत्र चोदयति—शास्त्रविरुद्धमेतद् । एवं ह्याह- “यानोमान्युपासकस्य पञ्च
शिक्षापदानि, एषां कत्युपात्तानि ? कत्यनुपात्तानि ? आह—सर्वाण्यनुपात्तानि”
इति ? अविज्ञप्तिलक्षणशिक्षापदभिसन्धिवचनाद् बाहुलिकत्वाद्वा तथानिर्देश-
स्येत्यदोषः ।
पुनः प्रबन्धाद्वैभाषिकीयमिति । एकसंस्थानोत्पत्तावितरसंस्थानानिवृत्तेः ।
कथं विस्तरेण यावत् संस्थानद्वयं सिध्यतीति । अन्योन्यावकाशदानात् ।
निर्देशः ] चतुर्थे कोशस्थानम् ५२६
एवं तर्हि यद्यदेवाङ्गं निश्चित्योत्पद्यते विज्ञप्तिः, तेन तेनाङ्गेन महीयसा भवि-
तव्यम् ; तन्महाभूतैरभिव्यापनात् । अनभिव्यापने च पुनः कथं कृत्स्नेनाङ्गेन¹
विज्ञपयेत् । शुषिरत्वात् कायस्यास्ति तेषामवकाशः ॥ ६ ॥
तत् खल्वेतत् कर्म पर्ययेण द्विविधम्, त्रिविधम्, पञ्चविधं चोक्तम् । चेतना,
चेतयित्वा चेति । चेतयित्वा पुनर्द्विधा—काय-वाक्कर्म, चेतना च । कायकर्म पुनः
द्विविधम्—विज्ञप्त्याख्यम् , अविज्ञप्त्याख्यं च । एवं वाक्कर्म, चेतना चेति पञ्च-
विधं भवति । तत्र पुनरविज्ञप्तिर्द्विधा—कुशला, अकुशला च ।
नाव्याकृतास्त्यविज्ञप्तिः,
किं कारणम् ? अव्याकृतं हि चित्तं दुर्बलम्, अतो न शक्तं बलवत् कर्मा-
क्षेप्तुम्, यन्निरुद्धेऽपि तस्मिन्ननुबध्नीयात् ।
त्रिधाऽन्यत्,
अन्यत् कर्म त्रिविधम्—कुशलाकुशलाव्याकृतम् । किं तदन्यत् ? विज्ञप्तिः,
चेतना च ।
अशुभं पुनः ।
तन्महाभूतैरभिव्यापनादिति । विज्ञप्त्याश्रयैर्महाभूतैरङ्गस्याभिव्यापनात् ।
अनभिव्यापने च पुनर्विज्ञप्तिमहाभूतैः कथं कृत्स्नेनाङ्गेन विज्ञापयेत् । न हि शक्यते
वक्तुम्—कायैकदेशेनासौ विज्ञापयति न सर्वकायेनेति । विज्ञप्त्याश्रयाणि
महाभूतानि तदङ्गं न व्याप्यावतिष्ठन्त इति । शुषिरत्वात् कायस्यास्ति तेषाम-
वकाश इति । अभिव्यापनेऽपि न महीयसाङ्गेन भवितव्यम्; शुषिरत्वेन काया-
नुप्रवेशात् । पीनेन तर्हि गुरुणा वा तेनाङ्गेन न भवितव्यम्; सूक्ष्मत्वात् ॥ ६.॥
द्विविधं त्रिविधं पञ्चविधं चोक्तमिति । "चेतना तत्कृतं च तत्" (अभि०
को० ४.१) इति वचनाद् द्विविधमुक्तम् । "चेतना मानसं कर्म तज्जे वाक्काय-
कर्मणी" (अभि० को० ४.२) इति वचनात् त्रिविधमुक्तम् । "ते तु विज्ञप्त्य-
विज्ञप्ती" (अभि० को० ४.३) इति कायवाक्कर्मणोर्विज्ञप्यविज्ञप्तित्वे भेदस्त्
चेतनात्मकस्य कर्मणश्च पञ्चसत्त्वात् पञ्चविधमुक्तम् ।
“नाव्याकृतास्त्यविज्ञप्तिः” इति । कुशलाकुशलेवाविज्ञप्तिरित्यर्थादुक्तं भवति ।
बलवत्कर्मेति । अविज्ञप्तिलक्षणम् ।
१. कृत्स्नाङ्गेन—का० ।
५५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
कामे,
अकुशलं वस्तु कर्म कामधातौ वेदितव्यम्, नान्यत्र; अकुशलभूतानां
प्रहीणत्वाद्, आहीक्यानपत्राप्ययोश्च । कुशलाव्याकृतं तु सर्वत्राप्रतिवेधात् । तत्र—
रूपेऽप्यविज्ञप्तिः,
कामेऽपीति; अपिशब्दात् । आरूप्येषु नास्ति; भूताभावात् । यत्र हि काय-
वाचोः प्रवृत्तिस्तत्र कायवाक्संवरौ ।
इह तर्हि समापन्नस्य स्यादनास्रवाविज्ञप्तिवत् ? न; तस्या धात्वपतितत्वात् ।
आरूप्यावचरी त्वविज्ञप्तिर्नाहति कामरूपावचराणि¹ विसभागानि महा-
भूतान्युपादाय² भवितुम् ।
सर्वरूपवैमुख्याच्चारूप्यसमापत्तिर्नलं³ रूपोत्पत्तये; विभूतरूपसंज्ञत्वात् ।
दौःशील्यप्रतिपक्षेण शीलम् । तच्च दौःशील्यं कामावचरम् । आरूप्याश्च
कामेऽपीति अपिशब्दादिति । च-शब्दार्थेनापिशब्देन काम इत्याकृष्यते ।
अनास्रवाविज्ञप्तिवदिति । यथा न च तावदनास्रवाया अविज्ञप्तेरनास्रवाणि
महाभूतानि; अथ च पुनर्यस्यां भूमौ जातस्तामुत्पादयति, तद्भूमिकानि
महाभूतान्युपादायोत्पद्यते । एवं न च तावदारूप्याणि महाभूतानि स्युः ।
अथ च पुनर्यस्यां भूमौ जातस्तामुत्पादयति, तद्भूमिकानि महाभूतान्यु-
पादायारूप्यावचर्याऽविज्ञप्तिर्भविष्यतीति ? न; तस्या धात्वपतित्वादिति ।
नैह; असाम्यात् । यस्मादविज्ञप्तिरनास्रवा धात्वपतिता कामरूपारूप्यावचरीति
युष्माभिरस्वीकृतत्वात् तस्या धातुतो भूमितो वा नैव सभागानि, नापि
विसभागानि महाभूतानि भवन्तीति, अतो यत्र जातस्तत्रजानि महाभूतान्यु-
पादायोत्पद्यते । आरूप्यावचरी त्वज्ञप्तिर्नाहति कामरूपावचराणि विसभागानि
महाभूतान्युपादाय भवितुम् । धातुपतितत्वादित्यभिप्रायः ।
किञ्च—सर्वरूपवैमुख्याच्चारूप्यसमापत्तिर्नलं रूपोत्पत्तये । रूपभूमिका त्वना-
स्रवा समापत्तिरलं रूपोत्पत्तये, अविज्ञप्त्युत्पत्तये इत्यर्थः । कस्
कामधातोरश्रायाकारालम्बनप्रतिपक्षदूरताभिर्दूरै । अत एष्वविज्ञप्तिर्नास्तीति वैभा-
षिकाः ।
विज्ञप्तिः सविचारयोः ॥ ७ ॥
विज्ञप्तिस्तु सविचारयोरेव भूम्योः । कामधातौ प्रथमे च ध्याने न तत
ऊर्ध्वम् ॥ ७ ॥
कामेऽपि निवृता नास्ति,
निवृता तु विज्ञप्तिः कामधातावपि नास्ति । ब्रह्मलोक एवास्ति । महा-
ब्रह्मणो हि शाठ्यसमुत्थितं कायकर्म श्रूयते । स हि स्वपर्षन्मध्ये आयुष्मतो-
ऽश्वजितः क्षेपार्थमात्मानं क्षिप्तवान् ।
तत ऊर्ध्वमसत्यां वाग्विज्ञप्तौ कथं तत्र शब्दायतनं बाह्यमहाभूतहेतुकम् ।
समुत्थानत्वात् । तस्य रूपभूमिकं शीलमविज्ञप्तिलक्षणं प्रतिपक्ष इति युज्यते ।
आरूप्यावचरमप्येवं भविष्यतीति चेद् ? अत आह—आरूप्याश्च कामधातोरिति
विस्तरः । आरूप्याः कामधातोश्चतसृभिर्दूरताभिर्दूरे । दूरत्वाच्चारूप्यसंगृहीतं
शीलं कामधातुप्रतिपक्षे न कल्पते । चतस्रश्च दूरता व्याख्याताः पुरस्तादिति¹
न पुनर्व्याख्यायन्ते । प्रतिपक्षदूरता चात्रोदाहरणम् ।
“विज्ञप्तिः सविचारयोः” इति । सविचारयोरेव भूम्योरिति । अवधारणार्थ
आरम्भः । “वितर्क्य विचार्य वाचं भाषते” इति वितर्कविचारपूर्वकत्वात्
कायवाक्कर्मणोः ॥ ७ ॥
“कामेऽपि निवृता नास्ति” इति । न केवलमविचारासु भूमिष्विति
दर्शयति । ब्रह्मलोक एवास्तीत्युक्तं भवति ।
तत ऊर्ध्वमिति । ब्रह्मलोकादूर्ध्वम् । बाह्यमहाभूतहेतुकमिति । वायुप्रभृतीनां
शब्दायतनम् । विज्ञप्तिशब्दप्रतिषेधपरमेतद्वचनम् । न तु बाह्यमहाभूतहेतुक-
मिति । पाण्याद्यङ्गशब्दोऽपि हि द्वितीयादिषु ध्यानेषु सम्भवति । अन्यथा हि
शास्त्रविरोधः स्यात् । तथा हि शास्त्र उक्तम्—“शब्दधातुना कः समन्वागतः ?
आह—कामरूपावचरः । कोऽसमन्वागतः ? आह—आरूप्यावचरः” (
) इति । न हि बाह्येन सत्त्वसंख्यातेन समन्वागतो युज्यते; “प्राप्य-
प्राप्तिस्वसन्तानपतितानाम्” (अभि० को० २.३६) इति वचनात् ।
१. द्र०—अभि० को० स्फु० २.६७; पृ० ३५८ ।
अन्ये पुनराहुः—द्वितीयादिष्वपि ध्यानेषु विज्ञप्तिरस्त्यनिवृताव्याकृता ।
न तु १कुशला, न क्लिष्टा । किं कारणम् ? न हि तेषूपपन्नस्तथाजातीयमधोभूमिकं २
चित्तं सम्मुखीकरोति, येन तां विज्ञप्तिं समुत्थापयेत्; न्यूनत्वात्, प्रहीणत्वाच्च ।
पूर्वमेव तु वर्णयन्ति ।
किं पुनः कारणमूर्ध्वं ब्रह्मलोकान्नास्ति विज्ञप्तिः, कामधातौ च निवृतान्या-
कृता नास्ति ?
समुत्थानमसद्भूतः ।
सवितर्कविचारेण हि चित्तेन विज्ञप्तिः समुत्थाप्यते । तच्च द्वितीयादिषु
ध्यानेषु नास्ति, भावनाप्रहातव्येन चोत्थाप्यते; दर्शनप्रहातव्यस्यान्तर्मुखप्रवृत्तत्वात् ।
अस्येव च दोषपरिहारार्थमन्ये पुनराहुरिति । द्वितीयादिष्वपि ध्यानेषु विज्ञप्ति-
रस्तीति । किम्भूमिक ? प्रथमध्यानभूमिका । वैभाषिकपक्ष एवायम्, न
पक्षन्तरम्;
“कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।
द्वितीयादौ तदा व्याप्तमक्लिष्टाव्याकृतं च तत्” ॥
इति सिद्धान्तात् । एवं तर्हि द्वितीयादिध्यानभूमिका भवति पक्षान्तरम् ।
सा तु किं व्याकृता, उताव्याकृता ? इत्याह—अनिवृताव्याकृता । न तु कुशला
न क्लिष्टेति । परस्परसम्भाषणादि कुर्वतां ततस्त्यानामव्याकृता विज्ञप्तिर्भवति ।
किं कारणं न कुशला न क्लिष्टाऽस्ति ? इत्याह—न हि तेषूपपन्न इति विस्तरः ।
न हि द्वितीयादिषु ध्यानेषूपपन्नः तथाजातीयं कुशलक्लिष्टजातीयमधोभूमिकं
चित्तं सम्मुखीकरोति । येन चित्तेन कुशलां क्लिष्टां वा विज्ञप्तिं समुत्थापयेत् । किं
कारणम् ? इति आह—न्यूनत्वात् प्रहीणत्वाच्चेति । कुशलमधोभूमिकं न्यूनत्वात्
न सम्मुखीकरोति । प्रहीणत्वाच्चेति न क्लिष्टम् । अथदितदुक्तं भवति—
अव्याकृतमधोभूमिकं चित्तं सम्मुखीकरोति, तेन तां समुत्थापयतीति । एतदुक्तं
भवति—अधोभूमिकेन चित्तेनोर्ध्वभूमिका विज्ञप्तिरुत्थाप्यत इति । तदेवं
नेच्छन्ति वैभाषिकाः । प्रथमध्यानिकैव हि सा विज्ञप्तिः, प्रथमध्यानभूमिकचित्त-
समुत्थापितत्वात् । तस्मादाह—पूर्वमेव तु वर्णयन्तीति ।
तच्च कामाधाताविति । तच्च भावनाप्रहातव्यं निवृताव्याकृतं चित्तं काम-
धातौ नास्ति । सत्कार्यान्तर्ग्राहदृष्टिसम्प्रयुक्तमेव हि कामधातौ निवृताव्याकृतं
चित्तमिष्यते । तेन च न विज्ञप्तिः समुत्थाप्यते । अन्तर्मुखप्रवृत्तत्वात् ।
१. का० पुस्तके नास्ति । २. ०ञ्स्तज्जातीय०—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् ५९७
तच्च कामधातौ निवृताव्याकृतं नास्ति ।
किं खलु समुत्थानवशादेव धर्माणं कुशलाकुशलत्वं वेदितव्यम् ? नेत्याह ।
किं तर्हि ? चतुर्भिः प्रकारैः—परमार्थतः, स्वभावतः, सम्प्रयोगतः, समुत्थानतश्च ।
तत्र तावत्—
परमार्थशुभो मोक्षः,
निर्वाणं हि सर्वदुःखव्युपशमः । ततः परमक्षेमत्वात् परमार्थेन कुशलम्,
आरोग्यवत् ।
स्वतो मूलह्यपत्रापाः ॥ ८ ॥
त्रीणि कुशलमूलानि होश्चापत्रप्यं च स्वभावेन कुशलानि; अन्यसम्प्र-
योगसमुत्थान्यानपेक्षत्वात् , पथ्यौषधवत् ॥ ८ ॥
सम्प्रयोगेण तद्युक्ताः,
तैरैव कुशलमूलह्यपंत्राप्यैः सम्प्रयुक्ता धर्माः सम्प्रयोगेण कुशलाः; तैरसम्प्र-
युक्तानां कुशलत्वाभावाद्, औषधमिश्रपानीयवत् ।
समुत्थानात् क्रियादयः ।
कायवाक्कर्मणी चित्तविप्रयुक्ताश्च संस्कारजात्यादयः प्राप्तिनिरोधासंज्ञिसमा-
पत्तयस्तैरैव कुशलमूलादिसम्प्रयुक्तैर्धर्मैः समुत्थापिताः समुत्थानेन कुशलाः,
औषधिपानीयसम्भूतक्षीरवत्¹ ।
प्राप्तीनां तु विसभागाचित्तसमुत्थापितानां कथं कुशलत्वमिति वक्तव्यम् !
स्वभावत इति । आत्मतः । परमक्षेमत्वादिति । अक्षेमक्लेशानुबन्धाभावात् ।
यद्धि स्वभावसम्प्रयोगसमुत्थानतः कुशलम्, न तत् परमक्षेममित्युक्तं भवति ॥८॥
असम्प्रयुक्तानां कुशलत्वाभावादिति । कुशलमूलादिभिरसम्प्रयुक्तानां चैत्ता-
दीनां कुशलत्वाभावात् तत्सम्प्रयोगकुशलत्वसिद्धिः ।
तैरैव कुशलमूलादिसम्प्रयुक्तैरिति । आदिशब्देन ह्यपत्रपाप्ययोर्ग्रहणम् । औषधि-
पानीयसम्भूतक्षीरवदिति । पीतौषधपानीयायागोर्यत् क्षीरं तदौषधपानीयसम्भूतम् ।
प्राप्तीनां त्विति विस्तरः । प्राप्तीनां कुशलानां विसभागाचित्तसमुत्थापितानाम् ।
विसभागं चित्तं कुशलादन्यत् । विचिकित्सया कुशलमूलप्रतिसन्धाने याः
१. औषधपानीयसम्भूतधात्रीक्षीरवत्—का० ।
तद्यथा—विचिकित्सया कुशलमूलप्रतिसन्धानम्, धातुप्रत्यागमपरिहाणिभ्यां च।
यथा च कुशलमुक्तम्, ततो
विपर्ययेणाकुशलम्,
कथं कृत्वा ? संसारः परमार्थेनाकुशलः; सर्वदुःखप्रवृत्त्यात्मकत्वेन परमाक्षे-
मत्वात् । अकुशलमूलाह्रीक्यानपत्रपाणि स्वभावतः । तत्सम्प्रयुक्ता धर्माः सम्प्र-
योगतः । तत्समुत्थापिताः कायवाक्कर्मजात्यादिप्राप्तयः समुत्थानतः व्याध्यपथ्यौ-
षधादिभिरुपमेयाः ।
एवं तर्हि न किञ्चित् सास्रवमव्याकृतं भविष्यति, कुशलं वा; संसारा-
भ्यन्तरत्वात् ? परमार्थत एवमुक्तम्, विपाकं तु प्रति यत् सास्रवं न व्याक्रियते
तदव्याकृतमित्युच्यते ।
कुशलानां प्राप्तयः, तासां कुशलत्वम् । न तावत् परिनिर्वाणवत्; परमार्था-
क्षमत्वात् । नाप्यलोभादिवत् स्वभावतः कुशलम्; अतत्स्वभावत्वात् । नापि
वेदनादिवत्; संप्रयोगतो विप्रयुक्तत्वात् । नापि समुत्थानतः; तत्समुत्थानचित्तस्य
क्लिष्टत्वात् । एवं पुनर्भवप्रतिसन्धावपि उपपत्तिप्रतिलम्भिककुशलप्राप्तयो
वक्तव्याः । कथं तासां कुशलत्वमिति वक्तव्यमेतत् । कर्तव्योऽत्र यत्न इत्यभि-
प्रायः । अत्र परिहरन्ति—कुशलमूलसमुत्थापनीयत्वादनागतावस्थायामेव ताः
कुशलमूला भवन्ति । क्लिष्टेन चित्तेन तत्प्राप्तिविबन्धोऽपनीयते । न तत्
कुशलत्वमापद्यत इति ।
सर्वदुःखप्रवृत्त्यात्मकत्वेनेति । सर्वस्य दुःखस्य प्रवृत्तिरात्मा स्वभावोऽस्येति
सर्वदुःखप्रवृत्त्यात्मकः, तद्भावेन । परमार्थेनाक्षेमः संसारः । कायवाक्कर्मजात्यादि-
प्राप्तय इति । कायवाक्कर्माणि विज्ञप्त्यविज्ञप्तिस्वभावान्यसंवर-नैवसंवरनासंवर-
संगृहीतानि । जात्यादयो जातिजरास्थित्यनित्यतालक्षणा लक्षणानुभावाः ।
प्राप्तयोऽकुशलानाम् । व्याध्यपथ्यौषधादिभिरुपमेया इति । संसारो व्याधिनोप-
मेयः । व्याधिसंसार इत्यर्थः । लोभादीन्यपथ्यौषधेनोपमेयानि; अन्यसम्प्रयोग-
समुत्थानापेक्षत्वात् । तत्सम्प्रयुक्ता अपथ्यौषधिमिश्रपानीयेन । कायवाक्कर्म-
जात्यादिप्राप्तयोऽपथ्यौषधपानीयसम्भूतक्षीरेणोपमेयाः ।
एवं तर्हीति विस्तरः । यदि परमार्थेनाकुशलः संसारः । न किञ्चित्
सास्रवमव्याकृतं भविष्यति, कुशलं वा; संसाराभ्यन्तरत्वात् सास्रवस्य । परमार्थत
एवमुक्तमिति । अभ्युपगतमेतत्—सर्वं संसारपर्यापन्नमकुशलमिति । विपाकं तु
प्रतीति विस्तरः । यद्विपाकं प्रति न व्याक्रियते । सविपाकमेतदिति । तदव्याकृत-
निर्देशः ] चतुर्थं कोशस्थानम् ५९९
इष्टविपाकत्वात्¹ कुशलमित्युच्यते ।
यदि तु परमार्थेनाव्याकृतं मृग्यते, तत्—
परमाव्याकृते ध्रुवे ॥ ९ ॥
द्वे असंस्कृते निष्पर्यायेणानिवृताव्याकृते—आकाशम्, अप्रतिसंख्या-
नेरोधश्च ।
इदं विचार्यते—यदि समुत्थानवशात् कुशलाकुशलत्वं कायवाक्कर्मणः, किं
। महाभूतानाम् ? कर्मणि हि कर्तुरभिप्रायः, न महाभूतेषु ।
समाहितस्याविज्ञप्तौ नास्त्यभिप्रायः । न चासमाहितं चित्तं तस्याः
समुत्थापकं विसभाभूमिकत्वादिति कथं तस्याः कुशलत्वम् !
दिव्ययोरपि वा चक्षुःश्रोत्रयोः कुशलत्वप्रसङ्गः ? कर्तव्योऽत्र यत्नः ।
मित्युच्यते । तदुक्तं भवति—यत् सास्रवं तदकुशलम्; परमाक्षेमत्वात् । विपाकं
प्रत्यव्याकरणार्थादव्याकृतमिति । कुशलमपि। तथैवाकुशलम् । इष्टविपाकत्वात्
कुशलमित्यवगन्तव्यम् ।
यदि समुत्थानवशादिति विस्तरः । चेतनाया एव कुशलाकुशलत्वमित्यनेना-
भिप्रायेण । कायवाक्कर्मणः कुशलाकुशलत्वं विचारयति । किं न महाभूतानामिति ।
कुशलाकुशलेन हि चित्तेन कायवाक्कर्म-तन्महाभूतानि समु-
त्थाप्यते । वैभाषिक आह—कर्मणि हि कर्तुरभिप्रायो न महाभूतेषु । न 'महा-
भूतानि कुर्याम्' इति । किं तर्हि ? 'इदं कर्म कुर्याम्' इति । न कर्मवन्महा-
भूतानां कुशलाकुशलत्वमिति ।
आचार्य आह—समाहितस्य कर्तुरविज्ञप्तौ नास्त्यभिप्रायः । अविज्ञप्तिं कुर्या-
मिति । न चासमाहितं चित्तं तस्याः समुत्थापकमस्ति । यदेवमभिप्रायं कुर्यात् ।
विसभागत्वान् विसदृशत्वाद् भूमितोऽसमाधानाद्वा । कथं तस्याः समाहितायाः
अविज्ञप्तेः कुशलत्वम् । महाभूतवत् तस्याः कुशलत्वं न स्यादित्यभिप्रायः ।
दिव्ययोरपि वा चक्षुःश्रोत्रयोः कुशलत्वप्रसङ्ग इति । यद्यन्तरेणापि तदभिप्राय-
मविज्ञप्तेः कुशलमिति । अथ वा अयमस्याभिसम्बन्धः—यदि विसभागासमा-
हितचित्तवशेन तस्याः कुशलत्वम्, दिव्ययोरपि चक्षुःश्रोत्रयोः कुशलत्वप्रसङ्गः,
प्रयोगकाले तदभिप्रायसम्भवात् । न च तयोः कुशलमस्ति, “अव्याकृते श्रोत्र-
चक्षुरभिज्ञे” ( अभि० ७.४५ ) इति वचनात् ।
१. ०विपाकं च—का० ।
६०० भाष्यस्फुटार्थसहितऽभिधर्मकोशे [ कर्म-
यदुक्तम् — "दर्शनप्रहातव्यं चित्तं विज्ञप्तेरसमुत्थापकम्" इति । किं तर्हि भग-
वतोक्तम्—"ततोऽपि मिथ्यादृष्टेर्मिथ्यासङ्कल्पः प्रभवति मिथ्यावाग् मिथ्या-
कर्मान्तः¹" इत्येवमादि । अविरुद्धमेतत् ॥ ९ ॥
समुत्थानं द्विधा हेतुतत्क्षणोत्थानसंज्ञितम् ।
द्विविधं समुत्थानम्—हेतुसमुत्थानम्, तत्क्षणसमुत्थानं च । तत्रैव क्षणे
समुद्भावात्² ।
प्रवर्त्तकं तयोराद्यं द्वितीयमनुवर्तकम् ॥ १० ॥
हेतुसमुत्थानं प्रवर्त्तकम्; आक्षेपकत्वात् । तत्क्षणसमुत्थानमनुवर्त्तकम्;
क्रियाकालानुवर्त्तनात् ।
किमिदानीं तस्य तस्यां क्रियायां सामर्थ्यम् ? तेन हि विनासौ मृतस्येव
न स्यादाक्षिप्तापि सती ।
यदुक्तं दर्शनप्रहातव्यं चित्तं विज्ञप्तेरसमुत्थापकमिति । दर्शनप्रहातव्यस्यान्त-
र्मुखप्रवृत्तत्वादित्येवं ब्रुवतां किं तर्हि भगवतोक्तमिति विरुध्यते । तद् भगवतोक्त-
मिति वाक्यार्थः । किं तद् ? इत्युच्यते—ततो मिथ्यादृष्टेरिति विस्तरः । कथं
मिथ्यादृष्टेर्दर्शनप्रहातव्यायाः मिथ्यावाक् विज्ञप्तिस्वभावा, मिथ्याकर्मान्तश्च तत्-
स्वभाव एवेत्युक्तमिति ॥ ९ ॥
" इति । हेतुत्थानं च तत्क्षणोत्थानं च हेतुतत्क्षणो-
त्थानम्, हेतुतत्क्षणोत्थानमिति संज्ञितं हेतुतत्क्षणोत्थानसंज्ञितम् । संज्ञितमिति
संज्ञीकृतम् । अथवा—हेतुतत्क्षणोत्थानं संज्ञास्येति हेतुतत्क्षणोत्थानसंज्ञम्,
हेतुतत्क्षणोत्थानसंज्ञीकृतं हेतुतत्क्षणोत्थानसंज्ञितम् ।
हेतुसमुत्थानमिति । समुत्तिष्ठतेऽनेनेति समुत्थानम्, हेतुश्च समुत्थानञ्च तत्
हेतुसमुत्थानम् । तत्क्षणसमुत्थानमिति । स क्षणः क्रियाक्षणः, तत्क्षणे समुत्थानं
तत्क्षणसमुत्थानम् । तत्रैव क्षणे समुद्भावात् । सद्भावात् । तत्रैव क्रियाक्षणे
तत्क्षणसमुत्थानस्य भावादित्यर्थः । आक्षेपकत्वादिति । उत्पादकत्वात् ।
किमिदानीमिति विस्तरः । तस्य तत्क्षणसमुत्थानस्य तस्यां विज्ञपनक्रियायां
सामर्थ्यम् । येन तदानीं तदनुवर्तकमित्युच्यते । तेन हीति विस्तरः । तेन हि
तत्क्षणसमुत्थानेन विना असौ विज्ञप्तिर्मृतस्येव न स्यादाक्षिप्ता सती । हेतुसमुत्था-
नेन जनितापि सती । तद्यथा—कश्चिद् 'ग्रामं गमिष्यामि' इत्याक्षिप्तक्रियान्तरा
म्रियेत, तस्यानुवर्त्तकचित्ताभावाद् गमनं न भवति, तद्वत् ।
१. मिथ्याकर्मान्तम्—का० । २. सद्भावात्—का० ।
निर्देशः ] चतुर्थं कोशस्थानम् १०१
अचित्तकस्य तर्हि संवरोत्पत्तौ कथं भवति ? स्फुटतरा तर्हि सचित्तकस्य
भवतीति, एतत् तस्य१ सामर्थ्यम् ॥ १० ॥
तत्र च—
प्रवर्तकं दृष्टिहेयं विज्ञानम्,
दर्शनप्रहातव्यं चित्तं विज्ञप्तेः प्रवर्तकम्; तत्समुत्थापकयोर्वितर्कविचारयो-
र्निदानभूतत्वात् । न त्वनुवर्तकम्; बहिर्मुखचित्तस्य क्रियाकाले तदभावात् ।
तत्समुत्थापितं च रूपं दर्शनप्रहातव्यं स्यात् ।
किं स्यात् ? अभिधर्मो बाधितः स्यात् ।
विद्याविद्याभ्यां चाविरोधान्नास्ति रूपं दर्शनप्रहातव्यम् ।
अचित्तकस्य तर्हीति विस्तरः। यदि तत्क्षणसमुत्थानेन विनाऽसौ मृतस्येव
न स्यात् । निरोधसमापत्तिलाभिनः कस्यचिदुपसम्पाद्यमानस्य कायविज्ञप्तिमा-
बध्नतः तत्काल उपस्थितनिरोधसमापत्तित्वादचित्तकस्य संवरोत्पत्तौ कर्मवासना-
वसानकालीनायां तत्संवरात्तर्गता कायविज्ञप्तिः कथं भवति । कथमुत्पद्यते
तत्क्षणसमुत्थानं विनेत्यर्थः । एवं विरोधिते समाध्यन्तरं श्रोयते—स्फुटतरा
तर्हीति । तत्क्षणसमुत्थानेन सचित्तकस्य व्यक्ततरा विज्ञप्तिर्भवतीत्येतत् तस्य
सामर्थ्यम् ॥ १० ॥
प्रवर्तकं दृष्टिहेयमिति । प्रवर्तकमेव दृष्टिहेयमित्यवधार्यते । कथं पुनस्तत्
प्रवर्तकम् ? इत्याह —तत्समुत्थापकयोर्वितर्कविचारयोर्निदानभूतत्वात् । हेतुभूतत्वाद्
विज्ञप्तेः प्रवर्तकमिति । न त्वनुवर्तकमिति विस्तर. । यत्तद् बहिर्मुखं चित्तमनु-
वर्तकम्, तस्य यो विज्ञप्तिक्रियाकालः, तस्मिन् तदभावात् । तस्य दर्शनप्रहात-
व्यस्य प्रवर्तकस्याभावादित्यर्थः । अतस्तन्नानुवर्तकम् । अयं चान्यो दोषः—
तत्समुत्थापितं च रूपमिति विस्तरः । यदि तदनुवर्तकं स्याद्दर्शनप्रहातव्यम्, तेन
दर्शनप्रहातव्येन समुत्थापितं कायवाग्विज्ञप्तिरूपं दर्शनप्रहातव्यं स्यात् । यथा
भावनाप्रहातव्येन चित्तेन समुत्थापितं कायवाक्कर्म भावनाप्रहातव्यमिति ।
किं स्यादिति चोदकः । अभिधर्मो बाधितः स्यादिति वैभाषिकः । “न
दृष्टिहेयमक्लिष्टं न रूपम्” (अभि. को. १ ४०) इति वचनात् ।
किञ्च —विद्याविद्याभ्यां चाविरोधात् । विद्यया दर्शनमार्गेण सत्कार्यदृष्ट्या-
दिवत् तस्य रूपस्याविरोधात् । अप्रहाणादित्यर्थः । दृष्टसत्यानामपि तत्समन्वाग-
तत्वात्तनास्ति रूपं दर्शनप्रहातव्यम् । अविद्यया चाविरोधात् । किञ्च अविद्ययापि
१. का० पुस्तके नास्ति ।
६०२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
साध्य एष पक्षः ।
भूतान्यपि तर्हि दर्शनप्रहातव्यानि स्युः; समानचित्तोत्थापितत्वात् ?
नैवं भविष्यति, यथा न कुशलाकुशलानि भवन्ति । अथ वा पुनर्भवन्तु ।
नैवं शक्यम् । न हि तानि दर्शनप्रहातव्यानि युज्यन्ते, नाप्यप्रहातव्यानि ।
किं कारणम् ? अक्लिष्टस्य धर्मस्य विद्याविद्याभ्यामविरोधात् ।
रूपं न विरुध्यते। न हि क्लिष्टाक्लिष्टरूपसमुदाचारावस्थायां तत्प्राप्तिप्रवाहे
वा सत्यविद्या न भवति । अविद्यायां च सत्यां तन्न भवति । यथा अनास्रवो
मार्गोऽविद्यया विरुध्यते; पृथग्जनावस्थायां तदनुत्पादात् । तदुत्पादे वार्या-
वस्थायां कस्याश्चिदविद्यायाः प्रहाणात् । तदेवमनास्रववदप्रहातव्यमपि न
भवति । न चेदप्रहातव्यम्, नापि दर्शनप्रहातव्यम्, पारिशेष्याद् भावना-
प्रहातव्यमिति सिद्धम् ।
इतर आह—साध्य एष पक्षः—विद्यया रूपं न विरुध्यत इति । यो हि
दर्शनप्रहातव्यं रूपमिच्छति स कथं विद्यया रूपस्याविरोधं ग्रहीष्यति !
वैभाषिक आह—भूतान्यपीति विस्तरः। यदि तद्रूपं दर्शनप्रहातव्यचित्त-
समुत्थापितं दर्शनप्रहातव्यं स्यात् । तदाश्रयभूतान्यपि तर्हि दर्शनप्रहातव्यानि
स्युः। कस्मात् ? समानचित्तोत्थापितत्वात् । येन हि दर्शनप्रहातव्येन चित्तेन
तद्रूपं समुत्थापितम्, तेनैव तदाश्रयभूतान्यपि इति । न च तानि तथा भवितु-
मर्हन्ति; अक्लिष्टाव्याकृतत्वात् । दर्शनप्रहातव्यानां च क्लिष्टत्वात् ।
इतर आह—नैवं भविष्यति । दर्शनप्रहातव्यानि स्युरिति । कथम् ?
इत्याह—यथा न कुशलाकुशलानि भवन्ति । यथा येन चित्तेन कुशलाकुशलेन
कुशलाकुशलं रूपं समुत्थापितं तेनैव तदाश्रयभूतानि समुत्थापितानि । तच्च
कायवाक्कर्मस्वभावं रूपं कुशलाकुशलम्, न तदाश्रयभूतानोति, तद्वत् । स
एव पुनः परावृत्याह—अथवा पुनर्भवन्तु दर्शनप्रहातव्यानीति ।
वैभाषिक आह—नैवं शक्यं भवितुम् । दर्शनप्रहातव्यानीति वाक्यशेषः ।
कस्मात् ? अक्लिष्टस्य धर्मस्य विद्याविद्याभ्यामविरोधात् । न ह्यक्लिष्टो धर्मः
अनिवृताव्याकृतः कुशलसास्रवश्च विद्ययाऽनास्रवेण मार्गेण विरुध्यते । यथा
क्लिष्टा धर्माः प्राप्तिच्छेदाद् विरुध्यन्ते । तदालम्बनक्लेशप्राप्तिच्छेदात्तु विरोधो
न प्रतिषिध्यते। नाप्यविद्यया विरुध्यते । प्राप्तिच्छेदेन तदालम्बनक्लेश-
प्रहातव्येन च । भूतानि चाक्लिष्टानि । तत्र यदुक्तम्—'अथवा पुनर्भवन्तु' इति,
तदयुक्तम् । तदेवमत्र साधनमुत्तिष्ठते—"न दर्शनप्रहातव्यानि क्लिष्टरूपाश्रय-
महाभूतानि; अक्लिष्टत्वादक्लिष्टचित्तचैत्तधर्मवत्" इति ।
निर्देशः ] चतुर्थं कोशस्थानम् ६०३
अतो हेतुसमुत्थानमधिकृत्य सूत्रे पठनान्नास्ति विरोधः ।
उभयं पुनः ।
मानसं भावनाहेयम्,
भावनाहेयं पुनर्मनोविज्ञानमुभयं भवति—प्रवर्तकं च, अनुवर्तकं च ।
पञ्चकं त्वनुवर्तकम् ॥ ११ ॥
पञ्च विज्ञानकाया अनुवर्तका एव । तदिदं चतुष्कोटिकं भवति—प्रवर्तक-
मेव दर्शनप्रहातव्यं चित्तम्, अनुवर्तका एव पञ्च विज्ञानकायाः, उभयं भावनाहेयं
मनोविज्ञानम्, नोभयमनास्रवम् ॥ ११ ॥
किं खलु यथा प्रवर्तकं तथैवानुवर्तकं भवति ? नेदमेकान्तम्¹ ।
प्रवर्तके शुभादौ हि स्यात् त्रिधाप्यनुवर्तकम् ।
कुशले प्रवर्तके कुशलाकुशलाव्याकृतमनुवर्तकं स्यात् । एवमकुशले
च, अव्याकृते च ।
तुल्यं मुनेः,
बुद्धस्य तु भगवतस्तुल्यं प्रवर्तकेनानुवर्तकम्—कुशले कुशलम्, अव्याकृते
चाव्याकृतम् ।
शुभं यावत्,
कुशलं वा भवत्यनुवर्तकमव्याकृतेऽपि प्रवर्तके । न तु कदाचित् कुशलं
प्रवर्तकमनुवर्तकं चाव्याकृतं भवति । अम्लायमाना² हि बुद्धानां देशनेति ।
तदेवं वैभाषिकः प्रवर्तकं दृष्टेहेयं विज्ञानमिति सचोद्यपरिहारं प्रतिष्ठाप्य
निगमयति—अतो हेतुत्थानानेति विस्तरः । यदुक्तम्—'मिथ्यादृष्टेर्मिथ्यासंकल्पो
यावन्मिथ्याकर्मान्तः' इति, तस्य सूत्रस्य न विरोधो भवतीति ।
प्रवर्तकं चानुवर्तकं चेति । अन्तर्बहिर्मुखप्रवृत्तत्वात् ।
“पञ्चकं त्वनुवर्तकम्” इति । अवधारणमविकल्पकत्वात् ।
नोभयमनास्रवमिति । न प्रवर्तकम्, नाप्यनुवर्तकम्; समाहितान्तर्मुखप्रवृत्त-
त्वात् ॥ ११ ॥
अम्लायमानेति । अहीयमाना । शानच्प्रत्ययान्तश्चायं शब्दः ।
१. नायमेका०—का० । २. आम्नायमाना—का० ।
अभि० को० २ : १५
नास्ति बुद्धानामव्याकृतं चित्तमिति निकायान्तरीयाः। कुशलैकसन्ताना¹ हि
बुद्धानां सन्ततयः, नित्यं समाहितत्वात्। उक्तं हि सूत्रे—
“चरन् समाहितो नागस्तिष्ठन्नागः समाहितः।
स्वपन् समाहितो नागो निष्षण्णोऽपि समाहितः”॥ ( ) इति।
अनिच्छयास्य चित्तस्याविसरणादेवमुक्तम्, न तु न सन्त्यव्याकृतानि
विपाकजौर्यापथिकनिर्माणचित्तानि बुद्धानामिति वैभाषिकाः। मानसं भावनाहेयं
प्रवर्त्तकं चानुवर्तकं चेत्युक्तम्, तत् कुशलाकुशलाव्याकृतं सर्वं वेदितव्यम्।
नोभयं तु विपाकजम् ॥ १२ ॥
विपाकजं तु चित्तं नैव प्रवर्त्तकं नानुवर्तकम्; निरभिसंस्कारवाहित्वात्।
किमिदानीं यथा प्रवर्त्तकं तथा विज्ञप्तिः, आहोस्वित् यथा अनुवर्तकम् ? किं
चातः ? यथा प्रवर्त्तकं चेत, इहापि निवृताव्याकृता विज्ञप्तिः प्राप्नोति;
सत्कायान्तग्राहदृष्टिप्रवर्तितत्वात् ?
न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति विशेषणं वक्तव्यम्। यथानुवर्तकं
कुशलैकसन्ताना इति। कुशलैकप्रबन्धा इत्यर्थः। “बुद्धो भगवान् नागः”
इत्युक्तं सूत्रे। कथम् ? “तथागत उदायिन् सदेवके लोके समारके” इति
विस्तरेणोक्त्वाह—“आगो न करोति कायेन वाचा मनसा, तस्मान्नाग इत्यु-
च्यते” इति। आगो न करोतीति, अपराधं न करोतीत्यर्थः।
अनिच्छयास्येति। अनिच्छयास्य बुद्धस्य चित्तस्याविसरणाद् विषयेष्व-
गमनादेवमुक्तम्।
चरन्² समाहितो नाग इति विस्तरः। चतुर्ष्वीर्यापथेषु चरन् चरामीति,
यावत् निषीदन्निषीदामीति उपस्थितस्मृतित्वान्नित्यसमाहितः स उच्यते।
निरभिसंस्कारवाहित्वादिति। अभावो हि संस्कारस्य = प्रयत्नस्य निरभि-
संस्कारम्, निरभिसंस्कारं वहतीति निरभिसंस्कारवाही, तद्भावस्तस्मात्
इति।
न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति। स्यादेतदेवम्, यदि सर्वं दर्शनप्रहा-
तव्यं प्रवर्त्तकमिष्येत, न तु सर्वम्। किं तर्हि ? मिथ्यादृष्ट्यादिकमेव प्रवर्तकं
विज्ञप्तेः, न सत्कायदृष्ट्यादिकम् ? इत्यत आह—न वा सर्वमिति विशेषणं
१. कुशलैकताना—का०; जा०। २. चरण—मुद्रितः पाठः।