अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 621, कुल 1258 में से
संदर्भ में पढ़ें६०२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
साध्य एष पक्षः ।
भूतान्यपि तर्हि दर्शनप्रहातव्यानि स्युः; समानचित्तोत्थापितत्वात् ?
नैवं भविष्यति, यथा न कुशलाकुशलानि भवन्ति । अथ वा पुनर्भवन्तु ।
नैवं शक्यम् । न हि तानि दर्शनप्रहातव्यानि युज्यन्ते, नाप्यप्रहातव्यानि ।
किं कारणम् ? अक्लिष्टस्य धर्मस्य विद्याविद्याभ्यामविरोधात् ।
रूपं न विरुध्यते। न हि क्लिष्टाक्लिष्टरूपसमुदाचारावस्थायां तत्प्राप्तिप्रवाहे
वा सत्यविद्या न भवति । अविद्यायां च सत्यां तन्न भवति । यथा अनास्रवो
मार्गोऽविद्यया विरुध्यते; पृथग्जनावस्थायां तदनुत्पादात् । तदुत्पादे वार्या-
वस्थायां कस्याश्चिदविद्यायाः प्रहाणात् । तदेवमनास्रववदप्रहातव्यमपि न
भवति । न चेदप्रहातव्यम्, नापि दर्शनप्रहातव्यम्, पारिशेष्याद् भावना-
प्रहातव्यमिति सिद्धम् ।
इतर आह—साध्य एष पक्षः—विद्यया रूपं न विरुध्यत इति । यो हि
दर्शनप्रहातव्यं रूपमिच्छति स कथं विद्यया रूपस्याविरोधं ग्रहीष्यति !
वैभाषिक आह—भूतान्यपीति विस्तरः। यदि तद्रूपं दर्शनप्रहातव्यचित्त-
समुत्थापितं दर्शनप्रहातव्यं स्यात् । तदाश्रयभूतान्यपि तर्हि दर्शनप्रहातव्यानि
स्युः। कस्मात् ? समानचित्तोत्थापितत्वात् । येन हि दर्शनप्रहातव्येन चित्तेन
तद्रूपं समुत्थापितम्, तेनैव तदाश्रयभूतान्यपि इति । न च तानि तथा भवितु-
मर्हन्ति; अक्लिष्टाव्याकृतत्वात् । दर्शनप्रहातव्यानां च क्लिष्टत्वात् ।
इतर आह—नैवं भविष्यति । दर्शनप्रहातव्यानि स्युरिति । कथम् ?
इत्याह—यथा न कुशलाकुशलानि भवन्ति । यथा येन चित्तेन कुशलाकुशलेन
कुशलाकुशलं रूपं समुत्थापितं तेनैव तदाश्रयभूतानि समुत्थापितानि । तच्च
कायवाक्कर्मस्वभावं रूपं कुशलाकुशलम्, न तदाश्रयभूतानोति, तद्वत् । स
एव पुनः परावृत्याह—अथवा पुनर्भवन्तु दर्शनप्रहातव्यानीति ।
वैभाषिक आह—नैवं शक्यं भवितुम् । दर्शनप्रहातव्यानीति वाक्यशेषः ।
कस्मात् ? अक्लिष्टस्य धर्मस्य विद्याविद्याभ्यामविरोधात् । न ह्यक्लिष्टो धर्मः
अनिवृताव्याकृतः कुशलसास्रवश्च विद्ययाऽनास्रवेण मार्गेण विरुध्यते । यथा
क्लिष्टा धर्माः प्राप्तिच्छेदाद् विरुध्यन्ते । तदालम्बनक्लेशप्राप्तिच्छेदात्तु विरोधो
न प्रतिषिध्यते। नाप्यविद्यया विरुध्यते । प्राप्तिच्छेदेन तदालम्बनक्लेश-
प्रहातव्येन च । भूतानि चाक्लिष्टानि । तत्र यदुक्तम्—'अथवा पुनर्भवन्तु' इति,
तदयुक्तम् । तदेवमत्र साधनमुत्तिष्ठते—"न दर्शनप्रहातव्यानि क्लिष्टरूपाश्रय-
महाभूतानि; अक्लिष्टत्वादक्लिष्टचित्तचैत्तधर्मवत्" इति ।